श्रीगर्गसंहिता
द्वारकाखण्डः - अष्टमोऽध्यायः
सत्यभामादि १६१०८ महिषी-विवाह-वर्णनम् तथा तत्प्रसङ्गे स्यमन्तकोपाख्यानकथनम् -
श्रीनारद उवाच -
अन्यसां कृष्णपत्नीनां मंगलं श्रृणु मैथिल ।
सर्वपापहरं पुण्यमायुर्वर्द्धनमुत्तमम् ॥ १ ॥
सत्राजिताय सूर्येण दत्तः साक्षात्स्यमंतकः ।
उग्रसेनाय स मणिः श्रीकृष्णेनाभियाचितः ॥ २ ॥
सत्राजितस्तं न ददौ द्रव्यलोभेन मैथिल ।
दिने दिने स्वर्णभारानष्टौ यः सृजति स्वतः ॥ ३ ॥
अथ प्रसेनस्तद्भ्राता मणीं कण्ठे निधाय सः ।
सैंधवं हयमारुह्य मृगयां व्यचरद्वने ॥ ४ ॥
सिंहेन मारितः सोऽपि सिंहो जांबवता हतः ।
गृहीत्वा तं मणिं सद्यो जांबवान्स्वगुहां गतः ॥ ५ ॥
कृष्णेन निहतो भ्राता मणिग्रीवो वनं गतः ।
नायातः स्वसभामध्ये इति सत्राजितोऽब्रवीत् ॥ ६ ॥
भगवान् दुर्यशोलिप्तो नागरैस्तु वनं गतः ।
प्रसेनमश्वं सिंहं च हतं प्रेक्ष्य महामते ॥ ७ ॥
ऋक्षराजबिलं गत्वा मणीं हर्तुं स्वयं हरिः ।
युद्धं कृत्वाऽष्टविंशाहमजयदृक्षनायकम् ॥ ८ ॥
तेन दत्ता जांबवती हरये कन्यका शुभा ।
मणिना सह राजेन्द्र द्वारकामाययौ हरिः ॥ ९ ॥
सत्राजिताय प्रददौ मणिं निर्लांछनः प्रभुः ।
व्रीडितोऽवाङ्मुखो भितो राजा सत्राजितो मणिम् ॥ १० ॥
गृहीत्वापि पुनस्तस्मै श्रीकृष्णाय महात्मने ।
सत्यभामां सुतां प्रादाच्छांत्यर्थं मैथिलेश्वर ॥ ११ ॥
पांडवानां सहायार्थमिन्द्रप्रस्थं गतो हरिः ।
तत्रैव वार्षिकान्मासान्न्यवात्सीद्बन्धुवत्सलः ॥ १२ ॥
एकदा रथमारुह्य हरिर्गांडीविना सह ।
सुनीरे यमुनातीरे मृगयार्थी विनिर्ययौ ॥ १३ ॥
तपश्चरन्ती कालिंदीं श्रीकृष्णं वरमिच्छ्ती ।
दर्शिता पांडवेनापि तां गृहीत्वा जगाम ह ॥ १४ ॥
द्वारकामेत्य कालिंदीं सूर्यकन्यां मनोहराम् ।
उपयेमे विधानेन वितन्वन्मंगलं परम् ॥ १५ ॥
आवन्त्यराजतनुजां मित्रविंदां मनोहरम् ।
स्वयंवरे तां जहार भगवान् रुक्मिणीं यथा ॥ १६ ॥
नग्नजित्कन्यकां सत्यां दमित्वा सप्त गोवृषान् ।
पश्यतां सर्वलोकानामुपयेमे हरिः स्वयम् ॥ १७ ॥
कैकेयराजतनुजां भद्रा तु भगवान् हरिः ।
कालिंदीमिव तां शश्वदुपयेमे विधानतः ॥ १८ ॥
बृहत्सेनसुतां राजँल्लक्ष्मणां लक्षणैर्युताम् ।
छित्वा मत्स्यमरीञ्जित्वा जग्राह भगवान् हरीः ॥ १९ ॥
तथा षोडशसाहस्रं शतं च नृपकन्यकाः ।
भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः ॥ २० ॥
तासां मुहूर्त एकस्मिन्नानागारेषु योषिताम् ।
सविधिं जगृहे पाणीन्नानारूपः स्वमायया ॥ २१ ॥
एकैकशस्ताः कृष्णस्य पुत्रान्दश दशाबलाः ।
अजीजनन्ननवमान्पितुः सर्वात्मसम्पदा ॥ २२ ॥
रुक्मिण्यां भीष्मकन्यायां प्रद्युम्नः प्रथमोऽभवत् ।
कामदेवावतारोऽयं पितृवत्सर्वलक्षणः ॥ २३ ॥
शम्बरो निर्दयस्तोकं हत्वाऽब्धौ तं समाक्षिपत् ।
मत्स्योदरे गतः सोऽपि न ममार हरेः सुतः ॥ २४ ॥
मत्स्योदरान्निर्गतोऽसौ भार्यया परिपालितः ।
ज्ञात्वा शत्रुकृतां वार्तां स कार्ष्णी रूढयौवनः ॥ २५ ॥
हत्वा तं शंबरं शत्रुं भार्यया वरया युतः ।
द्वारकामाययौ राजंश्चित्रं कर्म च तस्य तत् ॥ २६ ॥
स रुक्मिणो दुहितरं हृत्वा भोजकटात्पुरात् ।
स्वयंवरस्थलाद्राजन्नुपयेमे महारथः ॥ २७ ॥
तस्मात्सुतोऽनिरुद्धोऽभून्नागायुतबलान्वितः ।
सुरज्येष्ठावतारोऽयं शारदेन्दीवरप्रभः ॥ २८ ॥
चतुर्व्यूहावतारस्य परिपूर्णतमस्य हि ।
एवं विचित्रं चरितं विवाहानां सुमंगलम् ॥ २९ ॥
सर्वपापहरं पुण्यमायुर्वर्द्धनमुत्तमम् ।
मया ते कथितं राजन् किं भूयः श्रोतुमिच्छसि ॥ ३० ॥
इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे सर्वमहिष्युद्वाहो नामाष्टमोऽध्यायः ॥ ८ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|