श्रीगर्गसंहिता

द्वारकाखण्डः - षष्ठोऽध्यायः

रुक्मिणीहरणप्रसङ्गे राजगणेभ्यः सह युद्धं तथा विजयम् -


श्रीनारद उवाच -
इत्थं विप्रबंधूनां सदाशीर्भिरभिनंदिता ।
देवीं पुनर्विप्रवधूः प्रणनाम मुहुर्मुहुः ॥ १ ॥
त्यक्त्वा मुनिव्रतं भैष्मी गिरजागृहतस्ततः ।
सहालिभिः सखीभिश्च निश्चक्राम शनैः शनैः ॥ २ ॥
कोटिचन्द्रप्रतीकाशां भैष्मीं कमललोचनाम् ।
अकस्माद्ददृशुर्वीराः सुनिधिं निर्धना यथा ॥ ३ ॥
आश्वारूढाश्च रथिनो गजिनश्च पदातयः ।
समागता रक्षिणस्ते मुमुहुर्वीक्ष्य रुक्मिणीम् ॥ ४ ॥
तदपांगस्मितैस्तीक्ष्णैः बाणैः कामधनुश्च्युतैः ।
उज्झितास्त्रा निपेतुः कावर्दिताः सैनिकास्तदा ॥ ५ ॥
रथेन वायुवेगेन घण्टामञ्जीरनादिना ।
नैःश्रेयसंभवैरश्वैर्युतेनातिपताकिना ॥ ६ ॥
शीघ्रं स्वसैन्यसंघट्टात्तत्सैन्यं संविदारयत् ।
वायुर्यथा पद्मवनं हरिर्दारुकसारथिः ॥ ७ ॥
स्त्रीकदम्बकमेत्याशु पश्यतां द्विषतां प्रभुः ।
समारोप्य रथं भैष्मीं तार्क्ष्यपुत्रः सुधामिव ॥ ८ ॥
देवानां पश्यतां राजन् राजकन्यां जहार ह ।
दिव्यं शस्त्रोत्तमं शार्ङ्गं धनुष्टंकारयन्मुहुः ॥ ९ ॥
ततो वेगेन महता स्वसैन्यं चागते हरौ ।
देवदुन्दुभयो नेदुर्यदुदुन्दुभयस्तदा ॥ १० ॥
सिद्धाश्च सिद्धकन्याश्च श्रीकृष्णस्य रथोपरि ।
हर्षिता ववृषुर्देवाः पुष्पैर्नंदनसंभवै ॥ ११ ॥
ततो ययौ जयारावैः शनै रामयुतो हरिः ।
श्रृगालसंघमध्याच्च केसरी भागहृद्यथा ॥ १२ ॥
तदा कोलाहले जाते रुमिणीहरणे सति ।
बभूव रक्षकाणां च शस्त्राशस्त्रि परस्परम् ॥ १३ ॥
जरासंधवशाः सर्वे मानिनो नृपसत्तमाः ।
न सेहिरे स्वाभिभवं परं जातं यशःक्षयम् ॥ १४ ॥
अहो धिगस्मान्स्वयशो हृतं गोपैश्च धन्विनाम् ।
श्रृगालैरिव सिंहानामतः किं स्यात्पराजयः ॥ १५ ॥
एवमुक्त्वाः क्रोधपरा जगृहुः शस्त्रसंहतिम् ।
विसृज्य क्रीडनाक्षादीन् दंशिताः सैन्यसंयुताः ॥ १६ ॥
अक्षौहिणीद्वयेनापि पौंड्रकः क्रोधपूरितः ।
अक्षौहिणीत्रयेणापि महावीरो विदूरथः ॥ १७ ॥
अक्षौहिणीपञ्चयुतो दन्तवक्रोऽतिदारुणः ।
अक्षौहिणीत्रयेणाशु शाल्वो राजपुरेश्वरः ॥ १८ ॥
अक्षौहिणीभिर्दशभिर्जरासंधो महाबलः ।
आययौ संमुखे योद्धुं यादवानां महात्मनाम् ॥ १९ ॥
अन्येऽपि चैद्यपक्षीया योद्धुं श्रीकृष्णसंमुखे ।
धनुष्टंकारयंतस्ते समाजग्मुः सहस्रशः ॥ २० ॥
प्रलयाब्धिसमं सैन्यं समालोक्य यदूत्तमाः ।
तर्त्तुमाजग्मुरारात्ते कृष्णकैवर्त्तपोतकाः ॥ २१ ॥
बभूव तुमुलं युद्धमद्‌भुतं रोमहर्षणम् ।
सैन्ययोश्च स्वपरयोर्देवदानवयोर्यथा ॥ २२ ॥
रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः ।
गजा गजैर्युयुधिरे तुरगाश्च तुरंगभैः ॥ २३ ॥
शस्त्रांधकारे संजाते रुक्मिणीं भयविह्वलाम् ।
विलोक्य भगवान्देवो मा भैष्टेत्यभयं ददौ ॥ २४ ॥
बलदेवानुजो वीरो गदो धुन्वमहद्धनुः ।
विवेश शत्रुसंघट्टं वनं वह्निरिव प्रभुः ॥ २५ ॥
गदबाणविभिन्नांगा रथिनश्छिन्नकंचुकाः ।
हताश्वा हतसूताश्च निपेतुर्भूमिमण्डले ॥ २६ ॥
पदातयश्छिन्नपदा गदबाणागतव्यथाः ।
निपेतुर्भूतले राजन् वृक्षा वातहता इव ॥ २७ ॥
अश्वारुढाः केऽपि वीरा गदबाणैर्विदारिताः ।
पेतू रणांगणे साश्वा बृहतीफलवन्नृप ॥ २८ ॥
गदबाणैर्भिन्नकुम्भा मध्ये मध्ये विदारिताः ।
विरेजुः पतिता भूमौ कूष्मांडशकला इव ॥ २९ ॥
ततः पलायितं सैन्यं दृष्ट्वा शाल्वो महाबलः ।
गदं तताड गदया गदायुद्धविशारदः ॥ ३० ॥
गदाविद्धो गदो धन्वी गदायुद्धप्रभाववित् ।
धनुर्युद्धं तु संत्यज्य तत्कालान्मनसा त्वरम् ॥ ३१ ॥
परां व्यथां गते युद्धे पतितोऽपि समुत्थितः ।
तदाऽग्रजेन या दत्ता तां गदा तु गदोऽग्रहीत् ॥ ३२ ॥
लक्षभारमयी गुर्वी दृढा कौमोदकी यथा ।
तया गदोऽहनच्छाल्वं वज्रेणेंद्रो यथा गिरिम् ॥ ३३ ॥
गदाप्रहारमथिते शाल्वे निपतिते भुवि ।
पौंड्रकोऽथ जरासंधो दन्तवक्रो विदूरथः ॥ ३४ ॥
चत्वार आययुस्तत्र गदोपरि रुषान्विताः ।
पौंड्रकोऽपि महावीरो गदस्य रथगं ध्वजम् ॥ ३५ ॥
चिच्छेद दशभिर्बाणैः कुवाक्यैर्मित्रतामिव ।
दन्तवक्रस्तु गदया गदस्यापि रथं शुभम् ।
चूर्णयामास राजेंद्र दण्डेनेव सुमृद्धटम् ॥ ३६ ॥
तथाऽश्वांश्च जरासंधः सारथि च विदूरथः ।
पातयामास भूपृष्ठे शितैर्बाणैर्विदेहराट् ॥ ३७ ॥
ततो मुसलमादाय बलदेवस्त्वरन्बली ।
विकराले मुखे भीमे दन्तवक्रमताडयत् ॥ ३८ ॥
ततो मुसलघातेन दन्तवक्रस्य युध्यतः ।
मुखे वक्रोऽपि यो दन्तः स तु भूमौ पपात ह ॥ ३९ ॥
तदा हसति दैत्यारौ रुक्मिणीसहिते हरौ ।
पौंड्रकं च जरासंधं तथा दुष्टं विदूरथम् ॥ ४० ॥
जघान मुसलेनाशु बलदेवो रुषान्वितः ।
त्रयोऽपि पतिता युद्धे मूर्छिताः क्षतजाप्लुताः ॥ ४१ ॥
सेनां समागतां सर्वां समाकृष्य हलेन वै ।
मुसलेनाहनत्क्रुद्धो बलदेवो महाबलः ॥ ४२ ॥
दशयोजनपर्यंतं रथेभाश्वपदातयः ।
पेशिताश्चूर्णिता भूमौ शयना धरणीं गताः ॥ ४३ ॥
जरासंधादयः सर्वे मृत्युशेषा नृपाः परे ।
पलायिताश्चैद्यमेत्य प्रोचुर्नष्टोत्सवं भृशम् ॥ ४४ ॥
भो भोः पुरुषशार्दूल दौर्मनस्यमिदं त्यज ।
किमेकेन विवाहेन भविता ते शतं भुवि ॥ ४५ ॥
अद्यैव द्वारकां गत्वा बद्ध्वा रामं समाधवम् ।
अयादवीं करिष्यामः पृथ्वीं सागरमेखलाम् ॥ ४६ ॥
एवं सम्बोधितो मित्रैश्चैद्योऽगाच्चंद्रिकापुरम् ।
ययुः स्वं स्वं पुरं सर्वे हतशेषा नृपास्ततः ॥ ४७ ॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
रुक्मिणीहरणे यदुविजयो नाम षष्ठोऽध्यायः ॥ ६ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP