श्रीगर्ग संहिता - विश्वजित्खण्डः - द्वितीयोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - द्वितीयोऽध्यायः

प्रद्युम्नविजयाभिषेकम् -


बहुलाश्व उवाच -
कथं चकार विधिवद्‌राजसूयाध्वरं नृप ॥
श्रीकृष्णेन सहायेन वदैतन्नितरां मुने ॥१॥
श्रीनारद उवाच -
उग्रसेनः सुधर्मायां कृष्णं संपूज्य चैकदा ॥
नत्वा प्राह प्रसन्नात्मा कृतांजलिपुटः शनैः ॥२॥
उग्रसेन उवाच -
भगवान्नारदमुखाच्छ्रुतं यस्य महत्फलम् ॥
तं यज्ञं राजसूयाख्यं करिष्यामि तवाज्ञया ॥३॥
त्वत्पादसेवया पूर्वे मनोरथमहार्णवे ॥
तेरुर्जगत्तृणीकृत्य निर्भयाः पुरुषोत्तम ॥४॥
श्रीभगवानुवाच -
सम्यग्व्यवसितं राजन्भवता यादवेश्वर ॥
यज्ञेन ते जगत्कीर्तिस्त्रिलोक्यां संभविष्यति ॥५॥
आहूय यादवान्साक्षात्सभां कृत्वथ सर्वतः ॥
तांबूलबीटिकां धृत्वा प्रतिज्ञां कारय प्रभो ॥६॥
ममांशा यादवाः सर्वे लोकद्वयजिगीषवः ॥
जित्वारीनागमिष्यंति हरिष्यंति बलिं दिशाम् ॥७॥
श्रीनारद उवाच -
अथांधकादीनाहूय शक्रसिंहासने स्थितः ॥
सुधर्मायां प्राह नृपो धृत्वा तांबूलबीटिकाम् ॥८॥
उग्रसेन उवाच -
यो जयेत्समरे सर्वाञ्जंबूद्वीपस्थितान्नृपान् ॥
मनस्वी शक्रकोदण्डी सोऽत्ति तांबूलबीटिकाम् ॥९॥
श्रीनारद उवाच -
नृपेषु तूष्णीं प्रगतेषु सत्सु
     श्रीरुक्मिणीनंदन एव चागात् ॥
जग्राह ताम्बूलचयं महात्मा
     नत्वा नृपं मैथिल शंबरारिः ॥१०॥
प्रद्मुम्न उवाच -
विजित्य समरे सर्वाञ्जंबूद्वीपस्थितान्नृपान् ॥
गृहीत्वा च बलिं तेभ्य आगमिष्याम्यहं बलात् ॥११॥
अगम्यागमनं बभ्रोर्ब्राह्मणस्य गुरोस्तथा ॥
हत्या भ्रूणस्य मे भूयान्न कुर्यां कर्म चेदिदम् ॥१२॥
श्रीनारद उवाच -
श्रुत्वा वचः शंबरारेः साधु साध्विति यूथपाः ॥
ऊचुस्तेषां पश्यतां च तं जग्राह यदूत्तमः ॥१३॥
गर्गाद्यदुकुलाचार्यान्मुहूर्तं बोध्य यत्‍नतः ॥
तत्स्नानं कारयामास मुनिभिर्वेदसूक्तिभिः ॥१४॥
उग्रसेनोऽथ तिलकं प्रद्युम्नस्य चकार ह ॥
बलिं दत्वा नमश्चक्रुः सर्वे यादवयूथपाः ॥१५॥
उग्रसेनो ददौ खड्गं प्रद्युम्नाय महात्मने ॥
कवचं प्रददौ साक्षाद्‌बलदेवो महाबलः ॥१६॥
स्वतूणाभ्यां विनिष्कृष्य तूणावक्षयसायकौ ॥
धनुश्च शार्ङ्‌गधनुषः समुत्पाद्य ददौ हरिः ॥१७॥
किरीटकुंडले दिव्ये पीतं वासो मनोहरम् ॥
छत्रं च चामरे साक्षाच्छूरो वृद्धो ददौ पुनः ॥१८॥
शतचन्द्रं ददौ तस्मै वसुदेवो महामनाः ॥
उद्धवः प्रददौ साक्षान्मालां किंजल्किनीं शुभाम् ॥१९॥
अक्रूरो दक्षिणावर्तं शंखं विजयदं ददौ ॥
श्रीकृष्णकवचं यंत्रं गर्गाचार्यो ददौ मुनिः ॥२०॥
तदैव ह्यागतः शक्रो लोकपालैः सकौतुकः ॥
आजग्मतुर्ब्रह्मशिवौ देवर्षिगणसंवृतौ ॥२१॥
प्रद्युम्नाय ददौ शूली त्रिशूलं ज्वलनप्रभम् ॥
ब्रह्मा ददौ महाराज पद्मरागं शिरोमणिम् ॥ २२॥
पाशी पाशं शक्तिधरः शक्तिं शत्रुविमर्दिनीम् ॥
वायुश्च व्यजने दिव्ये यमो दंडं ददौ पुनः ॥२३॥
रविर्गदां महागुर्वीं कुबेरो रत्‍नमालिकाम् ॥
चन्द्रकांतमणिं चन्द्रः परिघं च तनूनपात् ॥२४॥
क्षितिश्च पादुके प्रादाद्दिवे योगमये परे ॥
प्रद्युम्नाय ददौ कुंतं भद्रकाली तरस्विनी ॥२५॥
हेमाढ्यमुच्चशिखरं सहस्रहयसंयुतम् ॥
विश्वकर्मकृतं साक्षाद्‍ब्रह्मांडांतर्बहिर्गतम् ॥२६॥
सहस्रचक्रसंयुक्तं मनोवेगं घनस्वनम् ॥
मंजीरकिंकिणीजालं घंटाटंकारभूषणम् ॥२७॥
रथं ददौ महादिव्यं सहस्रध्वजशोभितम् ॥
जैत्रं रत्‍नमयं शुक्रः प्रद्युम्नाय महात्मने ॥२८॥
शंखदुंदुभयो नेदुस्तालवीणादयस्तदा ॥
मृदंगवेणूसन्नादैर्जयध्वनिसमाकुलैः ॥२९॥
वेदघोषैर्लाजपुष्पैर्मुक्तावर्षसमन्वितैः ॥
प्रद्युम्नस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥३०॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
प्रद्युम्नविजयाभिषेको नाम द्वितीयोऽध्यायः ॥२॥


GO TOP