श्रीगर्गसंहिता
द्वारकाखण्डः - एकविंशोऽध्यायः
पिण्डारकमाहात्म्यम् -
श्रीनारद उवाच -
तृतीयस्यापि दुर्गस्य पूर्वद्वारे महाबलः ।
रक्षत्यहर्निशं राजन् हनूमान् अंजनीसुतः ॥ १ ॥
तं प्रेक्ष्य भगवद्भक्तं हनूमन्तं महाबलम् ।
जायते भगवद्भक्तो हनूमानिव मानवः ॥ २ ॥
तथा वै दक्षिणद्वारे चक्रं नाम सुदर्शनम् ।
रक्षत्यहर्निशं राजञ्छ्रीकृष्णगतमानसम् ॥ ३ ॥
तस्य दर्शनमात्रेण भवेद्भक्तो हरेः परः ।
भक्तस्यापि सदा रक्षां करोति हि सुदर्शनम् ॥ ४ ॥
तथा वै पश्चिमं द्वारं जाम्बवानृक्षराड्बली ।
रक्षत्यहर्निशं राजन् भगवद्भक्तिसंयुतः ॥ ५ ॥
तं प्रेक्ष्य भगवद्भक्तं जाम्बवन्तं महाबलम् ।
चिरंजीवी हरेर्भक्तो भवतीह च मानवः ॥ ६ ॥
तथा वै चोत्तरे द्वारे विष्वक्सेनो महाबलः ।
रक्षत्यहर्निशं राजञ्छ्रीकृष्णोहृदयो महान् ॥ ७ ॥
तस्य दर्शनमात्रेण नरो याति कृतार्थताम् ।
श्रृणु राजन् बहिर्दुर्गात्तीर्थं पिंडारकं स्मृतम् ॥ ८ ॥
पिंडारकस्य माहात्म्यं श्रृणुताद्राजसत्तम ।
यस्य स्मरणमात्रेण महापापात्प्रमुच्यते ॥ ९ ॥
अर्थसिद्ध्योरिव द्वारे रैवताद्रिसमुद्रयोः ।
मध्ये पिंडारकक्षेत्रं तीर्थानां तीर्थमुत्तमम् ॥ १० ॥
क्रतुराजं राजसूयं यदुराजो महाबलः ।
चकार यत्र वैदेह परिपूर्णतमाज्ञया ॥ ११ ॥
सर्वाणि यत्र तीर्थानि समाहूतानि सर्वतः ।
निवासं चक्रिरे राजन्नुग्रसेनक्रतूत्तमे ॥ १२ ॥
तेन पिंडारकं नाम सर्वतीर्थस्य पिंडतः ।
तत्र स्नात्वा नरः सद्यो राजसूयफलं लभेत् ॥ १३ ॥
तत्रैव त्रिदिनं स्नात्वा व्रती भूत्वा समाहितः ।
ब्राह्मणेभ्यः स्वर्णदानं दत्वा यः प्रणतो भवेत् ॥ १४ ॥
इहैव नरदेवः स्यात्स महात्मा न संशयः ।
नित्यं श्रृणोति सततं बंदिवाग्भिर्यशः स्वयम् ॥ १५ ॥
सुवर्णरत्नवस्त्राद्यैः सुचन्द्रवदनैः परैः ।
स्त्रीसंघैः सेवितो नित्यं हृष्टपुष्टो महाबलः ॥ १६ ॥
अहोरात्रं प्रताड्यन्ते द्वारि दुन्दुभयो घनाः ।
करींद्राणां च चीत्कारैरश्वह्रेषैः समन्वितम् ॥ १७ ॥
विराजते राजसंघैः प्रेक्षयन् प्रागंणाजिरम् ।
रत्नप्रासादनिचयं ध्वजमंडलमंडितम् ॥ १८ ॥
मत्तकुंजरकर्णाभ्यां ताडिता भृंगमंडली ।
अलंकरोति तद्द्वारं मंडितं मंडलेश्वरैः ॥ १९ ॥
पिंडारकस्नानमृते कथं राज्यं भवेदिह ।
अंते मोक्षं कथं याति नरः पापयुतोऽपि हि ॥ २० ॥
पिंडारकस्नानमृते न शर्म
पिंडारकस्नानमृते न कर्म ।
पिंडारकस्नानमृते न धर्म
पिंडारकस्नानमृते न वर्म ॥ २१ ॥
पिंडारकस्नानमृते वियोगी
पिंडारकस्नानकरस्तु योगी ।
पिंडारकस्नानकरः सुभोगी
पिंडारकस्नानकरो न रोगी ॥ २२ ॥
द्वारावतीं माधवमासमध्ये
प्रदक्षिणिकृत्य नमस्करोति ।
सर्वा इहामुत्र च सिद्धयोऽपि
वैदेह तत्पाणितले भवन्ति ॥ २३ ॥
तीर्थाप्लुतोऽधःशयनः शुचिश्च
मौनी व्रती वा यवभोजनेन ।
आरभ्य चैत्रीं किल पौर्णमासीं
यो माधवीमेत्य करोति यात्राम् ॥ २४ ॥
तत्पुण्यसंख्यां गदितुं न शक्यः
चतुर्मुखो वेदमयो विधाता ।
यो मेघधारां गणयेत्कदाचित् कालेन
पुण्यानि न कृष्णपुर्याः ॥ २५ ॥
यथा तिथिनां हरिवासरं च
यथा हि शेषः फणिनां फणींद्रः ।
यथा गरुत्मान् दिवि पक्षिणां च
यथा पुराणेषु च भारतं च ॥ २६ ॥
यथा हि देवेषु च देवदेवः
श्रीवासुदेवो यदुदेवदेवः ।
तथा पुरी क्षेत्रसमस्तमध्ये
द्वारावती पुण्यवती प्रशस्ता ॥ २७ ॥
अहोऽतिधन्या यदुमंडलीभि-
र्विराजते भूमितले मनोहरा ।
वैकुंठलीलाधिकृता कुशस्थली
यथा तडिद्भिर्जलदावलिर्दिवि ॥ २८ ॥
यत्रैव साक्षात्पुरुषः परेश्वरो
धृत्वा चतुर्व्यूहमलं विराजते ।
यस्तूग्रसेनाय ददौ नृपेशतां
कृष्णाय तस्मै हरये नमो नमः ॥ २९ ॥
यदा स्वलोकं भगवान् गमिष्यति
संप्लावयिष्यत्यथ तां तदार्णवः ।
वैदेह दिव्यं हरिमंदिरं विना
तस्मिन्निवासं भगवान्करिष्यति ॥ ३० ॥
शृण्वंति तत्रैव कलौ जलध्वनिं
कृष्णोक्तमित्थं सततं दिने दिने ।
भवेदविद्यो यदि वा सविद्यो
यो ब्राह्मणो वै स तु मामकी तनुः ॥ ३१ ॥
भूत्वाऽथ विप्रोऽब्धितटादगाधं
गत्वा गृहीत्वा प्रतिमां परस्य ।
कृत्वा प्रतिष्ठां च विधाय सौधं
करिष्यते स्थापनमर्क एषः ॥ ३२ ॥
श्रीद्वारकानाथमिति स्वरूपं
पश्यंति ये भक्तजनाः कलौ युगे ।
गच्छंति ते विष्णुपदं नृदेव
योगीश्वराणामपि दुर्लभं यत् ॥ ३३ ॥
इदं मया ते कथितं नृदेव
महात्म्यमेतत् किल कृष्णपुर्याः ।
श्रृणोति यः श्रावयते च भक्त्या
श्रीद्वारकावासफलं लभेत्सः ॥ ३४ ॥
श्रीद्वारकाया नृप खंडमेत-
न्मया तवाग्रे कथितं सुपुण्यम् ।
किर्तिं कुलं भक्तिमतीव मुक्तिं
ददाति राज्यं च सदैव शृण्वताम् ॥ ३५ ॥
इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे द्वारकायाः तृतीये दुर्गे पिंडारकमाहात्म्त्यं नामैकविंशोऽध्यायः ॥ २१ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|