श्रीगर्ग संहिता - विश्वजित्खण्डः - सप्तदशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - सप्तदशोऽध्यायः

मागधविजयम् -


श्रीनारद उवाच -
अथातो मागधञ्जेतुं प्रद्युम्नो मीनकेतनः ॥
गिरिव्रजं जगामाशु स्वसैन्यैः परिवारितः ॥१॥
श्रुत्वाऽऽगतं हरेः पुत्रं दिग्जयार्थं विशेषतः ॥
जरासंधो मागधेंद्रो महाकोपं चकार ह ॥२॥
जरासंध उवाच -
तुच्छा ये यादवाः सर्वे युधि विक्लवचेतसः ॥
तेऽद्य वै जगतीं जेतुं निर्गता गतबुद्धयः ॥३॥
मथुरां स्वपुरीं त्यक्त्वा मद्‌भयान्माधवोऽपिहि ॥
समुद्रं शरणं प्रागात्पिता चास्य दुरात्मनः ॥४॥
प्रवर्षणे रामकृष्णौ मया भस्मीकृतौ बलात् ॥
छलाद्‍दुद्रुवतुस्तौ द्वौ द्वारकायां समाश्रितौ ॥५॥
बद्ध्वा तौ चानयिष्यामि सोग्रसेनौ कुशस्थलीम् ॥
अयादवीं करिष्यामि पृथ्वीं सागरमेखलाम् ॥६॥
श्रीनारद उवाच -
इत्युक्त्वा निर्गतो राजा गिरिव्रजपुराद्‌बहिः ॥
अक्षौहिणीभिर्विंशत्या तिसृभिः संयुतो बली ॥७॥
गोमूत्रचयसिंदूरकस्तूरीपत्रभृन्मुखे ॥
स्रवन्मदैश्चतुर्दंतैरैरावतकुलोद्‌भवैः ॥८॥
शुण्डादण्डस्य फूत्कारैः क्षेपयद्‌भिस्तरून्बहून् ॥
बभौ गजैर्मागधेंद्रो मेघैरिंद्र इव प्रभुः ॥९॥
रथैश्च देवधिष्ण्याभैः सध्वजैरश्वनेतृभिः ॥
चामरैर्दोलितै राजंल्लोलचक्रध्वनिद्युतिः ॥१०॥
तुरङ्गमैर्वायुवेगैश्चित्रवर्णैर्मदोत्कटैः ॥
सौवर्णपट्टहाराद्यैः शिखारश्म्यूर्ध्वचामरैः ॥११॥
सकंचुकैर्वीरजनैः खड्गचर्मधनुर्धरैः ॥
विद्याधरसमैः प्रागान्मागधेंद्रो महाबलः ॥१२॥
धुंकारैर्दुंदुभीनां च दिशो नेदुर्धनुःस्वनैः ॥
चचाल वसुधा सैन्यै रजोभिश्छादितं नभः ॥१३॥
जरासंधस्य तत्सैन्यं प्रलयाब्धिमिवोल्बणम् ॥
विस्मिता यादवाः सर्वे बभूवुर्वीक्ष्य मैथिल ॥१४॥
प्रद्युम्नो भगवान्वीक्ष्य मागधेंद्रबलार्णवम् ॥
शंखं दघ्मौ दक्षिणाख्यं मा भैष्टेत्यभयं ददत् ॥१५॥
ततः सांबो महाबाहुः प्रद्युम्नस्य प्रपश्यतः ॥
अक्षौहिणीनां दशभिर्युयुधे मागधेन सः ॥१६॥
गजा गजैर्युयुधिरे रथिभी रथिनो मृधे ॥
हया हयैः पत्तयश्च पत्तिभिर्मैथिलेश्वर ॥१७॥
बभूव तुमुलं युद्धमद्‌भुतं रोमहर्षणम् ॥
मागधानां यदूनां चासुराणां निर्जरैर्यथा ॥१८॥
अश्वारुढाः केऽपि वीरा भल्लहस्ता इतस्ततः ॥
मर्दयंतो गजारूढाः करिकुम्भगतार्चयः ॥१९॥
केचिच्छक्तीस्तडिद्वर्णा गृहीत्वा चिक्षिपुर्बलात् ॥
ताः शक्तयस्त्वरीन् भित्वा दंशितान् धरणीं गताः ॥२०॥
केचिद्वीरा नदन्तः कौ रथांगानि च चिक्षुपुः ॥
चिच्छिदुर्वीरपटलं नीहारं रवयो यथा ॥२१॥
भिंदिपालैर्मुद्‌गरैश्च कुठारैरसिपट्टिशैः ॥
अच्छूरिकार्ष्टिभिस्तीक्ष्णैर्निस्त्रिंशैर्युयुधुश्च खे ॥२२॥
तोमरैश्च गदभिश्च बाणैश्छिन्नानि भूतले ॥
निपेतुर्वीरकरिणामश्वानां च शिरांसि च ॥२३॥
कबंधास्तत्र चोत्पेतुः पातयन्तो हयान्नरान् ॥
खड्गहस्ताः प्रधावन्तः संग्रामेषु भयंकरा ॥२४॥
वीरोपरि गता वीरा निपेतुश्छिन्नबाहवः ॥
हयोपरि हयाः केचिद्‌बाणैः संछिन्नकंधराः ॥२५॥
विद्याधर्यश्च गंधर्व्यो वव्रिरे ह्यंबरे गतान् ॥
वीरान्पतीन्समिच्छंत्यस्तासां चाभूत्कलिर्महान् ॥२६॥
क्षात्रधर्मापराः केचिद्युद्धदत्तासवो नृप ॥
न चलन्तः पदं पृष्ठे सदा संग्रामशालिनः ॥२७॥
जग्मुः परं पदं ते वै भीत्वा मार्तण्डमंडलम् ॥
ननृतुः शिशुमारे वै मंडले च नटा इव ॥२८॥
एवं सांबमहावीरैर्मर्दितं मागधं बलम् ॥
दुद्राव पश्यतां तेषां कृष्णभक्त्या यथाशुभम् ॥२९॥
केचिद्वै वृक्णवर्माणश्छिन्नचापास्तथापरे ॥
पलायमाना धावंतस्त्यक्तखड्गर्ष्टिपाणयः ॥३०॥
पलायमानं स्वबलं वीक्ष्य तन्मागधेश्वरः ॥
धनुष्टंकारयन्प्राप्तो मा भैष्टेत्यभयं ददौ ॥३१॥
स्वबलं नोदयामास जरासंधो धनुर्ज्यया ॥
महामात्यः प्रेरयति ह्यंकुशेन गजं यथा ॥३२॥
सांबस्तदैव सम्प्राप्तो दशभिश्चापनिर्गतैः ॥
बाणैर्विव्याध समरे मागधेंद्रं महाबलम् ॥३३॥
धनुर्ज्यामब्धिकल्लोलभीमसंघर्षनादिनीम् ॥
चिच्छेद दशभिर्बाणैः सांबो जांबवीसुतः ॥३४॥
धनुरन्यत्समादाय जरासंधो महाबलः ॥
धनुः सांबस्य चिच्छेद बाणैर्दशभिरग्रतः ॥३५॥
चतुर्भिश्चतुरो वाहान्द्वाभ्यां केतुं रथं त्रिभिः ॥
एकेन सारथिं जघ्ने मागधेंद्रो जरासुतः ॥३६॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥
पुनरन्यं समास्थाय रथं सांबो महाबलः ॥३७॥
गृहीत्वा चापमत्युग्रं सज्जं कृत्वा विधानतः ॥
तद्‌रथं चूर्णयामास सांबो बाणशतैरपि ॥३८॥
रथं त्यक्त्वा जरासंधो गजमारुह्य वेगतः ॥
बभौ गजे मागधेंद्र इन्द्र ऐरावते यथा ॥३९॥
चित्रपत्रविचित्रांगं कालांतकयमोपमम् ॥
सांबाय नोदयमास मत्तेभं क्रुद्धमानसः ॥४०॥
गृहीत्वा सरथं सांबं शुण्डादण्डेन नागराट् ॥
कुर्वंश्चीत्कारविकलश्चिक्षेप नवयोजनम् ॥४१॥
तदा कोलाहले जाते सांबसेनासु मैथिल ॥
प्रद्युम्नपार्श्वाच्च गदः प्राप्तोऽभूद्वेगतो बलम् ॥४२॥
विनाशयन्नंधकारं यथार्क उदयाचलात् ॥
जरासंधस्यापि गजं मुष्टिना वसुदेवजः ॥४३॥
जघान शक्रो वज्रेण यथा प्रोच्चदरीभृतम् ॥
गजो मुष्टिप्रहारेण विह्वलो धरणीं गतः ॥४४॥
जगाम पञ्चतां राजंस्तदद्‌भुतमिवावभवत् ॥
जरासंधः समुत्थाय गदामादाय वेगतः ॥४५॥
गदं तताड सहसा जगर्ज घनवद्‌बली ॥
तत्प्रहारेण स गदो न चचाल रणांगणात् ॥४६॥
त्वरं गदां समादाय लक्षभारविनिर्मिताम् ॥
अताडयज्जरासंधं सिंहनादमथाकरोत् ॥४७॥
तत्प्रहारेण व्यथितो बृहद्‌रथसुतो बली ॥
जरासंधः समुत्थाय गृहित्वा सगदं गदम् ॥४८॥
चिक्षेप रोषतो राजन्नाकाशे शतयोजनम् ॥
गदोऽपि मागधं नीत्वा भ्रामयित्वा महाबलः ॥४९॥
चिक्षेप गगने तं वै योजनानां सहस्रकम् ॥
आकाशात्पतितो राजा मागधो विंध्यपर्वते ॥५०॥
उत्थाय युयुधे तेन गदेनापि महाबलः ॥
तदैव सांबः संप्राप्तो गृहीत्वा मागधेश्वरम् ॥५१॥
भूपृष्ठे पोथयामास सिंहः सिंहमिवौजसा ॥
एकेन मुष्टिना सांबं द्वितीयेन गदं तथा ५२॥
तताड मागधो राजा जगर्जाशु रणांगणे ॥
मुष्टिप्रहारव्यथितौ गदः सांबश्च मूर्छितौ ॥५३॥
हाहाकारो महानासीत्तदैवाशु रणांगणे ॥
रथेनातिपताकेन प्रद्युम्नो यादवेश्वरः ॥५४॥
अक्षौहिणीयुतः प्राप्तो मा भैष्टेत्यभयं ददौ ॥
जरासंधो गदां नीत्वा लक्षभारविनिर्मिताम् ॥५५॥
विवेश यदुसेनायामरण्येऽग्निरिव प्रभुः ॥
रथान्गजन्सवीरांश्च तुरङ्गान्सैंधवान्बहून् ॥५६॥
पातयमास राजेंद्र पद्मानीव महागजः ॥
जरासंधस्य या सेना सापि सर्वा समागता ॥५७॥
जघान निशितैर्बाणैर्यदूनां सर्वतो बलम् ॥
प्रद्युम्नो युयुधे युद्धे निर्भयो यादवेश्वरः ॥५८॥
निपातयन्नरीन्बाणैर्धनुष्टङ्कारयन्मुहुः ॥
तदैव यदुपुर्यास्तु बलदेवः समागतः ॥५९॥
प्रादुर्बभूव तत्रापि सर्वेषां पश्यतां सताम् ॥
समाकृष्य हलाग्रेण मागधेंद्रं महाबलम् ॥६०॥
मुसलेनाहनत्क्रुद्धो बलदेवो महाबलः ॥
शतयोजनपर्यंतं रथाश्वगजपत्तयः ॥६१॥
पतिता भिन्नशिरसः सर्वे वै निधनं गताः ॥
देवदुंदुभयो नेदुर्नरदुन्दुभयस्तथा ॥६२॥
बलदेवोपरि सुराः पुष्पवर्षं प्रचकिरे ॥
तदा जयजयारावो यदूनां स्वबले महान् ॥६३॥
प्रद्युम्नाद्यास्ततो नेमुः कामपालं गतव्यथाः ॥
इत्थं जित्वा मागधेन्द्रं बलदेवो महाबलः ॥६४॥
प्रययौ द्वारकां राजन्भगवान्भक्तवत्सलः ॥
जरासंधसुतो धीमान् सहदेव उपायनम् ॥६५॥
नीत्वा पुरः शंबरारेर्गिरिदुर्गाद्विनिर्गतः ॥
अश्वार्बुदं रथानां च द्विलक्षं हस्तिनां तथा ॥६६॥
ददौ षष्टिसहस्रणि नत्वा कार्ष्णिं प्रभाववित् ॥६७॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
मागधविजयो नाम सप्तदशोऽध्यायः ॥१७॥


GO TOP