श्रीगर्गसंहिता

द्वारकाखण्डः - पञ्चदशोऽध्यायः

कपिटङ्क-नृगकूप-गोपीभूमि-माहात्म्यकथनम् -


श्रीनारद उवाच -
तस्मिन् गिरौ यज्ञतीर्थ रैवतेन कृतं पुरा ।
यत्र कृत्वा यज्ञमेकं कोटियज्ञफलं लभेत् ॥ १ ॥
कपिटंकं नाम तीर्थ कपिपातसमुद्‌भवम् ।
गिरौ रैवतके राजन् सर्वपापप्रणाशनम् ॥ २ ॥
भौमासुरसखो दुष्टो द्विविदो नाम वानरः ।
मारितो यत्र रामेण मुष्टिना वज्रपातिना ॥ ३ ॥
सद्यो मुक्तिं गतः सोऽपि सतां हेलनवानपि ।
तत्र स्नातुं सदा देवा आगच्छन्ति नरेश्वर ॥ ४ ॥
कलविंकस्य यात्रायां कोटिगोदानजं फलम् ।
एतस्य द्विगुणं पुण्यं दण्डकाख्ये वने शुभे ॥ ५ ॥
तस्माच्चतुर्गुणं पुण्यं सैंधवाख्ये महावने ।
जंबुमार्गे पञ्चगुणं पुण्यं प्राप्नोति मानवः ॥ ६ ॥
तस्माद्दशगुणं पुण्यं पुष्कराख्ये वने स्मृतम् ।
तस्माद्दशगुणं पुण्यमुत्पलावर्तयात्रया ॥ ७ ॥
तस्माच्च नैमिषारण्ये पुण्यं दशगुणं स्मृतम् ।
तस्माच्छतगुणं पुण्यं कपिटंके विदेहराट् ॥ ८ ॥
नृगकूपं द्वारकायां तिर्थानां तीर्थमुत्तमम् ।
यस्य दर्शनमात्रेण विप्रावध्यात्प्रमुच्यते ॥ ९ ॥
अज्ञानाद्‍ब्राह्मणस्यापि गां ददौ ब्राह्मणाय सः ।
तेन पापेन कूपे वै कृकलासवपुर्द्धरः ॥ १० ॥
नृगोऽपि दानिनां श्रेष्ठः पतितोऽथ चतुर्युगम् ।
श्रीकृष्णेन तदुद्धारः कृतो वै पश्यतां सताम् ॥ ११ ॥
तद्दिनान्नृगकूपं तु तीर्थीभूतं महीपते ।
कार्तिके पूर्णिमायां तु तस्मिन् स्नानं समाचरेत् ॥ १२ ॥
कोटिजन्मकृतात्पापान् मुच्यते नात्र संशयः ।
एकं यत्रापि गोदानं करोति विधिवन्नरः ॥ १३ ॥
कोटिगोदानजं पुण्यं लभते वै न संशयः ।
गोपीभूमेश्च माहात्म्यं श्रुणु पापहरं परम् ॥ १४ ॥
यस्य श्रवणमात्रेण कर्मबन्धात्प्रमुच्यते ।
गोपीनां यत्र वासोऽभूत्तेन गोपीभुवः स्मृताः ॥ १५ ॥
गोप्यंगरागसंभूतं गोपीचन्दनमुत्तमम् ।
गोपीचन्दनलिप्तांगो गंगास्नानफलं लभेत् ॥ १६ ॥
महानदीनां स्नानस्य पुण्यं तस्य दिने दिने ।
गोपीचन्दनमुद्राभिर्मुद्रितो यः सदा भवेत् ॥ १७ ॥
अश्वमेधसहस्राणि राजसूयशतानि च ।
सर्वाणि तीर्थदानानि व्रतानि च तथैव च ।
कृतानि तेन नित्यं वै स कृतार्थो न संशयः ॥ १८ ॥
गंगामृद्‌द्विगुणं पुण्यं चित्रकूटरजः स्मृतम् ।
तस्माद्दशगुणं पुण्यं रजः पञ्चवटीभवम् ॥ १९ ॥
तस्माच्छतगुणं पुण्यं गोपीचन्दनकं रजः ।
गोपीचन्दनकं विद्धि वृन्दावनरजःसमम् ॥ २० ॥
गोपीचन्दनलिप्तांगं यदि पापशतैर्युतम् ।
तं नेतुं यमः शक्तो यमदूतः कुतः पुनः ॥ २१ ॥
नित्यंकरोति यः पापी गोपीचन्दनधारणम् ।
स प्रयाति हरेर्धाम गोलोकं प्रकृतेः परम् ॥ २२ ॥
सिंधुदेशस्य राजाऽभूद्दीर्धबाहुरिति श्रुतः ।
अन्यायवर्ती दुष्टात्मा वेश्यासंगरतः सदा ॥ २३ ॥
तेन वै भारते वर्षे ब्रह्महत्याशतं कृतम् ।
दश गर्भवतीहत्याः कृतास्तेन दुरात्मना ॥ २४ ॥
मृगयायां तु बाणौघैः कपिलागोवधः कृतः ।
सैंधवं हयमारुह्य मृगयार्थी गतोऽभवत् ॥ २५ ॥
एकदा राज्यलोभेन मन्त्री क्रुद्धो महाखलम् ।
जघानारण्यदेशे तं तीक्ष्णधारेण चासिना ॥ २६ ॥
भूतले पतितं मृत्युगतं वीक्ष्य यमानुगाः ।
बद्ध्वा यमपुरीं निन्युर्हर्षयन्तः परस्परम् ॥ २७ ॥
संमुखेऽवस्थितं वीक्ष्य पापिनं यमराड् बली ।
चित्रगुप्तं प्राह तूर्णं का योग्या यातनाऽस्य वै ॥ २८ ॥
चित्रगुप्त उवाच -
चतुरशीतिलक्षेषु नरकेषु निपात्यताम् ।
निःसन्देहं महाराज यावच्चंद्रदिवाकरौ ॥ २९ ॥
अनेन भारते वर्षे क्षणं न सुकृतं कृतम् ।
दशगर्भवतीघातः कपिलागोवधः कृतः ॥ ३० ॥
तथा वनमृगाणां च कृत्वा हत्याः सहस्रशः ।
तम्मादयं महापापी देवताद्विजनिंदकः ॥ ३१ ॥
श्रीनारद उवाच -
तदा यमाज्ञया दूता नीत्वा तं पापरूपिणम् ।
सहस्रयोजनायामे तप्ततैले महाखले ॥ ३२ ॥
स्फुरदत्युच्छलत्फेने कुम्भीपाके न्यपातयन् ।
प्रलयाग्निसमो वह्निः सद्यः शीतलतां गतः ॥ ३३ ॥
वैदेह तन्निपतनात्प्रह्लादक्षेपणाद्यथा ।
तदैव चित्रमाचख्युः यमदूता महात्मने ॥ ३४ ॥
अनेन सुकृतं भूमौ क्षणवन्न कृतं क्वचित् ।
चित्रगुप्तेन सततं धर्मराजो व्यचिंतयत् ॥ ३५ ॥
सभायामागतं व्यासं संपूज्य विधिवन्नृप ।
नत्वा पप्रच्छ धर्मात्मा धर्मराजो महामतिः ॥ ३६ ॥
यम उवाच -
अनेन पापिना पूर्वं न कृतं सुकृतं क्वचित् ।
स्फुरदग्न्युच्छलत्फेने कुंभीपाके महाखले ॥ ३७ ॥
अस्य क्षेपणतो वह्निः सद्यः शीतलतां गतः ।
इति सन्देहतश्चेतः खिद्यते मे न संशयः ॥ ३८ ॥
श्रीव्यास उवाच -
सूक्ष्मा गतिर्महाराज विदिता पापपुण्ययोः ।
तथा ब्रह्मगतिः प्राज्ञैः सर्वशास्त्रविदां वरैः ॥ ३९ ॥
दैवयोगादस्य पुण्यं प्राप्तं वै स्वयमर्थवत् ।
येन पुण्येन शुद्धोऽसौ तच्छृणु त्वं महामते ॥ ४० ॥
कस्यापि हस्ततो यत्र पतिता द्वारकामृदः ।
तत्रैवायम् मृतः पापी शुद्धोऽभूत्तत्प्रभावतः ॥ ४१ ॥
गोपीचन्दनलिप्तांगो नरो नारायणो भवेत् ।
एतस्य दर्शनात्सद्यो ब्रह्महत्या प्रमुच्यते ॥ ४२ ॥
श्रीनारद उवाच -
इति श्रुत्वा धर्मराजः तमानीय विशेषतः ।
विमाने कामगे स्थाप्य वैकुण्ठं प्रकृतेः परम् ॥ ४३ ॥
प्रेषयामास सहसा गोपीचन्दनकीर्तिवित् ।
एवं ते कथितं राजन् गोपीचन्दनकं यशः ॥ ४४ ॥
गोपीचन्दनमाहात्म्यं य श्रृणोति नरोत्तमः ।
स याति परमं धाम श्रीकृष्णस्य महात्मनः ॥ ४५ ॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
कपिटंकनृगकूप गोपीभूमिमाहात्म्यं नाम पञ्चदशोऽध्यायः ॥ १५ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP