श्रीगर्ग संहिता - विश्वजित्खण्डः - षोडशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - षोडशोऽध्यायः

जनकोपाख्यानम् -


श्रीनारद उवाच -
दुंदुभीन्नादयंस्तस्मात्प्रद्युम्नो यदुनंदनः ॥
मैथिलानाययौ राजंस्तव देशान् सुखावृतान् ॥१॥
सुवर्णसौधैरत्युच्चैः सघटै राजितां पुरीम् ॥
मिथिलां वीक्ष्य तामारादुद्धवं प्राह माधवः ॥२॥
प्रद्युम्न उवाच -
कस्यैषा नगरी मंत्रिन् दृष्ययते सांप्रतं मया ॥
राजते बहुसौधैश्च पुरी भोगवती यथा ॥३॥
उद्धव उवाच -
जनकस्य पुरी ह्येषा मिथिला नाम मानद ॥
मिथिलेंद्रो धृतिस्तस्यां महाभागवतः कविः ॥४॥
सर्वधर्मभृतां श्रेष्ठः श्रीकृष्णेष्टो हरिप्रियः ॥
बहुलाश्वस्तस्य सुत आबाल्याद्‌भक्तिकृद्धरेः ॥५॥
तस्मै स्वं दर्शनं दातुं भगवानागमिष्यति ॥
बहुलाश्वं राजपुत्रं श्रुतदेवं द्विजं तथा ॥६॥
स्मरत्यलं द्वारकायां श्रीकृष्णो भगवान् हरिः ॥
जेतुं न शक्यो देवेंद्रैर्मनुजैश्च कुतः प्रभो ॥
धृतिः परमया भक्त्या श्रीकृष्णवशकारकः ॥७॥
श्रीनारद उवाच -
तच्छ्रुत्वा भगवान् कार्ष्णिरुद्धवेन समन्वितः ॥
स्वशिष्यमुद्धवं कृत्वा धृतिं द्रष्टुं समाययौ ॥८॥
भक्तेरेव परीक्षां हि कर्तुं तस्य नृपस्य च ॥
ददर्श मिथिलां कार्ष्णिरुद्धवेन समन्वितः ॥९॥
चर्मशस्त्रधृता वीरा मालातिलकशोभिताः ॥
जपन्तः कृष्णनामानि सर्वे वै यत्र मालया ॥१०॥
लिखितानि च नामानि द्वारि द्वारि हरेर्नृणाम् ॥
तथा श्रीकृष्णचित्राणि लिखितानि शुभानि च ॥११॥
कुड्ये कुड्ये गृहाणां च गदापद्मानि मानद ॥
दशावतारचित्राणि शंखचक्राणि यत्र वै ॥१२॥
तुलसीमंदिराणीत्थं प्राङ्गणे च गृहे गृहे ॥
एवं पश्यन्स सौधानि मिथिलायां जनान् बहून् ॥१३॥
मालातिलकसंयुक्तान् सर्वान्भक्तान्ददर्श ह ॥
तिलकैर्द्वादशाख्यैश्च युक्त्यैः कुंकुमजैर्वृतान् ॥१४॥
गोपीचंदनमुद्राभिश्चर्चिताञ्छांतविग्रहान् ॥
ऊर्ध्वपुंड्रधरान् विप्रान् हरिमंदिरचित्रितान् ॥१५॥
गदां मुद्रां ललाटे च ऊर्ध्वं वा हरिनामतः ॥
चक्रं शङ्खं च कमलं कूर्मं मत्स्यं भुजद्वये ॥१६॥
दधतश्च धनुर्बाणं मूर्ध्नि श्रीनंदकं हृदि ॥
मुसलं च हलं राजन्नथ कार्ष्णिर्ददश ह ॥१७॥
यस्या वीथ्यां भागवतं केचिच्छृण्वंति मानवाः ॥
इतिहासं भारतं च हरिवंशं तथापरे ॥१८॥
सनत्कुमारवासिष्ठयाज्ञवल्क्यपराशराः ॥
गर्गपौलस्त्यधर्मादिसंहिताः के पठंति वै ॥१९॥
ब्राह्मं पाद्मं वैष्णवं च शैवं लैंगं सगारुडम् ॥
नारदीयं भागवतमाग्नेयं स्कंदसंज्ञितम् ॥२०॥
भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् ॥
वाराहमात्सकौर्माणि ब्रह्माण्डाख्यं तथैव च ॥२१॥
वीथ्यां वीथ्यां स्म शृण्वन्ति जनाः सर्वे गृहे गृहे ॥
वाल्मीकिकाव्यं केचिद्वै श्रीरामचरितामृतम् ॥२२॥
स्मृतीः पठन्ति केचिद्वै केचिद्वेदत्रयीं द्विजाः ॥
केचित्कुर्वंति यज्ञं वै वैष्णवं मंगलायनम् ॥२३॥
राधाकृष्णेति कृष्णेति के वदन्ति मुहुर्मुहुः ॥
केचिन्नृत्यंति गायंति हरिकीर्तनतत्पराः ॥२४॥
मृदंगतालवादित्रैः कांस्यवीणामनोहरैः ॥
मंदिरे मंदिरे विष्णोः कीर्तनं श्रूयते जनैः ॥२५॥
नवलक्षणसंयुक्तां भक्तिं यां प्रेमलक्षणाम् ॥
कुर्वंति मैथिला राजन् मिथिलायां गृहे गृहे ॥२६॥
एवं तु नगरीं दृष्ट्वा प्रद्युम्नो भगवान्हरिः ॥
राजद्वारं समेत्याशु मैथिलेशं ददर्श ह ॥२७॥
मैथिलेशसभायां तु वेदव्यासः शुको मुनिः ॥
याज्ञवल्क्यो वसिष्ठश्च गौतमोऽहं बृहस्पतिः ॥२८॥
अन्ये च मुनयस्तत्र वेदमूर्तिधरा इव ॥
दृश्यन्ते धर्मवक्तारो हरिनिष्ठा इतस्ततः ॥ २९॥
मैथिलेंद्रो धृतिस्तत्र भक्तिभावनताननः ॥
बलस्य पादुकापूजां कुरुते विधिवन्नृप ॥३०॥
जपन्मुक्तिकरं नाम श्रीकृष्णबलदेवयोः ॥
दृष्ट्वोत्थाय नमश्चक्रे सशिष्यं ब्रह्मचारिणम् ॥३१॥
तं पूजयित्वा विधिवत् पाद्याद्यैर्मैथिलेश्वरः ॥
कृतांजलिपुटो राजा तदग्रे च स्थितोऽभवत् ॥३२॥
जनक उवाच -
अद्य मे सपलं जन्म मंदिरं विशदीकृतम् ॥
देवर्षिपितरः सर्वे संतुष्टा आगते त्वयि ॥३३॥
निर्विकल्पाः समदृशस्त्वादृशाः साधवः क्षितौ ॥
निःश्रेयसाय भगवन्दीनानां विचरंति हि ॥३४॥
ब्रह्मचार्युवाच -
धन्योऽसि राजशार्दूल धन्या ते मिथिलापुरी ॥
धन्याः प्रजाश्च ते सर्वा विष्णुभक्तिसमन्विताः ॥३५॥
जनक उवाच -
ममेयं नगरी नास्ति न प्रजा न गृहं धनम्॥
कलत्रपुत्रपौत्रादि सर्वं कृष्णस्य चैव हि ॥३६॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥
असंख्यब्रह्मांडपतिर्गोलोके धाम्नि राजते ॥३७॥
वासुदेवः संकर्षणः प्रद्युम्नः पुरुषः स्वयम् ॥
अनिरुद्धस्तथा चैकश्चतुर्व्यूहोऽभवत् क्षितौ ॥३८॥
कायेन मनसा वाचा बुद्ध्या वाचेंद्रियैः कृतम् ॥
तस्मै समर्पितं शौक्ल्यं मया ब्रह्मन्महामुने ॥३९॥
ब्रह्मचार्युवाच -
हे वैदेह महाभाग विष्णुभक्तिमतां वर ॥
त्वद्‌भक्त्या तोषितः कृष्णस्तवैकत्वं प्रदास्यति ॥४०॥
जनक उवाच -
दासोऽहं कृष्णभक्तानां त्वादृशानां महात्मनाम् ॥
मुक्तिं नेच्छामि हे ब्रह्मन्नेकतां हेतुवर्जितः ॥४१॥
ब्रह्मचार्युवाच -
करोष्यहैतुकीं भक्तिं राजंस्त्वं हेतुवर्जितः ॥
निर्गुणैर्भक्तिभावैश्च प्रेमलक्षणसंयुतः ॥४२॥
प्रद्युम्नो भगवान्साक्षाद्दिग्जयार्थं विनिर्गतः ॥
नायातस्तव गेहेषु संदेहो मे महानभूत् ॥४३॥
जनक उवाच -
प्रद्युम्नो भगवान्साक्षादंतर्यामी हरिः स्वयम् ॥
सर्वगः सर्वविच्छश्वदत्र नास्ति च किं प्रभो ॥४४॥
ब्रह्मचार्युवाच -
ज्ञानदृष्ट्यापि चेत्कार्ष्णिं मन्यसेऽत्र निरंतरम् ॥
तर्हि दर्शय तं देवं प्रह्लाद इव दिव्यदृक् ॥४५॥
श्रीनारद उवाच -
एतच्छ्रुत्वा तदा राजा महाभागवतो धृतिः ॥
अश्रुपूर्णमुखो भूत्वा प्राह गद्‌गदया गिरा ॥४६॥
जनक उवाच -
यदि मे श्रीहरेर्भक्तिरनिमित्ता कृता भुवि ॥
तर्हि कार्ष्णिर्हरेः पुत्रः प्रादुर्भूयान्ममाग्रतः ॥४७॥
यदि श्रीकृष्णभक्तानां दासोऽहं यदि तत्कृपा ॥
सर्वत्र यदि तद्‌भावस्तर्हि भूयान्मनोरथः ॥४८॥
श्रीनारद उवाच -
प्रादुर्बभूवाशु तदैव कार्ष्णि-
     र्विसृज्य सद्यः किल वर्णरूपम् ॥
पश्यत्सु सर्वेषु जनेषु शिष्यः
     स गद्‌गदोऽभूद्धरिभक्तिनिष्ठः ॥४९॥
घनप्रभं पद्मदलायतेक्षणं
     प्रलंबबाहुं जगतां मनोहरम् ॥
पीतांबरं नीलगुडालकालिभीः
     स्वलंकृतं श्रीमुखपद्ममंडलम् ॥५०॥
शीतर्तुबालार्ककिरीटकुंडलं
     काच्यंगदस्फूर्जितदिव्यविग्रहम् ॥
विलोक्य तं कृष्णसुतं कृतांजलि-
     र्ननाम साष्टांगमलं धृतिर्नृपः ॥५१॥
जनक उवाच -
अहोऽतिधन्यं मम भूरि भाग्यं
     दत्तं त्वया मे निजदर्शनं हि ॥
जातोऽद्य कायाधवतुल्य आरा-
     द्‍गृहं कृतार्थोऽस्मि कुलेन भूमन् ॥५२॥
श्रीप्रद्युम्न उवाच -
धन्यस्त्वं नृपशार्दूल भक्तस्त्वं मत्प्रभाववित् ॥
भक्तिभावपरीक्षार्थं प्राप्तोऽहं तव सांप्रतम् ॥५३॥
अद्यैव मम सारूप्यं भूयात्ते मैथिलेश्वर ॥
बलमायुर्यशःकीर्तिरिह लोके भवत्वलम् ॥५४॥
श्रीनारद उवाच -
तव पित्रा च धृतिना पूजितः पश्यतां सताम् ॥
प्रययौ शिबिरान् राजन् प्रद्युम्नो भक्तवत्सलः ॥५५॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
जनकोपाख्यानं नाम षोडशोऽध्यायः ॥१६॥


GO TOP