श्रीगर्गसंहिता

द्वारकाखण्डः - द्वादशोऽध्यायः

शंखोद्धारमाहात्म्यम् -


श्रीनारद उवाच -
शंखोद्धारे तीर्थमुख्ये स्वर्णदानं ददाति यः ।
सगच्छेद्वैष्णवं लोकं सर्वोपद्रववर्जितम् ॥ १ ॥
श्रीकृष्णभक्तः शांतात्मा त्रितो नाम महामुनिः ।
तीर्थयात्राप्रसंगेन प्राप्त आनर्तभूमिषु ॥ २ ॥
दृष्ट्वा शुभं सरः स्नात्वा हरेः पूजां चकार ह ।
तत्पूजायां महाशंखं सुंदरैर्लक्षणैर्वृतम् ॥ ३ ॥
चोरयामास कक्षीवांस्तस्य शिष्योऽतिलोभतः ।
पूजाशंखं गतं वीक्ष्य क्रुद्धः प्राह त्रितो मुनिः ॥ ४ ॥
येन नीतस्तु मे शंखः स शंखो भवतु ध्रुवम् ।
तदैव शंखरूपोऽभूत्कक्षीवाञ्छापपीडितः ॥ ५ ॥
तत्पादययोर्निपतितः पाहि मामित्युवाच ह ।
शीघ्रं शांतस्त्रितः प्राह दुर्मते किं कृतं त्वया ।
स्तेयदोषाद्‍भुंक्ष्व पापं मद्वचो नो मृषा भवेत् ॥ ६ ॥
भज श्रीकृष्णपादाब्जं स ते मोक्षं करिष्यति ।
इत्युक्त्वाऽथ गते राजंस्त्रिते देवे महामुनौ ॥ ७ ॥
सरोवरे निपतितः कक्षीवाञ्छंखरूपधृक् ।
प्रवदन् कृष्ण कृष्णेति शतवर्षं स्थितोऽभवत् ॥ ८ ॥
परिपूर्णतमः साक्षाद्‌‌भगवान् भक्तवत्सलः ।
आगत्य सरसस्तीरं माभैष्टेत्यभयं ददौ ॥ ९ ॥
तां मेघनादगंभीरां गिरां श्रुत्वा जलेचरः ।
चुक्रोश पहि पाहीति देवदेव जगत्पते ॥ १० ॥
भुजगेंद्रभोगरुचा भुजेन भगवान् प्रभुः ।
शंखं भक्तं गजमिव प्रोज्जहार दयापरः ॥ ११ ॥
तदैव दिव्यरूपोऽभूच्छंखरूपं विहाय सः ।
कृतांजलिर्हरिं नत्वा स्तुतिं चक्रे तदा च सः ॥ १२ ॥
कक्षीवानुवाच -
वासुदेव नमस्तेऽस्तु गोविंद पुरुषोत्तम ।
दीनवत्सल दीनेश द्वारकेश परेश्वर ॥ १३ ॥
ध्रुवे ध्रुवपदं दात्रे प्रह्लादस्यार्तिहारिणे ।
गजस्योद्धारिणे तुभ्यं बलेर्बलिविदे नमः ॥ १४ ॥
द्रौपदीचीरसन्तानकारिणे हरये नमः ।
गराग्निवनवासेभ्यः पांडवानां सहायिने ॥ १५ ॥
यादवत्राणकर्त्रे च शक्रादाभीररक्षिणे ।
गुरुमातृद्विजानां च पुत्रदात्रे नमो नमः ॥ १६ ॥
जरासंधनिरोधार्तनृपाणां मोक्षकारिणे ।
नृगस्योद्धारिणे साक्षात्सुदाम्नो दैन्यहारिणे ॥ १७ ॥
वासुदेवाय कृष्णाय नमः संकर्षणाय च ।
प्रद्युम्नायानिरुद्धाय चतुर्व्यूहाय ते नमः ॥ १८ ॥
त्वमेव माता च पिता त्वमेव
     त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
     त्वमेव सर्वं मम देवदेव ॥ १९ ॥
श्रीनारद उवाच -
एवं स्तुत्वा हरिं राजन् कक्षीवान् प्रेमपूरितः ।
विमानवरमास्थाय यादवानां च पश्यताम् ॥ २० ॥
विभ्राजयन् दश दिशः शतसूर्यसमप्रभः ।
जगाम वैष्णवं लोकं सर्वोपद्रववर्जितम् ॥ २१ ॥
शंखोद्धारः कृतो यस्मिन् हरिणा मैथिलेश्वर ।
तस्मात्तीर्थं महापुण्यं शंखोद्धारप्रथां गतम् ॥ २२ ॥
शंखोद्धारकथामेतां यः श्रृणोति नरोत्तमः ।
शंखोद्धारस्नानफलं लभते वै न संशयः ॥ २३ ॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
शंखोद्धारमाहात्म्यं नाम द्वादशोऽध्यायः ॥ १२ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP