श्रीगर्गसंहिता
द्वारकाखण्डः - द्वाविंशोऽध्यायः
सुदामाविप्रोपाख्यानम् -
श्रीनारद उवाच -
श्रीकृष्णस्य सखा कश्चित् सुदामा नाम ब्राह्मणः ।
स उवास स्वपुर्यां तु सत्या च भार्ययावृतः ॥ १ ॥
विरक्तो धनहीनश्च वेदवेदांगपारगः ।
समानशीलया पत्न्या चक्रे वृत्तिमयाचिताम् ॥ २ ॥
स कदाचित् प्रियां प्राह सीदमानां दरिद्रतः ।
श्रीकृष्णो द्वारकानाथो मित्रं मम पतिव्रते ॥ ३ ॥
मया तेनापि पठिता विद्या सान्दीपनेर्गृहे ।
पुनर्न दृष्टः श्रीकृष्णो भोजवृष्ण्यन्धकेश्वरः ॥ ४ ॥
त्रैलोक्यनाथो भगवान् दुःखहा दीनवत्सलः ।
इति श्रुत्वा वचस्तस्य शुष्कवक्त्रा पतिव्रता ॥ ५ ॥
जीर्णवस्त्रधरा दीना पतिं प्राह बुभुक्षिता ।
यदि ब्रह्मन् ननु हरिः सखा ते कमलापतिः ॥ ६ ॥
बुभुक्षितः कथंभूतो जीर्णकर्पटधारणः ।
द्वारकायां जना गत्वा दृष्ट्वा साक्षाच्छ्रीयः पतिम् ।
धनयुक्ताः समायान्ति तस्मात्वं गन्तुमर्हसि ॥ ७ ॥
सुदामोवाच -
सर्वेषां शिक्षकोऽहं त्वं तस्मै शिक्षां प्रदास्यसि ।
विप्रस्य विदुषो भिक्षा धनं प्रकथितं प्रिये ॥ ८ ॥
प्रियोवाच -
सखातु श्रीपतिर्यस्य नातिदूरे प्रवर्त्तते ।
तमुपेहि स ते दुःखं दारिद्र्यं नाशयिष्यति ॥ ९ ॥
गता अवस्था मम ते दुःखदारिद्र्य भुंजतोः ।
दातुः कृपानिधेः कान्त मित्रतायाश्च किं फलम् ॥ १० ॥
सुदामोवाच -
विधिना लिखितं भाग्यं तत्तथैव भविष्यति ।
यातायातेन किं भद्रे हरेर्ध्यानं करोम्यहम् ॥ ११ ॥
यद्द्वारि देशे राजानो देवगन्धर्वकिन्नराः ।
आज्ञां विना न यास्यन्ति दीनस्य मम का कथा ॥ १२ ॥
प्रियोवाच -
विनाज्ञां नैव यास्यन्ति देवगन्धर्वकिन्नराः ।
अन्तर्यामी हरिः शीघ्रं दूतैस्त्वामाह्वयिष्यति ॥ १३ ॥
विप्र उवाच -
दयालुरीदृशः कृष्णो परन्तु श्रृणु भामिनि ।
विपत्तिकाले मित्रस्य न गच्छेद् गृहमुत्तमम् ॥ १४ ॥
कथं तु याचनां कुर्वे चिराद्दृष्ट्वा स्वकं प्रियम् ।
निर्लोभात्तु भवेत् प्रीतिर्याचनात्तु गमिष्यति ॥ १५ ॥
प्रियोवाच -
दुःखदारिद्र्यहरणं श्रीहरेदर्शनं कुरु ।
याचना नैव कर्तव्या स तेऽर्थं बहु दास्यति ।
एवं तु प्रियया विप्रो बहुधैवं प्रभाषितः ॥ १६ ॥
अयं हि परमो लाभः कृत्वा मित्रस्य दर्शनम् ।
उपायनं तु किं दास्ये लज्जितोऽहं दरिद्रतः ॥ १७ ॥
इत्युक्त्वा सा गता शीघ्रं परगेह तदा सती ।
तण्डुलांश्चतुरो मुष्टिन् याचित्वा स्वगृहं ययौ ॥ १८ ॥
जीर्णकर्पटखण्डे च बद्ध्वा तान् पतये ददौ ॥ १९ ॥
ततो गृहीत्वा पृथुकांश्च तण्डुलान्
कुचैलधारी मलिनश्च दुर्बलः ।
जगाम कृष्णस्य पुरीं शनैः शनै-
र्ब्रह्मण्यदेवं मनसा च संस्मरन् ॥ २० ॥
सोत्तीर्य सिन्धुमुडुपेन ददर्श तत्र
श्रीद्वारकां हरिपुरिं कनकैर्विचित्राम् ।
श्रेणीसभाविविधदुर्गगृहैः पताकैः
श्रृंगाटकैरतिबलैर्यदुभिश्च गुप्ताम् ॥ २१ ॥
दृष्ट्वा कृष्णपुरीं विप्रो जनानापृछ्य श्रीहरेः ।
श्रीमन्दिरं तु कुत्रास्ते सर्वे वदत साम्प्रतम् ॥ २२ ॥
इति श्रुत्वा माधवस्य भवनानाञ्च रक्षकाः ।
उचुस्ते वर्तते कृष्णः सर्वेषु मन्दिरेषु च ॥ २३ ॥
इत्युपश्रुत्य सदनं प्रविश्यैकतमं द्विजः ।
ब्रह्मानन्दं गतः कृष्णं पर्यंकस्थं विलोक्य च ॥ २४ ॥
सखायमागतं ज्ञात्वा सहसोत्थाय माधवः ।
दोर्भ्यां मिलित्वा चान्योन्यं प्रेम्णा ह्यश्रुकलाकुलः ॥ २५ ॥
स्वर्णपात्रेण तस्यापि पादौ प्रक्ष्याल्य तज्जलम् ।
गृहीत्वा शिरसा तं तु पर्यंक उपवेश्य च ॥ २६ ॥
अर्चनं कृतवान् गन्ध-चन्दनागुरुकुंकुमैः ।
पक्वान्नैर्धूपदीपैश्च मधुपर्कैर्विधानतः ॥ २७ ॥
पश्चादावेद्य ताम्बूलं गाञ्च स्वागतमब्रवीत् ।
वृद्धं कुचैलं मलिनं दुर्बलं श्वेतमूर्द्धजम् ॥ २८ ॥
मित्रविन्दा पर्यचर-द्व्यजनेन स्मितान्विता ।
श्रीकृष्णस्य प्रियाः सर्वा विस्मिता जहसुस्तदा ॥ २९ ॥
उचुः परस्परं नार्यः प्रेक्ष्य विप्रं समर्चितम् ।
भिक्षुणा ह्यवधूतेन किमनेन कृतं तपः ॥ ३० ॥
येन त्रैलोक्यनाथेन सत्कृतश्चाग्रजो यथा ।
एतस्मिन्नन्तरे तौ द्वौ कथयाञ्चक्रतुः कथाः ।
पूर्वा गुरुकुले जाता हस्तौ गृह्य परस्परम् ॥ ३१ ॥
श्रीकृष्ण उवाच -
श्रृणु ब्रह्मन् प्रपठिता सर्वविद्या त्वया मया ।
गुरवे दक्षिणां दत्वा पुनस्त्वं नैव दृश्यसे ॥ ३२ ॥
अहं तु द्वारकां यातो जरासन्धभयात् सखे ।
कुत्र स्थले तव विभो निवासो वद मे खलु ॥ ३३ ॥
कदाचिदिन्धनार्थे वै गुरुदारैः प्रणोदिताः ।
विद्यार्थिनो वयं सर्वे वनं जग्मुर्भयंकरम् ॥ ३४ ॥
विपत्तिरभवत् तत्र वातवर्षभयंकरी ।
रविरस्तं गतो रात्र्यामन्धकारोऽभवन्महान् ॥ ३५ ॥
सर्वं जलमयं जातं स्थलं नैव तु दृश्यते ।
वयं परस्परं सर्वे गृहीतकरपंकजा ॥ ३६ ॥
विद्युत्प्रकाशे पश्यन्तो दिक्षु सर्वासु बभ्रमुः ।
ततः सूर्योदये जाते गुरुः सान्दीपनिर्महान् ॥ ३७ ॥
जले शिष्यांश्च शीतार्तान् वनं गत्वा ददर्श ह ।
जलात् सर्वान् स्थले कृत्वा गुरुरश्रुपरिप्लुतः ॥ ३८ ॥
उवाच बालका यूयमस्मदाज्ञापरायणाः ।
प्रेष्ठस्तु प्राणिनामात्मा तमनादृत्य मत्पराः ॥ ३९ ॥
तस्माद्भवद्भ्यः सन्तुष्टो वरं दास्यामि दुर्लभम् ।
भवतां चापि सर्वत्र पूर्णाः सन्तु मनोरथाः ॥ ४० ॥
वेदशास्त्रपुराणानि कण्ठस्थानि भवन्तु हि ।
तस्माद्गुरोश्च कृपया पूर्णोऽहं सर्वसौख्यतः ॥ ४१ ॥
सुदामोवाच -
देवदेव गुरुस्त्वं तु कोटिब्रह्माण्डनायकः ।
श्रीपतेस्तस्य गुरुषु वासोऽत्यन्तविडम्बनम् ॥ ४२ ॥
ततः सुदामा विप्रस्तु कृष्णाय परमात्मने ।
पृथुकाँस्तण्डुलान् राजन् न प्रायच्छदवाङ्मुखः ॥ ४३ ॥
सर्वात्मा भगवांस्तस्य ज्ञात्वाऽऽगमनकारणम् ।
नायं विप्रस्तु श्रीकामो मुक्त्यर्थं मां तु सेवते ॥ ४४ ॥
भार्यां पतिव्रता दुःखाद्धनाशां चास्य कुर्वती ।
तस्माद्धनं कथं दास्ये अदात्रोश्च तयोरहम् ॥ ४५ ॥
इति ब्रुवन् पुनर्ज्ञात्वा हेतोर्मम स तण्डुलान् ।
प्रगृह्य गतवानत्र लज्जया नैव दास्यति ॥ ४६ ॥
तस्मात्तु याचनां कुर्वे विदित्वैवं वचोऽब्रवीत् ॥ ४७ ॥
कृष्ण उवाच -
गृहान् मदर्थे भवता किमानीतमुपायनम् ।
अण्वप्युपाहृतं यच्च भक्त्या भूरि भविष्यति ॥ ४८ ॥
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ४९ ॥
इत्थमाभाष्य भगवानदातुश्च द्विजन्मनः ।
चीरखण्डात्तण्डुलांश्च जहार किमिदं स्वयम् ॥ ५० ॥
एतत्त्वयोपनीतं मे सखे परमप्रीणनम् ।
विश्वं मां तर्पयिष्यन्ति ब्रह्मन्नेते च तण्डुलाः ॥ ५१ ॥
ईदृशा गोकुले भुक्ताः श्रेष्ठाः पृथुकतण्डुलाः ।
मात्रा यशोदया दत्ताः पुनस्तान्नैव दृष्टवान् ॥ ५२ ॥
इत्येकमुष्टि जग्ध्वा च भूमिजां सम्पदं ददौ ।
द्वितीयां जग्धुमारेभे दातुं पातालसम्पदाम् ॥ ५३ ॥
तावद्वक्षस्थलाच्छ्रीघं जगृहे श्रीः करं हरेः ।
अपराधाद्विना नाथ कथं मां त्यक्तुमिच्छसि ॥ ५४ ॥
एतावताऽलं श्रीकृष्ण शक्रतुल्यो द्विजो भवेत् ।
द्विजेन निर्धनेनापि न ज्ञातं तद्रहस्यकम् ॥ ५५ ॥
सम्पूर्णञ्च धनं प्राप्तं स्वगृहे विष्णुमायया ।
उषित्वा रजनीमेकां भुक्त्वा पीत्वा सुखं गतः ॥ ५६ ॥
श्वोभूते स्वगृहान् गन्तुं कृष्णं नत्वा मनो दधे ।
स चाज्ञप्तो भगवता वन्दितः परिरम्भितः ॥ ५७ ॥
याचना न कृता तेन व्रीडितः स्वगृहान् ययौ ।
ब्रह्मण्यता मया दृष्टा विप्रदेवस्य श्रीपतेः ॥ ५८ ॥
अहं दरिद्रः कृष्णस्य बाहुभ्यां परिरम्भितः ।
प्रियाजुष्टे च पर्यंके भ्रातेव स्थापितो द्विजः ॥ ५९ ॥
वीजितो व्यजनेनापि रुक्मिण्या सत्यभामया ।
निर्द्धनस्तु धनं लब्ध्वा श्रीपतिं नैव संस्मरेत् ॥ ६० ॥
इत्थं करुणया मह्यं धनं कृष्णो न दत्तवान् ।
इत्थं विचारयन् गच्छन् संस्मरन्ब्राह्मणीं रुषा ॥ ६१ ॥
गृहाण धनकोटिञ्च गृहं गत्वा ब्रवीम्यहम् ।
ब्रह्मण्यदेवो दाता च श्रीकृष्णोऽयं मया श्रुतः ॥ ६२ ॥
प्रत्यक्षदृष्टः कृपणो गर्वितो धनपूरितः ।
शापं दास्ये कथं मित्रे धनलोभादहं वृथा ॥ ६३ ॥
यादृशी मे कृता प्रीतिस्तादृशीं प्रापयिष्यति ।
पितरावस्य कंसेन कारागरे कृतौ पुरा ॥ ६४ ॥
कृष्णस्तु नन्दसदने परगेहे च वर्द्धितः ।
स दास्यति कथं द्रव्यं धनयुक्तोऽपि निर्धनः ॥ ६५ ॥
रत्नैः प्रपूरितान् गेहान् दृष्ट्वा वाञ्छां न कारयेत् ।
ललाटे लिखितं यद्यन्न तन्न्यूनं भविष्यति ॥ ६६ ॥
इति संकथयन् विप्रो निजपुर्यन्तिके गतः ।
सुवर्णदुर्गसंयुक्तां कपाटध्वजमण्डिताम् ॥ ६७ ॥
तोरणैः कलशैश्चित्रैः प्रासादैः सुजनैर्वृताम् ।
द्वारकामिव शोभाढ्यां सर्वरत्नैः प्रपूरिताम् ॥ ६८ ॥
दृष्ट्वा विप्रस्तु किमिदं कस्य स्थानमिति ब्रुवन् ।
रथ्यां रथ्यां भ्रमन्तं तं प्रत्यगृह्णन् स्त्रियो नराः ॥ ६९ ॥
नागच्छन्तं द्विजं दृष्ट्वा किंकर्यः किंकरास्तथा ।
स्वामिन्यै कथयामासुः श्रुत्वा सा विस्मयं गता ॥ ७० ॥
भर्तारमागतं श्रुत्वा पत्नी सम्भ्रमसंयुता ।
निश्चक्रामालयात्तूर्णं साक्षाच्छ्रीरिव रूपिणी ॥ ७१ ॥
ब्राह्मणी शिबिकारूढा दासीदासगणैर्वृता ।
भ्रमन्तमग्रहीद्विप्रं दर्शयित्वा स्वकं मुखम् ॥ ७२ ॥
दृष्ट्वा स्फुरन्तीं तरुणीञ्च भार्यां
स्वर्णाम्बरै रत्नविभूषणाढ्याम् ।
यथेन्दिरां रूपवतीं विमाने
मुदान्वितः कृष्णकृपाञ्च मेने ॥ ७३ ॥
निजगेहं तया युक्तः श्रीकृष्णभवनोपमम् ।
भोजनैर्द्रव्यरत्नैश्च पर्यंकव्यजनासनैः ॥ ७४ ॥
वितानैः स्वर्णपात्रैश्च तोरणैः समलंकृतम् ।
दृष्ट्वा कृष्णस्य कृपया सुदामा तरुणोऽभवत् ॥ ७५ ॥
बुभुजेऽलम्पटो विप्रः समृद्धिं स्वामहैतुकीम् ।
मनसा जायया त्यक्ष्यञ्ज्ञानवैराग्यभक्तितः ॥ ७६ ॥
चकार तर्कनां विप्रः कुतो मम समृद्धयः ।
दत्त ब्रह्मण्यदेवेन देवानामपि दुर्लभाः ॥ ७७ ॥
ईदृशीं सम्पदं दत्वा नावोचत् किमपि स्वयम् ।
मम तण्डुलमुष्टिञ्च प्रीत्या प्रत्यग्रहीद्धरिः ॥ ७८ ॥
तस्य सख्यञ्च दास्यञ्च भूयान्मे जन्मजन्मनि ।
तत्पदाम्बुरुहध्यानात् तरिष्येऽहं भवार्णवम् ॥ ७९ ॥
विचिन्त्य चेत्थं मनसा सुदामा
पत्न्यावृतः कृष्णपदारविन्दे ।
मनश्च कृत्वा धनमेव विप्रान्
दत्वा हरेर्धाम परं जगाम ॥ ८० ॥
एतच्छ्रीकृष्णदेवस्य चरितं श्रृणुयान्नरः ।
दारिद्र्यान्मुच्यते शीघ्रं भक्तो भगवतो भवेत् ॥ ८१ ॥
श्रीद्वारकाया नृप खण्डमेत-
न्मया तवाग्रे कथितं सुपुण्यम् ।
कीर्तिं कुलं भक्तिमतीव मुक्तिं
ददाति राज्यञ्च सदैव शृण्वताम् ॥ ८२ ॥
इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे सुदामविप्रोपाख्यानवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|