श्रीगर्गसंहिता

द्वारकाखण्डः - चतुर्थोऽध्यायः

रुक्मिणीकृतं दूतरूपे ब्राह्मणस्य द्वारकाप्रेषणं तथा श्रीकृष्णस्य कुण्डिननगरागमनम् -


श्रीनारद उवाच -
अथ श्रीकृष्णदेवस्य विवाहं श्रृणु मैथिल ।
सर्वपापहरं पुण्यं चतुर्वर्गफलप्रदम् ॥ १ ॥
भीष्मको नाम राजाऽभूद्‌विदर्भेषु प्रतापवान् ।
कुण्डिनाधिपतिः श्रीमान् सर्वधर्मविदां वरः ॥ २ ॥
रुक्मिणी तत्सुता जाता श्रियो मात्राऽतिसुन्दरी ।
कोटिचंद्रप्रतीकाशा गुणभूषणभूषिता ॥ ३ ॥
श्रुत्वैकदा पुरा सा वै मन्मुखाच्छ्रीहरेर्गुणान् ।
परिपूर्णतमं तं वै सा मेने सदृशं पतिम् ॥ ४ ॥
तद्‌रूपं सगुणं श्रुत्वा मन्मुथात्प्रीतिवर्द्धनात् ।
सदृशीं श्रीहरिस्तां वै समुद्वोढुं मनो दधे ॥ ५ ॥
कृष्णभावविदा राज्ञा सर्वधर्मविदा भृशम् ।
भीष्मकेणैव कृष्णाय दातुं तां निश्चयः कृतः ॥ ६ ॥
युवराजस्ततो रुक्मी तं निवार्य प्रयत्‍नतः ।
कृष्णशत्रुं महावीरं शिशुपालममन्यत ॥ ७ ॥
ततः खिन्नमना भैष्मी श्रीकृष्णाय महात्मने ।
दूतं स्वं प्रेषयामास ब्राह्मणं मिथिलेश्वरः ॥ ८ ॥
स द्वारकां गतो दिव्यां श्रीकृष्णेन प्रपूजितः ।
भुक्तवांस्तत्र चासीनो विश्रान्तो मंदिरे हरेः ॥ ९ ॥
पृच्छते कुशल सर्वं श्रीकृष्णाय महात्मने ।
ब्राह्मणस्तदनुज्ञातस्तस्मै सर्वमवर्णयत् ॥ १० ॥
स्वस्तिश्रीकारपञ्चाढ्ये नित्यानंदमहोदधौ ।
श्रीमद्दिव्यगुणैः पूर्णे कोटिशो नतयो मम ॥ ११ ॥
शमत्रास्तु च तत्रास्तु ततस्त्वत्पत्रमागतम् ।
नारदोक्तेन वचसा ज्ञातोऽसि प्रकृते परः ॥ १२ ॥
सर्व जानासि सर्वज्ञस्तथा वक्ष्य वचो रहः ।
वीरभागं तु मां विद्धि त्वं गृहाण महामते ॥ १३ ॥
मा चैद्यः प्रतिगृह्णीयाद्‌यथा सिंहबलिं मृगः ।
कथं त्वामुद्वहे दुर्गे स्थितामिति च तच्छृणु ॥ १४ ॥
पूर्वेद्युः कुलदेव्यास्तु यात्राऽस्ति महती हरे ।
आगमिष्याम्यहं तत्र तत्र मां त्वं गृहाण भोः ॥ १५ ॥
श्रीनारद उवाच - रुक्मिण्यास्तमभिप्रायं श्रुत्वा ब्राह्मणभाषितम् ।
रथः संयुज्यतामाशु दारुकं प्राह मानदः ॥ १६ ॥
पश्चिमायां तदा रात्रौ वैकुठप्रभवं परम् ।
किंकिणीजालसंयुक्तं हेमरत्‍नखचित्प्रभम् ॥ १७ ॥
सदैश्वैः शैब्यसुग्रीवमेघपुष्पबलाहकैः ।
नियोजितैर्दारुकेण चञ्चलैश्चारुचामरैः ॥ १८ ॥
युक्तं महारथं दिव्यं सहस्रादित्यवर्चसम् ।
आरुह्य सारथेः पृष्ठे धृत्वा श्रीपादपंकजम् ॥ १९ ॥
स्वहस्तेन द्विजं तस्मिन्समारोप्य रमापतिः ।
विदर्भान्प्रययौ राजञ्छ्रीकृष्णो भगवान् हरिः ॥ २० ॥
कृष्णं चैकं गतं हर्तुं कन्यां तु नृपमण्डलात् ।
कलिप्रशंकितो रामः श्रुत्वा भ्रातृसहायकृत् ॥ २१ ॥
नीत्वा यदुबलं सर्वं समर्थबलवाहनम् ।
विपक्षीयान्नृपांजेतुं बलः पश्चाद्ययौ त्वरम् ॥ २२ ॥
कुण्डिनोपवनं प्राप्तः सद्विजः सरथो हरिः ।
संतस्थौ तिंतिणीवृक्षे आस्तीर्याश्वपरिच्छदम् ॥ २३ ॥
दूरात्संदृश्यते तस्मात्कुण्डिनं तु पुरं परम् ।
दीर्घदुर्गसमायुक्तं सप्तयोजनवर्तुलम् ॥ २४ ॥
दुर्लंघ्या दुर्गमा यत्र परिखा जलपूरिता ।
धनुःशतं विस्तृतास्ति चातुर्मास्यनदीव सा ॥ २५ ॥
पंचाशद्धस्तमानेन दुर्गभित्तिस्तथोर्ध्वंगा ।
यत्र रम्याणि हर्म्याणि स्फुरद्धेमशिखानि च ॥ २६ ॥
हेमकुम्भध्वजस्फूर्जत्तोलकानि विरेजिरे ।
पारावता मयूराश्च यत्र तत्र पतंति च ॥ २७ ॥
शिशुपालाय स्वां कन्यां दास्यन् राजा तु भीष्मकः ।
चक्रे विवाहसंभारसंचयं रत्‍नमण्डपे ॥ २८ ॥
गीतमंगलसंयुक्ते नारीभिर्भवनोत्तमे ।
रराज रुक्मिणी राजन् सिद्धिभिर्भूर्यथा भुवि ॥ २९ ॥
अथर्वविद्‍‌द्विजा भैष्मीं सुस्नातां रत्‍नवाससम् ।
चक्रुर्मंत्रैस्तथा रक्षां बद्ध्वा शांतिं विधाय च ॥ ३० ॥
हैमानां भारलक्षं च मुक्तानां द्विगुणं तथा ।
सहस्रभारं वस्त्राणां धेनूनामर्बुदानि षट् ॥ ३१ ॥
गजायुतं रथानां च दशलक्षं मनोहरम् ।
दशकोटिहयानां च गुडादितिलपर्वतान् ॥ ३१ ॥
सहस्र स्वर्णपात्राणां भूषणानां तथाऽयुतम् ।
विप्रेभ्यः प्रददौ राजा भीष्मकोऽतिमहामनाः ॥ ३३ ॥
तथा वै दमघोषस्य शिशुपालाय वै द्विजाः ।
चक्रुः शांतिं परां पूर्वं रक्षाबन्धनरूपिणीम् ॥ ३४ ॥
ब्राह्मणैर्मंगलस्नातं पतीकंचुकशोभितम् ।
मुकुटोपरि विभ्राजत्पुष्पमौलिधरं शुभम् ॥ ३५ ॥
हारकंकणकेयुर शिखामणिविभूषितम् ।
मंगलैर्गीतवादित्रैर्गन्धाक्षतविचर्चितम् ॥ ३६ ॥
आचारलाजैः सुवरं शिशुपालं विधाय च ।
आरोप्य करिणं प्रोच्चं दमघोषो विनिर्ययौ ॥ ३७ ॥
जरासंधेन शाल्वेन दन्तवक्रेण धीमता ।
विदूरथेन पौंड्रेण पार्ष्णिग्राहेण मैथिल ॥ ३८ ॥
विकर्षन्महतीं सेनां दमघोषो महाबलः ।
दुंदुभीन्नादयन्दीर्घानाययौ कुण्डिनं पुरम् ॥ ३९ ॥
संमुखाद्‌यदुदेवस्य श्रुत्वोद्योगं नृपाः परे ।
सहस्रशः समाजग्मुः शिशुपालसहायिनः ॥ ४० ॥
भीष्मको ह्यग्रतो गत्वा संपूज्य विधिवन्नृपम् ।
काश्मीरकंबलैर्दिव्यारुणैः सामुद्रसंभवैः ॥ ४१ ॥
मंडितेषु च सर्वेषु मुक्तादामविलंबिषु ।
सौगन्धिकैः पुष्परसै राष्ट्रेषु शिबिरेषु च ॥ ४२ ॥
वारांगनानृत्यलसन्मृदंगेषु ध्वनत्सु च ।
निवेशयामास नृपैर्विदर्भाधिपतिर्महान् ॥ ४३ ॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
कुंडिनपुरयानं नाम चतुर्थोऽध्यायः ॥ ४ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP