श्रीगर्ग संहिता - विश्वजित्खण्डः - प्रथमोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - प्रथमोऽध्यायः

मरुत्तोपाख्यानम् -


श्री भगवानुवाच -
नमो भगवते तुभ्यं वासुदेवाय साक्षिणे ॥
प्रद्युम्नायानिरुद्धाय नमः संकर्षणाय च ॥१॥
अज्ञानतिमिरान्धस्य ज्ञानांजनशलाकया ॥
चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥२॥
श्रीगर्ग उवाच -
इत्थं श्रीकृष्णचरितं मया ते कथितं मुने ॥
चतुष्पदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि ॥३॥
शौनक उवाच -
बहुलाश्वो मैथिलेंद्रः श्रीकृष्णेष्टो हरिप्रियः ॥
किं पप्रच्छाथ देवर्षिं तन्मे ब्रूहि तपोधन ॥४॥
श्रीगर्ग उवाच -
उग्रसेनं यादवेंद्रं श्रीकृष्णेन कृतं मुने ॥
श्रुत्वातिविस्मितो राजा नारदं प्राह मैथिलः ॥५॥
बहुलाश्व उवाच -
को वायं मरुतो राजा केन पुण्येन भूतले ॥
यादवेंद्रो महाबुद्धिरुग्रसेनो बभूव ह ॥६॥
यस्य श्रीकृष्णचन्द्रोऽपि सहायोऽभूद्धरिः स्वयम् ॥
तस्याहो महिमानं मे ब्रूहि देवर्षिसत्तम ॥७॥
श्रीनारद उवाच -
सूर्यवंशोद्‌भवो राजा चक्रवर्ती कृते युगे ॥
यज्ञं चकार विधिवन्मरुतो यो जगज्जितः ॥८॥
महासम्भृतसम्भारैर्हिमाद्रेः पार्श्व उत्तरे ॥
संवर्तं मुनिशार्दूलं गुरुं कृत्वा हि दीक्षितः ॥९॥
पंचयोजनविस्तीर्णः कुण्डोऽभूद्यस्य चाध्वरे ॥
योजनं ब्रह्मकुण्डस्तु गव्यूतिः पंच कुंडकाः ॥१०॥
मेखलागर्तविस्तारवेदीभिर्निर्मिता दश ॥
सहस्रहस्तमुच्चाङ्‌गो यज्ञस्तंभो बभौ महान् ॥११॥
विंशद्योजनविस्तीर्णः सौवर्णो यज्ञमण्डपः ॥
वितानतोरणै रेजे कदलीषंडमण्डितः ॥१२॥
ब्रह्मरुद्रादयो देवाः सगणास्तत्र चागताः ॥
ऋषयो मुनयः सर्वे तस्य यज्ञं समाययुः ॥१३॥
होतारो दश लक्षाणि दश लक्षाणि दीक्षिताः ॥
अध्वर्यवः पंचलक्षमुद्‌गातारस्तथा परे ॥१४॥
आहूतास्तत्र विद्वांसश्चतुर्वेदविदो द्विजाः ॥
सर्वशास्त्रार्थ तत्वज्ञाः कोटिशोऽन्ये प्रपूजिताः ॥१५॥
हस्तिशुण्डासमां धारां भुक्त्वाऽऽज्यस्य हुताशनः ॥
अजिर्णं प्राप तद्यज्ञे न चित्रं विद्धि मैथिल ॥१६॥
येभ्यो भागं वदन्तीह विश्वेदेवाः सभासदः ॥
तेभ्यस्तेभ्यो ददुर्वा ताः परिवेष्टार एव ते ॥१७॥
केऽपि जीवास्त्रिलोक्यां तु न बभूवुर्बुभुक्षिताः ॥
सर्वे देवास्तु सोमेन ह्यजीर्णत्वमुपागताः ॥१८॥
संवर्ताय ददौ राज्यं जंबूद्वीपस्य चाध्वरे ॥
गजानां हेमभाराणां नियुतानि चतुर्दश ॥१९॥
शतार्बुदं हयानां तु यज्ञांते दक्षिणां नृप ॥
कोटिशो नवरत्‍नानां महार्हाणां महात्मने ॥२०॥
हयानां पंचसाहस्रं गजानां शतमेव च ॥
शतभारं सुवर्णानां ब्राह्मणे ब्राह्मणे ददौ ॥२१॥
जलभोजनपात्राणि हैमानि प्रस्फुरंति च ॥
भुक्त्वा तानि विसृज्याशु गतास्तुष्टा द्विजातयः ॥२२॥
विप्रत्यक्तैः स्वर्णपात्रैरुच्छिष्टैर्नृप वर्जितैः ॥
हिमाद्रिपार्श्वे शैलोऽभूदद्यापि शतयोजनम् ॥२३॥
मरुतस्य यथा यज्ञो न तथान्यस्य कर्हिचित् ॥
त्रिलोक्यां शृणु राजेन्द्र न भूतो न भविष्यति ॥२४॥
यज्ञकुण्डाद्विनिर्गत्य परिपूर्णतमः स्वयम् ॥
आत्मानं दर्शयामास मरुताय महात्मने ॥२५॥
तमालोक्य हरिं नत्वा कृतांजलिपुटो नृपः ॥
गदितुं न समर्थोऽभूद्रोमांची प्रेमविह्वलः ॥२६॥
तं प्रेमपूरितं दृष्ट्वा पतितं पादयोर्नतम् ॥
उवाच भगवान्साक्षान्मेघगंभीरया गिरा ॥२७॥
श्रीभगवनुवाच -
राजंस्त्वयाहं विनयेन तोषितो
     निष्कारणैर्यज्ञपरैः समर्चितः ॥
वरं परं ब्रूहि महामते त्वरं
     दास्यामि देवैरपि दुर्लभं दिवि ॥२८॥
श्रीनारद उवाच -
श्रुत्वा तु राजा मरुतः कृतांजलिः
     प्रदक्षिणीकृत्य हरिं परमेश्वरम् ॥
संपुज्य भक्त्या विशदोपचारकै-
     र्नत्वा भृशं गद्‌गदया गिराब्रवीत् ॥२९॥
मरुत उवाच -
न वेद्‍म्यहं त्वच्चरणारविंदतो
     वरं परं श्रीपुरुषोत्तमोत्तम ॥
समेत्य गंगा तृषितातिदुर्धियः
     खनंति कूपं हि यथा नरेतराः ॥३०॥
तथापि याचे तव वाक्यगौरवा-
     त्पादारविंदं हृदयारविंदात् ॥
कदापि मे मा व्रजतु व्रजेश्वर
     मूलं चतुर्णां विदुरर्थसंपदाम् ॥३१॥
श्रीभगवानुवाच -
धन्यऽस्ति राजंस्तव निर्मला मतिः
     प्रलोभितस्यापि वरैर्न कामभृत् ॥
तथापि मत्तो वरयेप्सितं वरं विना
     फलं भक्तसुखान्न मे सुखम् ॥३२॥
मरुत उवाच -
देयं यदा मे वरमीप्सितं प्रभो
     वैकुण्ठलोकं कुरुताद्धरातले ॥
रक्ष स्थितं मां निजभक्तवत्सल
     तस्मिन्पुरे भक्तजनैः परैः सह ॥३३॥
श्रीभगवानुवाच -
अस्मिन्मनौ देवमनोरथाब्धिं
     गतेषु विंशेषु युगेषु चाष्टौ ॥
गत्वाथ नाकं धरणीं समेत्य
     मया हि गोवत्सपदं करिष्यसि ॥३४॥
श्रीनारद उवाच -
इत्युक्त्वा भगवान्साक्षात्तत्रैवांतरधीयत ॥
सोऽयं तु मरुतो राजा ह्युग्रसेनो बभूव ह ॥३५॥
तं यज्ञं कारयामास राजसूयं हरिः स्वयम् ॥
किं दुर्लभं त्रिलोक्यां तु भक्तानां मैथिलेश्वर ॥३६॥
मरुतस्यापि चरितं यः शृणोति नृपोत्तम ॥
तस्य ज्ञानं सवैराग्यं भक्तियुक्तं प्रजायते ॥३७॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
श्रीमरुतोपाख्यानं नाम प्रथमोऽध्यायः ॥१॥


GO TOP