श्रीगर्गसंहिता
द्वारकाखण्डः - द्वितियोऽध्यायः
समुद्रमध्ये द्वारकापुरीनिर्माणं तथा यादवगणैः सह तत्र श्रीकृष्णस्य वासकथनम् -
श्रीनारद उवाच -
पुनस्तत्र जरासंधस्तावेत्याक्षौहिणीबलः ।
युयुधे यदुभिः शीघ्रं पुनः कृष्णपराजितः ॥ १ ॥
श्रीकृष्णतेजसा सर्वे यादवा वृद्धिमागताः ।
धनुर्गजादिभिः शश्वत्प्राप्तलुंठनसाहसाः ॥ २ ॥
प्राप्ते च साहसे राजन् विना युद्धं पुरैव हि ।
अर्भका जलहारिण्यश्चक्रुः शत्र्वपहारणम् ॥ ३ ॥
शत्रुद्रव्यं च संहर्तुं वीक्ष्यंतः क्रीतवाससः ।
नागरा माथुराः सर्वे परं हर्षमुपागताः ॥ ४ ॥
एवं सप्तदश कृत्वा क्षीणसैन्यो जरासुतः ।
अष्टादशमसंग्रामे आगंतुं च मनोऽकरोत् ॥ ५ ॥
मया प्रणोदितः कालयवनो वै महाबलः ।
रुरोध मथुरां क्रुद्धो म्लेच्छकोटिसमावृतः ॥ ६ ॥
म्लेच्छानां च बलं वीक्ष्य स्वपुरं भयविह्वलम् ।
भयं चोभयतः प्राप्तं रामेणाचिंतयद्धरिः ॥ ७ ॥
स्वज्ञातिबन्धुरक्षार्थं समुद्रे भीमनादिनी ।
चकार द्वारकादुर्गमेकरात्रेण माधवः ॥ ८ ॥
यत्राष्टदिक्पालसिद्धिर्विश्वकर्मविनिर्मिता ।
सर्वा वैकुण्ठसम्पत्तिर्दृश्यते मोक्षकांक्षिभिः ॥ ९ ॥
हरिः सर्वजनं तत्र नीत्वा योगेन मैथिल ।
पुराद्राममनुज्ञाप्य निर्गतोऽभून्निरायुधः ॥ १० ॥
निरायुधं हरिं ज्ञात्वा मयोक्तैर्लक्षणैः खलः ।
निरायुधः स तं योद्धुं पदातिः स्वयमागतः ॥ ११ ॥
पराङ्मुखं प्राद्रवंतं दुरापं योगिनामपि ।
जिघृक्षुस्तं चान्वधावत्सैनिकानां प्रपश्यताम् ॥ १२ ॥
हस्तप्राप्तं वपुस्तमै दर्शयन्निव माधवः ।
दूरं गतः श्यामलाद्रेः प्राविशत्कंदरं त्वरम् ॥ १३ ॥
मुचुकुन्दो यत्र चास्ते मांधातृतनयो महान् ।
असुरेभ्यः पुरा रक्षां देवानां यश्चकार ह ॥ १४ ॥
अहर्निशं न सुष्वाप देवसेनापरो नृप ।
तमूचुर्देवताः सर्वे प्रसन्ना राजसत्तमम् ॥ १५ ॥
वरं वरय् भो राजन् यत्ते मनसि वर्तते ।
नत्वा तान्प्राह राजेन्द्रः करोमि शयनं परम् ॥ १६ ॥
शयनांते हरेः साक्षाद्दर्शनं मे भवत्वलम् ।
यो मध्ये बोधयेन्मां वै शयानं त्वप्यचेतनम् ॥ १७ ॥
स माया दृष्टमात्रस्तु भस्मीभवतु तत्क्षणात् ।
तथा स चोक्तः सुष्वाप राजा कृतयुगे पुरा ॥ १८ ॥
तत्र प्रविष्टो यवनो मत्त्वा पीतांबरं च तम् ।
तताड यवनः क्रुद्धः पादेनाशु महाखलः ॥ १९ ॥
मुचकुन्दः समुत्थाय शनैरुन्मील्य सोऽक्षिणी ।
आशाः प्रपश्यंस्तं पार्श्वे स्थितं कालं ददर्श ह ॥ २० ॥
स तावत्तस्य रुष्टस्य दृष्टिपातेन मैथिल ।
देहजेनाग्निना दग्धो भस्मसादभवत्क्षणात् ॥ २१ ॥
भस्मीभूते च यवने परिपूर्णतमः स्वयम् ।
स्वरुपं दर्शयामास मुचकुन्दाय धीमते ॥ २२ ॥
कोटिसूर्यप्रतीकाशे ज्योतिषां मण्डले प्रभुम् ।
स्थितं स्फुरत्किरीटार्कं कुण्डलांगदनूपुरम् ॥ २३ ॥
श्रीवत्सांकं चतुर्बाहुं पद्माक्षं वनमालिनम् ।
कोटिकन्दर्पलावण्यं कालमेघसमप्रभम् ॥ २४ ॥
दृष्ट्वा राजा धर्षितोऽपि समुत्थाय कृतांजलिः ।
परिपूर्णतमं ज्ञात्वा भक्त्या तं प्रणनाम ह ॥ २५ ॥
मुचकुन्द उवाच -
कृष्णाय वासुदेवाय देवकिनंदनाय च ।
नंदगोपकुमाराय गोविंदाय नमोनमः ॥ २६ ॥
नमः पंकजनभाय नमः पंकजमालिने ।
नमः पंकजनेत्राय नमस्ते पंकजांघ्रये ॥ २७ ॥
नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने ।
प्रणतक्लेशनाशाय गोविंदाय नमो नमः ॥ २८ ॥
नमोऽस्त्वनंताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटीयुगधारिणे नमः ॥ २९ ॥
हरे मत्समः पातकी नास्ति भूमौ
तथा त्वत्समो नास्ति पापापहारी ।
इति त्वं च मत्वा जगन्नाथ देव
यथेच्छा भवेत्ते तथा मां कुरु त्वम् ॥ ३० ॥
श्रीनारद उवाच -
एवं स्तुतो हरिः साक्षात्परमानन्दविग्रहः ।
ज्ञात्वा तं निर्गुण भक्तं प्राह गंभीरया गिरा ॥ ३१ ॥
श्रीभगवानुवाच -
धन्यस्त्वं राजशार्दूल धन्या ते विमला मतिः ।
नैरपेक्ष्येण दिव्येन भक्तिभावेन पूरिता ॥ ३२ ॥
अद्यैव गच्छ मद्धाम बदर्याख्यं मदाश्रयः ।
तत्रैव तु तपस्तप्त्वा भूत्वा ब्राह्मणपुङ्गवः ॥ ३३ ॥
प्रेमलक्षणया भक्त्या मद्धाम प्रकृतेः परम् ।
प्राप्स्यसि त्वं महाराज यतो नावर्तते गतः ॥ ३४ ॥
श्रीनारद उवाच -
इत्थं स्तुत्वा हरिं नत्वा परिक्रम्य नताननः ।
निश्चक्राम गुहादुर्गाच्छ्रीकृष्णप्रेमविह्वलः ॥ ३५ ॥
द्वापारे क्षुल्लका मर्त्या तालवृक्षशतोच्छ्रितम् ।
दृष्ट्वा तं दुद्रुवुर्मार्गे भयभीता इतस्ततः ॥ ३६ ॥
मा भैष्टेत्यभयं यच्छन् जगाम दिशमुत्तराम् ।
एवं दत्वा वरं तस्मै मुचुकुन्दाय धीमते ॥ ३७ ॥
भगवान् पुनराव्रज्य मथुरां म्लेच्छवेष्टिताम् ।
हत्वा म्लेच्छबलं सर्वं तद्धनान्यच्छिनद्बलात् ॥ ३८ ॥
अथ राजा जरासंधो योद्धुमभ्युदितः पुनः ।
आहूय मागधान्विप्रान्मुहूर्तादेशकारिणः ॥ ३९ ॥
प्रादेहं वासुदेवाख्यं जित्वा यद्यागतो ह्यहम् ।
सर्वान्संपूजयिष्यामि सदा युष्मत्पदाश्रये ॥ ४० ॥
कारागारेषु यावद्वै स्थिता भवत भो द्विजाः ।
पराजितोऽहं वा युष्मान्हनिष्यामि न संशयः ॥ ४१ ॥
एवमुक्त्वा द्विजान् राजा जरासंधो महाबलः ।
आजगामाशु मथुरां त्रयोविंशत्यनीकपः ॥ ४२ ॥
ब्रह्मवाक्यमृतं कर्तुं स्वप्रतिज्ञां विहाय च ।
मनुष्यचेष्टामापन्नौ स्वपुराद्भीतभीतवत् ॥ ४३ ॥
रामकृष्णौ परौ देवौ पद्भ्यां दुद्रुवतुर्द्रुतम् ।
पलायमानौ तौ वीक्ष्य मागधः प्रहसन् भृशम् ॥ ४४ ॥
अन्वधावद्रथानीकैर्ब्रह्मवाक्यमनुस्मरन् ।
दक्षिणाशां गतावित्थं प्रवर्षणगिरौ हरि ॥ ४५ ॥
यस्मिन्निलीनौ ज्ञात्वा तावेधोभिस्तं ददाह ह ।
भस्मीभूते वने जाते दह्यमानतटाद्गिरेः ॥ ४६ ॥
दशैकयोजनोत्तुङ्गात्समुत्पत्य सुरेश्वरौ ।
अलक्ष्यमाणावरिभिर्द्वारकायां निपेततुः ॥ ४७ ॥
सोऽपि दग्धौ च तौ मत्वा मागधेन्द्रो महाबलः ।
मागधान्प्रययौ वीरो वादयञ्जयदुंदुभीन् ॥ ४८ ॥
ब्राह्मणान् पूजयामास भक्त्या परमया नृप ।
यस्य विप्रः सहायोऽस्ति कुतस्तस्य पराजयः ॥ ४९ ॥
इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे द्वारकावासकथनं नाम द्वितियोऽध्यायः ॥ २ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|