श्रीगर्गसंहिता
विश्वजित्खण्डः - एकोनविंशोऽध्यायः
कौरवोपाख्यानम् -
श्रीनारद उवाच -
अथ कार्ष्णिर्महाबाहुर्ध्वजिनीभिः समन्वितः ॥
नादयन्दुंदुभीन्दीर्घान्दीर्घवेगः कुरून् ययौ ॥१॥
विंशतिर्योजनानां च मर्यादीकृततद्बले ॥
तस्थौ तच्छिबिराणां च विस्तारो दशयोजनम् ॥२॥
पंचयोजनमाश्रित्य तद्बले राजपद्धतिः ॥
धनाढ्यानां च वैश्यानामापणानि सहस्रशः ॥३॥
तथा रत्नपरीक्षाणां वस्त्रव्यापारकारिणाम् ॥
काचकरा वायकाश्च रंगकाराः कुलालकाः ॥४॥
कुंदकारास्तूलकाराः पटकारास्तथैव च ॥
टंककाराश्चित्रकाराः पत्रकाराश्च नापिताः ॥५॥
पट्टकारा रेतिकाराः पर्णकाराश्च शिल्पिनः ॥
लाक्षाकारा मालिनश्च रजकास्तैलिनस्तथा ॥६॥
तांबूलशोधिनस्तत्र चित्रपाषाणकर्मकाः ॥
अन्नभर्जकरास्तत्र काचभेदिन एव हि ॥७॥
मुक्तादीनां च रत्नानां सूक्ष्माणां रत्नवेधिनः ॥
एते कारुजनाः सर्वे दृश्यंते राजपद्धतौ ॥८॥
क्वचिद्भानुमतीर्लीला ऐंद्रजालविधायकाः ॥
क्वचिन्नटाश्च नृत्यंते युद्धं भल्लूकयोः क्वचित् ॥९॥
क्वचित्तु वानरी लीला डमरूवाद्यसंयुताः ॥
गायंति कुत्रचिद्राजन्सूतमागधवन्दिनः ॥१०॥
वारांगनाश्च नृत्यंति भूषैर्द्वादशभिर्युताः ॥
दिव्यैः षोडशशृङ्गारैर्हरंत्यप्सरसां मनः ॥११॥
बन्धूनामपि सेनानां महांतका गजाह्वये ॥
चालनं संभ्रमोपेतं विह्वलैश्च जनैरभूत् ॥१२॥
विदुद्रुवुर्जनाः सर्वे गृहेष्वापातितार्गलाः ॥
कोलाहलो महानासीद्गेहे गेहे जने जने ॥१३॥
वीर्य्यशौर्य्यबलोपेताः कौरवाश्चक्रवर्तिनः ॥
आसमुद्राः क्षितीशेंद्रा जातास्तेऽप्यतिशंकिताः ॥१४॥
प्रद्युम्नप्रेषितः साक्षादुद्धवो बुद्धिसत्तमः ॥
कौरवेंद्रपुरं प्राप्तो धृतराष्ट्रं ददर्श ह ॥१५॥
मदच्युतामास्य नृपस्य दंतिनां
कस्तूरिकाकुंकुमगंडशालिनाम् ॥
सिंदूरशुंडास्पदकर्णताडितैः
षडङ्घ्रिभिर्मण्डितमंदिराजिरम् ॥१६॥
यं भीष्मकर्णगुरुशल्यकृपैश्च भूरि-
बाह्लीकधौम्यशकुनैः सह संजयेन ॥
दुःशासनेन विदुरेण च लक्ष्मणेन
दुर्योधनेन च कृपीसुतसोमदत्तैः ॥१७॥
श्रीयज्ञकेतुसहितैः सहितं नृपेन्द्रं
लीलातपत्रसितचामरहेमपीठैः ॥
संसेवितं परिसमेत्य गजाह्वयेशं
नत्वोद्धवः प्रणत आह कृतांजलिस्तम् ॥१८॥
उद्धव उवाच -
प्रद्युम्नेन प्रकथितं शृणु राजेंद्रसत्तम ॥
उग्रसेनः क्षितीशेंद्रो यादवेंद्रो महाबलः ॥१९॥
विजित्य नृपतीन्सर्वान् राजसूयं करिष्यति ॥
प्रेषितस्तेन सेनाभिः प्रद्युम्नो रुक्मिणीसुतः ॥२०॥
जेतुं महोद्भटान् वीराञ्जंबुद्वीपस्थितान्नृपान् ॥
चैद्यशाल्वजरासंधदंतवक्त्रादिभूपतीन् ॥२१॥
विजित्य चागतः कार्ष्णिस्तस्मै यच्छ बलिं बहु ॥
उपायनं च दातव्यं बंधूनामैक्यकाम्यया ॥२२॥
माभूत्कुरूणां वृष्णीनां कलिर्नोचेद्भविष्यति ॥
तेनोदितं मे कथितं तत्क्षमस्व नृपेश्वर ॥
दूतस्य हीनदोषस्य त्वयोक्तं यद्वदामि तत् ॥२३॥
श्रीनारद उवाच -
तच्छ्रुत्वा कौरवाः सर्वे राजन्संजातमन्यवः ॥
वीर्य्यशौर्य्यमदोन्नद्धा उचुः प्रस्फुरिताधराः ॥२४॥
कौरवा ऊचुः
दुरत्यया कालगतिरहो चित्रमिदं जगत् ॥
सिंहोपरि प्रधावंति शृगाला दुर्बला वने ॥२५॥
अस्मत्सकाशात्संबंधा अस्मद्दत्तनृपासनाः ॥
दातॄणां प्रतिकूलास्तु दातॄणां फणीनो यथा ॥२६॥
वृष्णयो भीरवः सर्वे युधि विक्लवचेतसः ॥
तथैव शासनं कर्तुं प्रवृत्ता हि गतह्रियः ॥२७॥
उग्रसेनोऽल्पवीर्यश्च जंबूद्वीपस्थितान्नृपान् ॥
विजित्याहो बलिं नीत्वा राजसूयं करिष्यति ॥२८॥
यत्र भीष्मश्च कर्णश्च द्रोणो दुर्योधनादयः ॥
तत्र त्वं प्रेषितो मंत्री प्रद्युम्नेन कुबुद्धिना ॥२९॥
तस्माद्यात पुरीमध्ये यूयं वै जीवनेच्छया ॥
न चेद्यास्यथ वः सर्वान्नयामो यमसादनम् ॥३०॥
श्रीनारद उवाच -
इत्थं श्रीकृष्णविमुखैः कौरवैः परिभाषितम् ॥
श्रुत्वोद्धवः शम्बरारिमेत्य सर्वमुवाच ह ॥३१॥
कौरवोक्तं वचः श्रुत्वा प्रद्युम्नो धन्विनां वरः ॥
प्रतिशार्ङ्गं संगृहीत्वा रोषात्प्रस्फुरिताधरः ॥३२॥
प्रद्युम्न उवाच -
कौरवान्घातयिष्यामि बंधूनपि मदोद्धतान् ॥
बाणैस्तीक्ष्णैर्यथा योगी नियमैर्देहजा रुजः ॥३३॥
यदूनां सैन्यचक्रेषु बलिं यो न प्रदास्यति ॥
कौरवेभ्योऽपि स पुमान् पितुर्मातुर्न चौरसः ॥३४॥
श्रीनारद उवाच -
तदैव यादवाः सर्वे भोजवृष्ण्यंधकादयः ॥
गजाह्वयं ययुः सैन्यै राजन्संजातमन्यवः ॥३५॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
कौरवोपाख्यानं नामैकोनविंशोऽध्यायः ॥१९॥
GO TOP
|