श्रीगर्गसंहिता
द्वारकाखण्डः - एकादशोऽध्यायः
चक्रतीर्थे गजकुम्भी मुक्तिः-
श्रीनारद उवाच -
कुबेरमंत्रिणौ दीनौ विप्रशापविमोहितौ ।
तत्र साक्षात्स्वयं विष्णुः प्राह तौ शरणं गतौ ॥ १ ॥
श्रीभगवानुवाच -
मदर्चासंयुते यज्ञे भवंतौ दुःखसंयुतौ ।
ब्राह्मणानां वचोऽहं वै दूरीकर्तुं न च क्षमः ॥ २ ॥
भवेतां ग्राहमातंगौ युद्धं हि युवयोर्यदा ।
तदा वै मत्प्रसादेन प्रकृतिं स्वां गमिष्यथः ॥ ३ ॥
श्रीनारद उवाच -
इत्युक्तौ हरिणा तौ द्वौ राजराजस्य मंत्रिणौ ।
बभूवतुर्ग्राहगजौ जातिस्मरणसंयुतौ ॥ ४ ॥
घंटानादोऽभवद्ग्राहो गोमत्यां च शतं समाः ।
विकरालो महाभीमः शश्वद्रौद्रवपुर्द्धरः ॥ ५ ॥
पार्श्वमौलिर्गजेंद्रोऽभूद्रैवतस्य गिरेर्वने ।
चतुर्दंतः कज्जलाभः पृष्ठप्रोच्चो धनुःशतम् ॥ ६ ॥
वंजुलैः कुरवैः कुंदैर्बदरैर्वेत्रवेणुभिः ।
रंभाभूर्जवटैर्युक्ते कोविदारासनार्जुनैः ॥ ७ ॥
मंदारपाटलाशोक-चूतचंपकचन्दनैः ।
पनसोदुम्बराश्वत्थ-खर्जूरैर्बीजपूरकै ॥ ८ ॥
प्रियालाम्रातकाम्रैश्च क्रमुकैः परिमंडिते ।
रैवतस्य वने दीर्घे विचचार महागजः ॥ ९ ॥
एकदा माधवे मासि गजेंद्रो गिरिगह्वरात् ।
स्नातुं तां गोमतीं गंगामाययौ सगणो नदन् ॥ १० ॥
चिरं समवगाह्याप्सु शुंडादंडैरितस्ततः ।
करेण कलभान् सर्वान् स्नापयामास नागराट् ॥ ११ ॥
महान् ग्राहोऽपि तत्रस्थो बलीयान् दैवनोदितः ।
अग्रहीच्चरणे नागं क्रोधपूरितविग्रहः ॥ १२ ॥
तेनैव तद्गृहे नीतो गजेन्द्रो बलदर्पितः ।
तमाकृष्य बहिः प्राप्तं पुनस्तेन विकर्षितः ॥ १३ ॥
करणेवश्च कलभास्तं तारयितुमक्षमाः ।
एवं तयोर्युध्यतोश्च कर्षतोर्हि बहिर्मिथः ॥ १४ ॥
पंचशत्पंचवर्षाणि व्यतीयुः पश्ततां सताम् ।
एवं कश्मलमापन्नो गजो जातिस्मरो महान् ॥ १५ ॥
प्रेमलक्षणया भक्त्या हरिपादकृताश्रयः ।
सस्मार श्रीहरिं देवं मृत्युपाशवशं गतः ॥ १६ ॥
गजेन्द्र उवाच -
श्रीकृष्ण कृष्णसख कृष्णवपुर्दधान
कृष्णाय ते प्रणतिरस्तु सुरेश विष्णो ।
पूर्ण प्रभो परमपावन पुण्यकीर्ते
मां पाहि पाहि परमेश्वर पापपाशात् ॥ १७ ॥
श्रीनारद उवाच -
एवं ग्राहगृहीतांगं स्मरंतं च हरिं हरिः ।
ज्ञात्वाऽऽरुह्य खगं वेगादधावद्दीनवत्सलः ॥ १८ ॥
स्वयं खगात्समुत्तीर्य धावंश्चक्रं समाक्षिपत् ।
चक्रे प्राप्ते पूर्वमेव ग्राहस्यापि शिरोऽद्भुतम् ॥ १९ ॥
दैन्यं प्राप्ते धनमिव देहाद्भिन्नं बभूव ह ।
पश्चात्प्रपतितं चक्रं गोमत्यां च हृदे नदत् ।
पाषाणनिचयान्सर्वान्चक्राकारांश्चकार ह ॥ २० ॥
तन्नेमिसंघर्षभवं चक्रतीर्थं शुभावहम् ।
तच्चक्रदर्शनाद्राजन् ब्रह्महत्या प्रमुच्यते ॥ २१ ॥
ग्राहश्छिन्नशिरा भूत्वा पूर्वरूपं दधार ह ।
श्रीकृष्णानुग्रहाद्धस्ती दिव्यरुपो बभूव सः ॥ २२ ॥
परिक्रम्य हरिं नत्वा स्तुत्वा देवं कृतांजलिः ।
कुबेरमंत्रिणौ तौ द्वौ जग्मतुः स्वपदं पुनः ॥ २३ ॥
देवेषु पुष्पं वर्षत्सु जयध्वनिनदत्सु च ।
जगाम भगवान्साक्षात्स्वं धाम प्रकृतेः परम् ॥ २४ ॥
चक्रतीर्थकथामेनां य श्रृणोति नरोत्तमः ।
चक्रतीर्थस्नानफलं संप्राप्नोति न संशयः ॥ २५ ॥
गजग्राहकथां पुण्यां यः श्रृणोति समाहितः ।
दुःस्वप्नं नश्यते तस्य सुस्वप्नं भवति ध्रुवम् ॥ २६ ॥
श्रीकृष्णस्य प्रसादेन याति विष्णोः परं पदम् ॥ २७ ॥
इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे चक्रतीर्थोत्पतौ गजग्राहमोक्षो नामैकादशोऽध्यायः ॥ ११ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|