श्रीगर्गसंहिता

द्वारकाखण्डः - सप्तमोऽध्यायः

श्रीकृष्ण-रुक्मिणी-विवाहम् -


श्री नारद उवाच -
रुक्मिण्या हरणं श्रुत्वा मित्राणां च पराभवम् ।
प्रतिज्ञामकरोद् रुक्मी शृण्वतां सर्वभुभुजाम् ॥ १ ॥
अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्मिणीम् ।
कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्‍ब्रवीमि वः ॥ २ ॥
इत्युक्त्वा कवचं दिव्यं घनमर्बुदनिर्मितम् ।
शिरस्त्राणं सिंधुजं च स दधार महोद्‌भटः ॥ ३ ॥
सौवीरस्य धनुः शालिलाटजं चेषुधिद्वयम् ।
आदाय म्लेच्छदेशस्य खड्गं चर्म च कौटजम् ॥ ४ ॥
पेठरस्य महाशक्तिं गुर्ज्जराटभवां गदाम् ।
परिघं बंगजं धृत्वा हस्तत्राणं च कौंकणम् ॥ ५ ॥
बद्धगोधांगुलित्राणः किरीटी रत्‍नकुण्डलः ।
रुक्मांगदस्तदा रुक्मी युद्धं कर्तुं मनो दधे ॥ ६ ॥
जैत्रं रथं समारुह्य चञ्चलाश्वनियोजितम् ।
पृष्ठतोऽन्वगमत्कृष्णं कर्षन्नक्षौहिणीद्वयम् ॥ ७ ॥
पुनः समागतां दृष्ट्वा सेनां रामो महाबलः ।
तया युयोध समरे यदुसेनासमन्वितः ॥ ८ ॥
तिष्ठ तिष्ठेति देवेशं विसृजन्परुषं वचः ।
संप्राप्नोति रथं रुक्मी धनुष्टंकारयन्मुहुः ॥ ९ ॥
त्वरं मुञ्च स्वसारं मे यदि जीवितुमिच्छसि ।
न चेत्वां सबलं सद्यो नयामि यमसादनम् ॥ १० ॥
ययातिशापसंभ्रष्टो गोपालोच्छिष्टभुग्भवान् ।
जरासंधभयाद्‌भीतो यवनाग्रात्पलायितः ॥ ११ ॥
इत्युक्त्वेषुधितः कृष्य बाणं चापे निधाय सः ।
नियम्य कर्णपर्यंतं निजघान हरेर्हृदि ॥ १२ ॥
सन्ताडितोऽपि भगवान् धनुर्ज्यां तस्य नादिनीम् ।
चिच्छेद सायकेनाशु गरुडः पन्नगीं यथा ॥ १३ ॥
निधाय शीघ्रं कोदण्डं शिंजिनीं स्वर्णभूषिताम् ।
रुक्मी तु दशभिर्बाणैः संजघान हरिं रणे ॥ १४ ॥
हरिरेकेन बाणेन शिंजिनीसहितं धनुः ।
चिच्छेद रुक्मिणः सद्यो ज्ञानेनेवागुणामयम् ॥ १५ ॥
कृष्णो मोघेन बाणेन मध्यतस्तां द्विधाऽकरोत् ।
रुक्मीं पुनः शतैर्बाणैः संतताड मृधे हरिः ॥ १६ ॥
छिन्नधन्वाऽथ वैदर्भो महाशक्तिं स्फुरत्प्रभाम् ।
प्राहरद्धरये शक्तिं विज्ञानाय यथा मुनिः ॥ १७ ॥
तताड गदया तां वै गदाधारी गदाग्रजः ।
द्विधाभूता महाशक्ति रुक्मेः सूतं जघान ह ॥ १८ ॥
कौमोदकी गदा गुर्वी पतन्ती वेगधारिणी ।
तद्‌रथं चूर्णयामास साश्वं शैलं यथा पविः ॥ १९ ॥
प्राहरद्धरये सोऽपि गदां स्वां भीष्मकात्मजः ।
चक्रेण चूर्णयामास भगवानपि तां पुनः ॥ २० ॥
परिघं बंगजं नीत्वा रुक्मी रुक्मांगदो बली ।
जघान श्रीहरिं स्कंधे जगर्ज घनवन्मृधे ॥ २१ ॥
सन्ताडितोऽपि भगवान् मालाहत इव द्विपः ।
तेनैव परिघेणापि तं जघान रणांगणे ॥ २२ ॥
परिघाभिहतो रुक्मी किंचिद्व्याकुलमानसः ।
भर्त्सयन् माधवं ह्याजौ जग्राह खड्गचर्मणी ॥ २३ ॥
तत् खड्गं चर्मणा छित्वा स्वखड्गं प्राहरद्धरिः ।
खड्गाग्रेण शिरस्त्राणं कंचुकं चिच्छिदे महत् ॥ २४ ॥
हस्तत्राणोऽपि युगपदे ते छिन्नीकृते मृधे ।
खड्गमुष्टिकरं दृष्ट्वा रुक्मिणं समुपस्थितम् ॥ २५ ॥
गृहीत्वा भुजदण्डाभ्यां पातयित्वा महीतले ।
तस्योपरि हरिः स्थित्वा यथा सिंहो मृगोपरि ।
शितधारं नन्दकाख्यं खड्गं जग्राह रोषतः ॥ २६ ॥
दृष्ट्वा भ्रातृवधोद्युक्तं रुक्मिणी भयविह्वला ।
पतित्वा पादयोर्भर्त्तुरुवाच करुणं सती ॥ २७ ॥
श्रीरुक्मिण्युवाच -
अनन्त देवेश जगन्निवास
     योगेश्वराचिंत्य जगत्पते त्वम् ।
हंतुं न योग्यः करुणासमुद्र
     मद्‍भ्रातरं शालभुजं महाभुज ॥ २८ ॥
श्री नारद उवाच -
परित्रासैर्विलपतीं दुःखशुष्यन्मुखीं प्रियाम् ।
रुद्धकंठीं सतीं वीक्ष्य न्यवर्त्तत हरिः स्वयम् ॥ २९ ॥
बद्ध्वा तं कटिबन्धेन खड्गेन शितधारिणा ।
वपनं श्मश्रुकेशानां चकारार्द्धमुखे हरिः ॥ ३० ॥
अक्षौहिणीद्वयं जित्वा रामः प्राप्तः ससैनिकः ।
बद्धं विरूपिणं दीनं रुक्मिणं तु ददर्श ह ॥ ३१ ॥
विमुच्य बद्धं सदयः प्राह निर्भर्त्सयन् हरिम् ।
असाध्विदं त्वया कृष्ण कृतं लोकजुगुप्सितम् ॥ ३२ ॥
हास्य वैशालिभद्राणां न हि चैतादृशं भवेत् ।
यस्याः सहोदरे मुख्ये विरूपे च त्वया कृते ॥ ३३ ॥
किं वदिष्यति साऽपि त्वां भ्रातुर्वैरूप्यचिंतया ।
मा शोकं कुरु कल्याणि स्वस्था भव शुचिस्मिते ॥ ३४ ॥
आर्यपुत्रि महाबुद्धे मा शोकं कुरु दुर्मनाः ।
सर्व कालकृतं मन्ये प्रियमप्रियमेव वा ॥ ३५ ॥
वायोर्घनावलिरिव वशे यस्याखिलं जगत् ।
तं कालमीश्वरं विद्धि विष्णुं कलयतां प्रभुम् ॥ ३६ ॥
अहं ममेति भावोऽयं जगतो बन्धकारणम् ।
ताभ्यां विरहितो भावो मोक्ष एव न संशयः ॥ ३७ ॥
सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः ।
मित्रोदासीनरिपवः संसारतमसा कृताः ॥ ३८ ॥
एवं रामेण देवेन बोधितो भीष्मकात्मजः ।
वैमनस्यं परित्यज्य रुक्मिणी च ययौ मुदम् ॥ ३९ ॥
रुक्मी तु ताभ्यामुत्सृष्टो वितथात्ममनोरथः ।
स्मरन् विरूपकरणं तपसे स मनोऽदधत् ॥ ४० ॥
वारितो मन्त्रिमुख्यैश्च कुण्डिनं न गतः पुनः ।
चक्रे भोजकटं नाम निवासाय पुरं परम् ॥ ४१ ॥
रुक्मिण्या सह गोविंदः सरामो यदुभिर्वृतः ।
द्वारकां प्रययौ राजन्नादयञ्जयदुन्दुभीन् ॥ ४२ ॥
जाते महोत्सवे पुर्य्यां रुक्मिणीं रुचिराननाम् ।
उपयेमे विधानेन मार्गशीर्षे हरिः स्वयम् ॥ ४३ ॥
हरेर्विवाहे सति रुक्मिणीपतेः
     श्रीरुक्मिणी भूषितरुक्ममन्दिरा ।
पुरन्दरस्यापि यथाऽमरावती
     द्वारावती पुण्यवती तथा बभौ ॥ ४४ ॥
भैष्मीविवाहस्य कथां विचित्रां
     श्रृणोति यः श्रावयते च भक्त्या ।
इहैव भक्तो विभवेन युक्तः
     स एव मुक्तिं प्रतियाति मुक्तः ॥ ४५ ॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
रुक्मिणीविवाहो नाम सप्तमोऽध्यायः ॥ ७ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP