श्रीगर्गसंहिता

द्वारकाखण्डः - पञ्चमोऽध्यायः

अन्तःपुरतः भवानीपूजनार्थं रुक्मिण्याः बहिर्गमनम् -


श्रीनारद उवाच -
ध्यायंती कृष्णपादाब्जं भैष्मी कमललोचना ।
मोघं वा मनुते वार्तां मेघश्याममचिंतयत् ॥ १ ॥
रुक्मिण्युवाच -
अहो त्रियामांतरितो विवाहो
     ममैव नागच्छति कृष्णचन्द्रः ।
न वेद्मि किं कारणमत्र धात-
     र्नावर्ततेऽद्यापि च भूमिदेवः ॥ २ ॥
यदूत्तमो देववरो ममैष
     दृष्ट्वा हि किंचित्कलुषं विधातः ।
कृतोद्यमो नूनमतीव हस्त-
     ग्राहे न चागच्छति किं करोमि ॥ ३ ॥
हा दुर्भगायाश्च न मे विधाता
     न सानुकूलः किल चन्द्रमौलिः ।
न चैकदन्तो विमुखा च गौरी
     गावो हि विप्राश्च न सानुकूलाः ॥ ४ ॥
श्रीनारद उवाच -
एवं विचिन्तयन्ती सा भैष्मी गेहाट्टभूमिषु ।
परिभ्रमन्ती श्रीकृष्णं पश्यन्ती गृहशेखरात् ॥ ५ ॥
तदैव तस्या वामंगमस्फुरत्प्रतिभाषणम् ।
तेन प्रसन्ना श्रीभैष्मी कालज्ञा सर्वमंगला ॥ ६ ॥
कृष्णप्रणोदितो विप्रः सद्यश्चागतवांस्तदा ।
श्रीकृष्णागमनं तस्यै शनैः सर्वं शशंस ह ॥ ७ ॥
ततः प्रसन्ना श्रीभैष्मी तदंघ्र्यो प्रणिपत्य सा ।
प्राह त्वद्वंशतो विप्र न यास्यामि वचो मम ॥ ८ ॥
श्रुत्वागतौ रामकृष्णौ विवाहप्रेक्षणोत्सुकौ ।
भीष्मको निर्गतो नेतुं ब्राह्मणैस्तत्प्रभाववित् ॥ ९ ॥
भृशं मंगलपात्रेषु गन्धाक्षतयुतेषु च ।
वासोरत्‍नचयं धृत्वा गीतवादित्रमंगलैः ॥ १० ॥
कोटिशो मधुपर्काणां कुम्भव्यूहान् विधाय च ।
पूजयित्वाऽथ विधिवद्‌रामकृष्णौ परेश्वरौ ॥ ११ ॥
अहो चास्मै न दत्तेयं इति खिन्नमनाः परम् ।
आनंदने वने स्थाप्य नत्वा स्वग्हमाययौ ॥ १२ ॥
श्रुत्वाऽऽगतं श्रीवसुदेवनंदनं
     त्रैलोक्यलावण्यनिधिं परेश्वरम् ।
आगत्य नेत्राञ्जलिभिः पुरौकसः
     पपुः परं तन्मुखपंकजामृतम् ॥ १३ ॥
अस्यैव भार्या भवितुं हि रुक्मिणी
     योग्याऽस्ति नान्येऽत्यवदन्पुरौकसः ।
दत्वा स्वपुण्यानि विवाहहेतवे
     श्रीकृष्णलावण्यकलानिबन्धकाः ॥ १४ ॥
कदापि साक्षाच्छ्वशुरस्य मन्दिरं
     समागतं चैवमहो वयं जनाः ।
द्रक्ष्याम आरात्कृतकृत्यतां तदा
     व्रजेम लोके बहुजीवितेन किम् ॥ १५ ॥
वदत्सु लोकेषु च भीष्मकन्यका-
     ऽद्रिकन्यकापूजनहेतवे नृप ।
अन्तःपुरात्सर्वसखीसमन्विता
     विनिर्ययौ कृष्णगृहीतमानसा ॥ १६ ॥
भेरीमृदंगैर्बहुदुन्दुभिस्वनैः
     सुगायकैर्बंदिजनैश्च मागधैः ।
वारांगना नृत्यमनोज्ञभावै-
     र्जयेत्यभून्मंगलशब्द उच्चकैः ॥ १७ ॥
कोटींदुबिंबद्युतिमादधानां
     बालार्कताटंकधरां श्रियं ताम् ।
सितातपत्रव्यजनैः स्फुरद्‌भिः
     सुचामरैः पार्श्वगणः सिषेवे ॥ १८ ॥
कोशाद्विनिष्कृष्य शितासिलक्षं
     पदातयो वीरजना इतस्ततः ।
तथाऽश्वगा वै रथिनो गजस्थिताः
     समुद्यतास्त्रा जुगुपुर्विदूरतः ॥ १९ ॥
देवीमठं प्राप्य सुचत्वरे स्थिता
     शांता शुचिर्धौतकरांघ्रिपंकजा ।
गत्वा संमीपं यतवाक् कृताञ्जलि-
     र्भेजे भवानीं भवभीतिहारिणीम् ॥ २० ॥
दुर्गे स्वसंतानयुते शिवे शुभे
     नमामि तुभ्यं सततं भवानि ते ।
भूयात्पतिर्मे भगवान्परेश्वरः
     श्रीकृष्णचन्द्रः प्रकृतेः परः स्वयम् ॥ २१ ॥
एवं शुभे मा वद कृष्णानाम
     चैद्यं समुद्दिश्य वरं गृहाण ।
इत्थं वदन्तीषु सखीषु भैष्मी
     भूयो भवानीभवने जगाद ॥ २२ ॥
अजानतीयं तव चांब बाला
     तथा वदन्तीषु सखीषु भैष्मी ।
गन्धाक्षतैर्धूपविभूषणाद्यैः
     स्रङ्‌माल्यदीपावलिभोगवस्त्रैः ॥ २३ ॥
अपूपतांबूलफलेक्षुभिश्च
     भेजे भवानीं परया च भक्त्या ।
नत्वाऽथ तां वा बहुभूषणाद्यैः
     संपूज्य सौभाग्यवतीर्ननाम ॥ २४ ॥
सर्वाः स्त्रियताः प्रददुर्वराणि
     सुमंगलाशीर्वचनानि तस्यै ।
रुपं सदा ते शतरुपया समं
     शीलं सदा शैलसुतासमं प्रभौ ॥ २५ ॥
शुश्रूषणं भर्तुररुन्धतीसमं
     क्षमा हि भूयाज्जनकात्मजासमा ।
सौभाग्यमेवं तव दक्षिणासमं
     सुवैभवं भीष्मसुते शचीसमम् ।
सरस्वती ते च सरस्वतीसमा
     भक्तिः पतौ स्याच्च सतां हरौ यथा ॥ २६ ॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
रुक्मिणीनिर्गमनं नाम पञ्चमोऽध्यायः ॥ ५ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP