श्रीगर्गसंहिता
द्वारकाखण्डः - चतुर्दशोऽध्यायः
रत्नाकर-रैवतक-पर्वत माहात्म्यम् -
श्रीनारद उवाच -
द्वारावत्या समुद्रस्य माहात्म्यं श्रुणु मानद ।
सर्वपापहरं पुण्यं तत्स्नानफलदं स्मृतम् ॥ १ ॥
माधव्यां पूर्णमास्यां यो व्रती स्नात्वा नदीपतिम् ।
नत्वा संपूज्य विधिवद्रत्नदानं करोति यः ॥ २ ॥
तस्य देहे त्रयो देवा निवसंति महीपते ।
यस्य दर्शनमात्रेण नरो याति कृतार्थताम् ॥ ३ ॥
तद्देहस्पर्शनात्सद्यो ब्रह्महत्या प्रमुच्यते ।
यत्र यत्र गतः सोऽपि तत्र तत्र च भूः शुभा ॥ ४ ॥
दृष्ट्वा तं च मृतः पापी जगद्वधकरोऽपि हि ।
छिनत्ति पापपटलं परं मोक्षं प्रयाति हि ॥ ५ ॥
रैवतस्याथ शैलस्य माहात्म्यं श्रृणु मानद ।
सर्वपापहरं पुण्यं मुक्तिभुक्तिप्रदायकम् ॥ ६ ॥
गौतमस्य सुतो धीमान् मेधावी नाम वैष्णवः ।
विंध्याचले तपस्तेपे वर्षाणामयुतं शतम् ॥ ७ ॥
तं द्रष्टुमागतः साक्षादपांतरतमो मुनिः ।
नोच्चचालासनात्सोऽपि मेधावी तपसोत्कटः ॥ ८ ॥
अपांतरतमस्तं वै शशाप क्रोधपूरितः ।
सतामभक्त पापात्मन् स्वतपोबलगर्वितः ॥ ९ ॥
शैलवत्ते स्थितिश्चात्र त्वं शैलो भव दुर्मते ।
इत्युक्त्वाऽथ गते साक्षाद् अपांतरतमे मुनौ ॥ १० ॥
मेधावी शैलतां प्राप्तः श्रीशैलस्य सुतोऽभवत् ।
जातिस्मरो महाबुद्धिर्विष्णुभक्तेः प्रभावतः ॥ ।११ ॥
एकदा मन्मुखाच्छ्रुत्वा माहात्म्यं द्वारकापुरः ।
प्रोवाच सोऽपि राजानं रैवतं गच्छ सत्वरम् ॥ १२ ॥
वद मत्प्रार्थनामुक्तां त्वं महादीनवत्सलः ।
सोऽयं महाबलो राजा प्रसन्नो यदि वा भवेत् ॥ १३ ॥
तेन नीतस्य मे वासो भविष्यति हरेः पुरि ।
इति श्रुत्वा मया विष्णुभक्तानां शांतिकारिणा ॥ १४ ॥
रैवतायशु कथितं तथोक्तं परमं वचः ।
स प्रसन्नः प्राह राजन्नत्र कोऽपि न पर्वतः ॥ १५ ॥
तत्स्थापनां करिष्यामि समुत्पाट्य भुजाबलात् ।
समुन्नीय द्वारकायां प्रतिज्ञामकरोदिमाम् ॥ १६ ॥
एतस्मिंस्तच्चोरयितुं प्रयाते नृपसत्तमे ।
तत्पूर्वस्मादहं प्राप्तः श्रीशैलस्य पुरे नृप ॥ १७ ॥
कलिप्रियेणापि मया श्रीशैलाय महात्मने ।
कथितः सर्ववृत्तांतो नृपचौर्यसमन्वितः ॥ १८ ॥
श्रीशैलः पुत्रमोहेन निर्भर्त्स्येति क्व यासि हि ।
सुमेरुं गिरिराजं च हिमवन्तं नगेश्वरम् ॥ १९ ॥
श्रीशैलः प्राह धर्मात्मा पुत्रस्नेहसमाकुलः ।
एको दैवेन दत्तोऽयं न पुत्रा बहवश्च मे ॥ २० ॥
तं हर्तुमागते राज्ञि रैवते वै महाबले ।
विदेशं याति पुत्रो मे तेन राज्ञा महात्मना ॥ २१ ॥
पुत्रस्नेहाभिभूतोऽहं युवयोः शरणं गतः ।
जित्वा तं रैवतं शीघ्रं पुत्रं मां दातुमर्हथ ॥ २२ ॥
जातेश्च कारणात्तौ द्वौ सुमेरुश्च हिमाचलः ।
शैललक्षैः परिवृतौ योद्धुमाजग्मतुर्द्रुतम् ॥ २३ ॥
ततो भुजाभ्यां उत्पाट्य हनुमानिव तं गिरिम् ।
ऊर्ध्वं कृत्वा बलाद्राजा यदा गंतुं मनो दधे ॥ २४ ॥
तदैव चागतान्वीक्ष्य गिरीञ्छस्त्रास्त्रधारिणः ।
अट्टहासं चकोरोच्चैस्तडित्पातमिवात्मनः ॥ २५ ॥
ननाद तेन ब्रह्मांडं सप्तलोकेर्बिलैः सह ।
तदैव तेषां शस्त्राणि हस्तेभ्यो न्यपतन्स्वतः ॥ २६ ॥
निःशस्त्रास्ते यदा शैलाः कुर्वंतः प्रध्वनिं मुहुः ।
गच्छंतं सगिरिं जघ्नुः मुष्टिभिर्जानुभिः पथि ॥ २७ ॥
यथा पुरा हनूमंतमनुयाता महाबलम् ।
तैस्ताडितोऽपि न जहौ गिरिं राजा कराग्रतः ॥ २८ ॥
मन्मुखाच्छ्रीहरिः श्रुत्वा शैलोद्योगं नृपोपरि ।
सद्यो भक्तसहायार्थं भगवान् भक्तवत्सलः ॥ २९ ॥
आगत्याकाशमार्गेऽपि दत्त्वा तेजः स्वकं परम् ।
माभैष्टेत्यभयं दत्त्वा त्वरमन्तरधीयत ॥ ३० ॥
गते हरौ भगवति भगवत्तेजसाऽन्वितः ।
एकहस्ते गिरिं धृत्वा मुष्टिना वज्रघातिना ॥ ३१ ॥
सुमेरुं संतताडाशु वज्रीव बलवत्तरः ।
तस्य मुष्टिप्रहारेण मेरुर्विह्वलतां गतः ॥ ३२ ॥
हिमवन्तं बाहुवेगात्पातयित्वा महीतले ।
ममर्द पद्भ्यां चान्यांश्च विंध्यादीन्रणदुर्मदः ॥ ३३ ॥
विंध्यादयश्च ते सर्वे पादघातेन मर्दिताः ।
भयभीता रणं त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥ ३४ ॥
एवं जित्वा शैलसंघं तं शैल शैलसन्निभः ।
रैवतोऽपि जयारावैरानर्तेषु न्यपातयत् ॥ ३५ ॥
सोऽभूद्रैवतनामापि राजन् रैवतकोऽचलः ।
हरिभक्तः शैलमुख्यो द्वारावत्यां विराजते ॥ ३६ ॥
तस्य दर्शनमात्रेण ब्रह्महत्या प्रमुच्यते ।
स्पर्शनाच्छतयज्ञानां फलमाप्नोति मानवः ॥ ३७ ॥
यात्रां कृत्वा च यस्यापि परिक्रम्य नताननः ।
भोजनं ब्राह्मणे दत्वा याति विष्णोः परं पदम् ॥ ३८ ॥
इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे रत्नाकररैवतकाचलमाहात्म्यं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|