श्रीगर्गसंहिता

द्वारकाखण्डः - नवमोऽध्यायः

रैवतकपर्वतावतरणम् -


बहुलाश्व उवाच -
त्रिषु लोकेषु विख्याता धन्या वै द्वारकापुरी ।
परिपूर्णतमः साक्षाच्छ्रीकृष्णो यत्र वासकृत् ॥ १ ॥
श्रीकृष्णस्यांगसम्भूता पुरी द्वारावती श्रुता ।
कस्मादिहागता ब्रह्मन् कस्मिन्काले वद प्रभो ॥ २ ॥
श्रीनारद उवाच -
साधु साधु त्वया पृष्टं द्वारकागमकारणम् ।
यच्छ्रुत्वा शुद्धतां याति लोकघात्यपि पातकी ॥ ३ ॥
शर्यातिर्नाम राजाऽभूच्चक्रवर्ती मनोः सुतः ।
चकार राज्यं धर्मेण वर्षाणामयुतं भुवि ॥ ४ ॥
उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः ।
शर्यातेरभवन्पुत्राः सर्वधर्मभृतां वराः ॥ ५ ॥
उत्तानबर्हिषे पूर्वां भूरिषेणाय दक्षिणाम् ।
पश्चिमां च दिशं सर्वामानर्ताय ददौ नृपः ॥ ६ ॥
ममेयं हि मही कृत्स्ना मया धर्मेण पालिता ।
बलार्जिता बलिष्ठेन यूयं तां पालयिष्यथ ॥ ७ ॥
पितुर्वचः समाकर्ण्य आनर्त्तो मध्यमः सुतः ।
ज्ञानी ज्ञानमयं वाक्यमुवाच प्रहसन्निव ॥ ८ ॥
आनर्त उवाच -
तवेयं न मही कृत्स्ना न त्वया पालिता क्वचित् ।
न त्वद्‌बलार्जिता राजन् बलिष्ठो भगवान् विभुः ॥ ९ ॥
मही श्रीकृष्णदेवस्य तेनैव परिपालिता ।
तत्तेजसा जिता कृत्स्ना बलिष्ठो न हरेः समः ॥ १० ॥
स एव विश्वं स्वकृतं सृजत्यत्ति च पाति च ।
स एव ब्रह्म परमं कालः कलयतां प्रभुः ॥ ११ ॥
योऽन्तः प्रविश्य भूतानि भूतैरप्यखिलाश्रयः ।
स विश्वाख्योऽधियज्ञोऽसौ परिपूर्णतमः स्वयम् ॥ १२ ॥
यद्‌भयाद्वाति वातोऽयं सूर्यस्तपति यद्‌भयात् ।
यद्‌भयाद्‌वर्षते देवो मृत्युश्चरति यद्‌भयात् ॥ १३ ॥
परिपूर्णतमं साक्षाच्छ्रीकृष्णं परमेश्वरम् ।
भज सर्वात्मना राजन्नहंकारविवर्जितः ॥ १४ ॥
श्रीनारद उवाच -
ज्ञानं प्राप्तोऽपि शर्यातिराक्षिप्तः पुत्रवाक्‌शरैः ।
आनर्त्तं स्वसुतं प्राह रुषा प्रस्फुरिताधरः ॥ १५ ॥
शर्यातिरुवाच -
दूरं गच्छ असद्‌बुद्धे गुरुवद्‌भाषसे कथम् ।
यावद्‌भूतं तु मे राज्यं तावत्त्वं मा महीं वस ॥ १६ ॥
यस्त्वयाऽऽराधितः कृष्णः सोऽपि सर्वसहायकृत् ।
न नवीनां किं महीं ते वै भगवानेव दास्यति ॥ १७ ॥
श्रीनारद उवाच -
इत्युक्तस्तु तदाऽऽनर्तो राजानं प्राह मानदः ।
यत्र ते च मही राज्यं तत्र वासो न मे भवेत् ॥ १८ ॥
पित्रा निःसारितो राज्ञाऽप्यानर्तोब्धितटं गतः ।
वेलामेत्य तपस्तेपे वर्षाणामयुतं जले ॥ १९ ॥
प्रेमलक्षणया भक्त्या संतुष्टो भगवान् हरिः ।
तस्मै स्वं दर्शनं दत्वा वरं ब्रूहीत्युवाच ह ॥ २० ॥
कृतांजलिपुटो भूत्वाऽऽनर्त उत्थाय शीघ्रतः ।
ननाम कृष्णपादाब्जं रोमांची प्रेमविह्वलः ॥ २१ ॥
आनर्त उवाच -
नमस्ते वासुदेवय नमः संकर्षणाय च ।
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ २२ ॥
पित्रा निष्कासितो देव त्वामहं शरणं गतः ।
देहि मह्यं भूमिमन्यां यत्र वासो हि मे भवेत् ॥ २३ ॥
ध्रुवोऽपि यत्प्रसादेन ययौ सर्वोत्तमं पदम् ।
तस्मै नमो भगवते प्रणतक्लेशहारिणे ॥ २४ ॥
श्रीनारद उवाच -
आनर्तमानतं दीनं भगवान् दीनवत्सलः ।
प्रसन्नः श्रीमुखेनाह मेघगंभीरया गिरा ॥ २५ ॥
श्रीभगवानुवाच -
अन्या न मेदिनी लोके किं कर्तव्यं मया नृप ।
स्ववचस्तदृतं कर्तुं त्वद्‌भक्त्या परितोषितः ॥ २६ ॥
तस्माद्वै स्वस्य लोकस्य वैकुण्ठस्य परन्तप ।
भूखंडं योजनशतं ददामि विमलं शुभम् ॥ २७ ॥
श्रीनारद उवाच -
इत्युक्त्वाऽऽनर्तनृपतिं भगवान् भक्तवत्सलः ।
वैकुण्ठाच्च समुत्पाट्य भूखंडं शतयोजनम् ॥ २८ ॥
चक्रं सुदर्शनं धृत्वा समुद्रे भीमनादिनि ।
दधार भगवान्देवस्तस्योपरि विदेहराट् ॥ २९ ॥
आनर्तो लक्षवर्षांतं तत्र राज्यं चकार ह ।
पुत्रपौत्रसमायुक्तो राजन् वैकुण्ठसंपदम् ॥ ३० ॥
इदं श्रुत्वाऽथ शर्यातिः पिता वै विस्मितोऽभवत् ।
आनर्तो नाम देशोऽभूदानर्तस्य प्रसादतः ॥ ३१ ॥
रेवतस्तस्य पुत्रोऽभूच्छ्रीशैलस्य गिरेः सुतम् ।
समुत्पाट्य स्वहस्ताभ्यामानर्तेषु न्यपातयत् ॥ ३२ ॥
सोऽभूत् रेवतनाम्नाऽपि रैवतो नाम पर्वतः ।
कुशस्थलीं विनिर्माय राज्यं कृत्वाऽथ रेवतः ॥ ३३ ॥
समादाय स्वकां कन्यां ब्रह्मलोकं जगाम ह ।
बलदेवविवाहेऽपि तत्कथा कथिता मया ॥ ३४ ॥
तस्माद्‌द्वारावतीं पुण्यां मोक्षद्वारं विदुः सुराः ॥ ३५ ॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
द्वारकागमनकारणं नाम नवमोऽध्यायः ॥ ९ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP