श्रीगर्गसंहिता

द्वारकाखण्डः - त्रयोदशोऽध्यायः

गोमती-सिन्धु-सङ्गम माहात्म्यम् -


श्रीनारद उवाच -
प्रभासस्यापि माहात्म्यं श्रृणु राजन्महामते ।
सर्वपापहरं पुण्यं तेजसां वर्द्धनं परम् ॥ १ ॥
गोदावर्यां गुरौ सिंहे हरक्षेत्रे च कुम्भगे ।
रविग्रहे कुरुक्षेत्रे काश्यां चन्द्रग्रहे तथा ॥ २ ॥
यत्पुण्यं लभते राजन् स्नानतो दानतो नरः ।
तस्माच्छतगुणं पुण्यं प्रभासे च दिने दिने ॥ ३ ॥
यत्र स्नात्वा दक्षशापाद्‌गृहीतो यक्ष्मणोडुराट् ।
विमुक्तः किल्बिषात्सद्यो भेजे भूयः कलोदयम् ॥ ४ ॥
महापुण्यतमा राजन् यत्र प्रत्यक्सरस्वती ।
तस्यां स्नात्वा नरः पापी साक्षाद्‍ब्रह्ममयो भवेत् ॥ ५ ॥
तत्तीरे वर्तते राजन्नाम्ना वै बोधपिप्पलम् ।
कृष्णेन यत्रोद्धवाय दत्तं भागवतं शुभम् ॥ ६ ॥
तं नत्वाऽभ्यर्च्य विधिवत्स्पृष्ट्वा श्रीबोधपिप्पलम् ।
श्रृणोति यो भागवतं पुराणं ब्रह्मसंमितम् ॥ ७ ॥
श्लोकार्धं श्लोकपादं वा मौनी नियतमानसः ।
तस्य पाणौ भवेद्राजन् वैष्णवं परमं पदम् ॥ ८ ॥
प्रौष्ठपद्यां पूर्णिमायां हेमसिंहसमन्वितम् ।
ददाति यो भागवतं स याति परमां गतिम् ॥ ९ ॥
पुराणं न श्रुतं यैस्तु श्रीमद्‌भागवतं क्वचित् ।
तेषां वृथा जन्म गतं नराणां भूमिवासिनाम् ॥ १० ॥
यैर्न श्रुतं भागवतं पुराणं
     नाराधितो यैः पुरुषः पुराणः ।
हुतं मुखे नैव धरामराणां
     तेषां वृथा जन्म गतं नराणाम् ॥ ११ ॥
द्वारावत्यां तीर्थराजं गोमतीसिंधुसंगमम् ।
यत्र स्नात्वा नरो याति वैकुण्ठं विमलं पदम् ॥ १२ ॥
शताश्वमेधजं पुण्यं गंगासागरसंगमे ।
तत्सहस्रगुणं प्रोक्तं गोमतीसिंधुसंगमे ॥ १३ ॥
अत्रैवोदाहरन्तीमं इतिहासं पुरातनम् ।
यस्य श्रवणमात्रेण पापतापात्प्रमुच्यते ॥ १४ ॥
आसीद्‌गजाह्वये वैश्यो राजमार्गपतिः परः ।
महागौरवसंयुक्तो निधीशो धनदो यथा ॥ १५ ॥
वेश्याप्रसंगनिरतो विटगोष्ठीविशारदः ।
द्यूतक्रीडनकासक्तो लोभमोहमदान्वितः ॥ १६ ॥
मृषावादी महादुष्टः कुकर्मनिरतः सदा ।
ब्राह्मणेभ्यो न पितृभ्यो न देवेभ्यो धनं ददौ ॥ १७ ॥
हरेः कथां प्रेक्ष्य दूराद्‌दूरं वै निर्ययौ त्वरम् ।
पित्रोः सेवापि न कृता न पुत्रेभ्यो धनं ददौ ॥ १८ ॥
त्यक्त्वा भार्यां स भिन्नोऽभू‌द्‌धनाढ्यो दुर्मति खलः ॥
वेश्याप्रसंगात्तस्यापि धनार्द्धं प्रक्षयं गतम् ॥ १९ ॥
अर्धं तु तस्करैर्नीतं किंचित्पृथ्व्यां गतं स्वतः ।
पुण्येन वर्द्धते लक्ष्मीः पापेन क्षीयते ध्रुवम् ॥ २० ॥
एवं स निर्धनो जातो वेश्यासक्तो महाखलः ।
तस्मिन् गजाह्वये रम्ये चौर्यकर्म चकार ह ॥ २१ ॥
चौर्यकर्म प्रकुर्वंतं बद्ध्वा तं दामभिर्नृपः ।
देशान्निःसारयाभास शंतनुर्नृपतीश्वरः ॥ २२ ॥
वनेऽपि निवसन्सोऽपि जीवहिंसां चकार ह ।
समा द्वादशसाहस्रं नववर्षं यदा घनः ॥ २३ ॥
पश्चिमां तु दिशं प्रागाद्‌वैश्यो दुर्भिक्षपीडितः ।
वने वै मारितः सोऽपि सिंहेन तलघाततः ॥ २४ ॥
तदैव यमदूतास्तं बद्ध्वा पाशैरधोमुखम् ।
कशाघातैस्ताडयंतो निन्युर्मार्गं यमस्य च ॥ २५ ॥
अथ कश्चिन्महान् गृध्रो मासं तस्य भुजस्य च ।
गृहीत्वा खं गतः सद्यः खादंश्चंचुपुटेन तम् ॥ २६ ॥
निरामिषाः खगाश्चान्ये सामिषं जग्मुरातुराः ।
एवं कोलाहले जाते शंखचिह्नादिभिः कृते ॥ २७ ॥
न जहौ मुखतो मांसं पश्चिमाशां जगाम ह ।
तत्समेनापि गृध्रेण तीक्ष्णतुंडेन ताडितात् ॥ २८ ॥
तन्मुखात्प्रपतन्मांसं गोमतीसिंधुसंगमे ।
तीर्थप्लुते तस्य मांसे वैश्योऽयं पातकी महान् ॥ २९ ॥
तेषां पाशान्स्वयं छित्वा भूत्वा देवश्चतुर्भुजः ।
पश्यतां यमदूतानां विमानमधिरुह्य सः ॥ ३० ॥
विराजयन् दिशः सर्वाः परं धाम हरेर्ययौ ॥ ३१ ॥
गोमतीसिंधुसंगस्य माहात्म्यं श्रुणुते नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं प्रयाति सः ॥ ३२ ॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
प्रभाससरस्वतीबोधपिप्पलगोमतीसिंधुसंगममाहात्म्यं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP