श्रीगर्गसंहिता
द्वारकाखण्डः - दशमोऽध्यायः
गोमती-चक्रतीर्थमाहात्म्यम् -
श्रीनारद उवाच -
इत्थं मया ते कथितं द्वारकागमकारणम् ।
सर्वपापहरं पुण्यं किं भूयः श्रोतुमिच्छसि ॥ १ ॥
बहुलाश्व उवाच -
सर्वतीर्थमयी भूमिर्द्वारका नगरी शुभा ।
तत्र मुख्यानि तीर्थानि वद मां मुनिसत्तम ॥ २ ॥
श्रीनारद उवाच -
आप्रभासात्तीर्थमयी मर्यादीकृत्य यज्ञिया ।
भूमिर्मोक्षप्रदा राजन् द्वारका योजनैः शतम् ॥ ३ ॥
द्वारकां नगरीं दृष्ट्वा नरो नारायणो भवेत् ।
द्वारकायां मृतः कोऽपि गर्दभोऽपि चतुर्भुजः ॥ ४ ॥
पश्यन् शृण्वन्कथां तस्या द्वारकेति वदन् क्वचित् ।
दृष्ट्वा दद्यात्तृणं मृत्युं गतो याति परां गतिम् ॥ ५ ॥
एकदा रेवतं भक्तं प्रेमानन्द समाकुलम् ।
प्रेक्ष्य स्वं दर्शनं दत्वा हरिरश्रुमुखोऽभवत् ॥ ६ ॥
तन्नेत्रबिंदुसम्भूता गोमती सा महानदी ।
यस्या दर्शनमात्रेण ब्रह्महत्या प्रमुच्यते ॥ ७ ॥
गोमतीतीरजं पुण्यं रजो यो धारयेन्नरः ।
शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥ ८ ॥
स्नानकाले गोमतीति वदत्यपि नरः क्वचित् ।
गोमत्यां स्नानजं पुण्यं लभते वै न संशयः ॥ ९ ॥
मकरस्थे रवौ माघे प्रयागे स्नानमाचरेत् ।
शताश्वमेधजं पुण्यं संप्राप्नोति विदेहराट् ॥ १० ॥
तत्सहस्रगुणं पुण्यं गोमत्यां मकरे रवौ ।
गोमत्याश्चैव माहात्म्यं वक्तुं नालं चतुर्मुखः ॥ ११ ॥
गोमत्यां चक्रतीर्थेषु पाषाणनिचयाश्च ये ।
ते सर्वे चक्रतां यांति पूजनीयाः प्रयत्नतः ॥ १२ ॥
चक्रचिह्ने चक्रतीर्थे द्वादश्यां स्नानमाचरेत् ।
चक्रपाणिपदं याति पापानां भाजनोऽपि हि ॥ १३ ॥
कोटिजन्मकृतैः पापैः पतितो योऽपि पातकी ।
चक्रतीर्थस्य सोपानमेत्य मुक्तिं समारुहेत् ॥ १४ ॥
बहुलाश्व उवाच -
गोमत्यां हि महानद्यां चक्रतीर्थं शुभार्थदम् ।
कथं जातं बहुमतं तन्मे ब्रूहि महामते ॥ १५ ॥
श्रीनारद उवाच -
अत्रैवोदाहरंतीमं इतिहासं पुरातनम् ।
यस्य दर्शनमात्रेण पापहानिः परा भवेत् ॥ १६ ॥
अलकेशो राजराजो निधीशो धर्मभृत्प्रभुः ।
वैष्णवं यज्ञमारेमे कैलासोत्तरभूमिषु ॥ १७ ॥
तस्य यज्ञे स्वयं विष्णुरागतो वै स्वधामतः ।
ब्रह्मा शिवो जंभभेदी वरुणो यादसां पतिः ॥ १८ ॥
वायुर्यमो रविः सोमः क्षितिः सर्वजनेश्वरी ।
गंधर्वाप्सरसः सिद्धाः सर्वे तत्र समाययुः ॥ १९ ॥
देवर्षयः समाजग्मुः तथा ब्रह्मर्षयो नृप ।
धनाध्यक्षोऽभवत्तस्य पुत्रस्तु नलकूबरः ॥ २० ॥
रक्षयां वीरभद्रोऽभूत्सेवायां च गजाननः ।
तथा मरुद्गणाः सर्वे परिवेषणकारिणः ॥ २१ ॥
बाहुलेयः सभापूजामकरोद्धर्मतत्परः ।
घंटानादः पार्श्वमौलिः कुबेरस्य तु मंत्रिणौ ॥ २२ ॥
सर्वशास्त्रविदां श्रेष्ठौ दानाध्यक्षौ बभूवतुः ।
एवं हि विधिवद्यज्ञो बभूव परमोत्सवः ॥ २३ ॥
अध्वरावभृथस्नातो राजराजो महामनाः ।
परं भागं च देवेभ्यो विप्रेभ्यो दक्षिणामदात् ॥ २४ ॥
एवं पूर्णेऽध्वरे मुख्ये तुष्टे देवर्षिसत्तमे ।
आजगामाथ दुर्वासा दंडी छत्री जटाधरः ॥ २५ ॥
क्रोधी कृशः पादुकांघ्रिर्दीर्घश्मश्रुः कृशोदरः ।
दर्भासनसमित्पात्रमृगचर्मधरः परः ॥ २६ ॥
तमागतं समागम्य पूजयित्वा विधानतः ।
भयभीतः परिक्रम्य कुबेरः प्रणनाम ह ॥ २७ ॥
अद्य मे सफलं जन्म सफलं मंदिरं च मे ।
अद्यमे सफलो यज्ञो ब्रह्मंस्त्वय्यागते सति ॥ २८ ॥
इत्थं संतोषितस्तेन दुर्वासा भगवान्मुनिः ।
देवं मनुष्यधर्माणं प्राह प्रहसिताननः ॥ २९ ॥
त्वं राजराजो धर्मात्मा दानी विप्रपरायणः ।
कृतस्ते वैष्णवो यज्ञो विष्णुसंतोषकारणः ॥ ३० ॥
न याचितो मया त्वं वै क्वापि वैश्रवण प्रभो ।
अद्यैव याचनां कुर्वे ज्ञात्वा त्वां दानिसत्तमम् ॥ ३१ ॥
मद्याञ्चां सफलीकुर्यास्तुभ्यं दास्यामि सद्वरम् ।
न चेत्वां भस्मसात्कुर्वे शापेनातिभयेन वै ॥ ३२ ॥
वर्तंते त्वद्गृहे सर्वे त्रैलोक्यनिधयो नव ।
तान्मे प्रयच्छ भद्रं ते तदर्थं गतवानहम् ॥ ३३ ॥
श्रीनारद उवाच -
एतच्छ्रुत्वा राजराजो दानशील उदारधीः ।
ओमिति प्रतिगृह्णीष्व प्राह तं गुह्यकेश्वरः ॥ ३४ ॥
एवं निधीन्प्रदास्यंतं दानाध्यक्षौ निधीश्वरम् ।
घंटानादः पार्श्वमौलिः उचतुर्लोभमोहितौ ॥ ३५ ॥
द्वावूचतुः -
एकोऽयं ब्राह्मणो लोभी निधिभिः किं करिष्यति ।
लक्षं दिव्यं देहि चास्मै वृत्तिं रक्ष तथोत्तराम् ॥ ३६ ॥
श्रीनारद उवाच -
परुषं तद्वचः श्रुत्वा दुर्वासाः क्रोधविग्रहः ।
भ्रूभंगकुटिलीभूते रक्तनेत्रे चकार ह ॥ ३७ ॥
स्थालीव सर्वब्रह्मांडं चचाल निमिषद्वयम् ।
प्रणतं धनदं वीक्ष्य ताभ्यां शापं ददौ मुनिः ॥ ३८ ॥
मुनिरुवाच -
घंटानाद महादुष्ट पापबुद्धेऽतिलुब्धक ।
ग्राहवत्वं धनग्राही ग्राहो भव महाखल ॥ ३९ ॥
पार्श्वमौले पापबुद्धे धनलोभमदान्वितः ।
गजवत् प्रेरणां कुर्वंस्त्वं गजो भव दुर्मते ॥ ४० ॥
श्रीनारद उवाच -
ताभ्यां शापं मुनिर्दत्वा निधिं नीत्वा कुबेरतः ।
वरं ददौ पुनस्तस्मै दुर्वासा दुर्लभं परम् ॥ ४१ ॥
अस्माद्दानाच्च द्विगुणा भवंतु निधयो नव ।
इत्युक्त्वा सनिधिः प्रागादहो तेजीयसां बलम् ॥ ४२ ॥
इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे गोमत्युपाख्याने चक्रतीर्थमाहात्म्यं नाम दशमोऽध्यायः ॥ १० ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|