| 
श्रीगर्गसंहिता   
द्वारकाखण्डः  -  प्रथमोऽध्यायः  
 जरासन्धपराजयम् -   
 
श्रीनारद उवाच - कृष्णाय वासुदेवाय देवकीनंदनाय च ।
 नंदगोपकुमाराय गोविंदाय नमो नमः ॥ १ ॥
 बहुलाश्व उवाच -
 श्रुतं तव मुखाद्ब्रह्मन्मथुराखंडमद्भुतम् ।
 वद मां द्वारकाखंडं श्रीकृष्णचरितामृतम् ॥ २ ॥
 विवाहाः कति पुत्राश्च कति पौत्रा रमापतेः ।
 सर्वं वद महाबुद्धे द्वारकावासकारणम् ॥ ३ ॥
 श्रीनारद उवाच -
 अस्तिप्राप्ती महिष्यौ द्वे मृते कंसे महाबले ।
 जरासंधगृहं दुःखाज्जग्मतुर्मैथिलेश्वर ॥ ४ ॥
 तन्मुखात्कंसमरणं श्रुत्वा क्रुद्धो जरासुतः ।
 अयादवीं महीं कर्तुमुद्यतोऽभून्महाबलः ॥ ५ ॥
 अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः ।
 रम्यां मधुपुरीं राजन्नाययौ बलवान्नृपः ॥ ६ ॥
 भयातुरां पुरीं वीक्ष्य तत्सेनां सिंधुनादिनीम् ।
 सभायां भगवान्साक्षाद्बलदेवमुवाच ह ॥ ७ ॥
 सर्वं चास्य बलं राम हंतव्यं वै न संशयः ।
 मागधस्तु न हंतव्यो भूयः कर्ता बलोद्यमम् ॥ ८ ॥
 जरासंधनिमित्तेन भारं वै भूभुजा भुवः ।
 सर्वं चात्र हरिष्यामि करिष्यामि प्रियं सताम् ॥ ९ ॥
 एवं वदति कृष्णे वै वैकुंठाच्च रथो शुभौ ।
 अभूतामागतौ राजन् सर्वेषां पश्यतां च तौ ॥ १० ॥
 समारुह्य रथौ सद्यो रामकृष्णौ महाबलौ ।
 यादवानां बलैः सूक्ष्मैस्त्वरं निर्जग्मतुः पुरात् ॥ ११ ॥
 यादवानां मागधानां पश्यद्भिर्दिविजैर्दिवि ।
 बभूव तुमुलं युद्धंमद्भुतं रोमहर्षणम् ॥ १२ ॥
 अक्षौहिणीभिर्दशभी रथारूढो महाबलः ।
 श्रीकृष्णस्य पुरः पूर्वं युयुधे मागधेश्वरः ॥ १३ ॥
 पंचभीश्चाक्षौहिणीभिर्धार्तराष्ट्रः सुयोधनः ।
 युयोध यादवैः सार्द्धं जरासंधसहायकृत् ॥ १४ ॥
 पंचभिश्च तथा राजन् विंध्यदेशाधिपो बली ।
 तिसृभिश्च महायुद्धे बंगनाथो महाबलः ॥ १५ ॥
 एवमन्येऽपि राजानो जरासंधवशानुगाः ।
 प्राणैः सहायं कुर्वन्तो जरासंधस्य मैथिल ॥ १६ ॥
 बाणांधकारे संजाते शत्रुसेनासमाकुले ।
 टंकारं शार्ङ्गधनुषः शार्ङ्गधन्वा चकार ह ॥ १७ ॥
 ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह ।
 विचेलुर्दिग्गजास्तारा एजद्भूखंडमंडलम् ॥ १८ ॥
 तदैव बधिरीभूतं शत्रूणां सैन्यमंडलम् ।
 उत्पतंतो हया युद्धाद्गजास्तु विमुखास्ततः ॥ १९ ॥
 दुद्राव तद्बलं सर्वं टंकाराद्भयविह्वलम् ।
 प्रतीपमेत्य गव्यूतिः पुनस्तत्राजगाम ह ॥ २० ॥
 एवं शार्ङ्ग समुच्चार्य तडीत्पिंगस्फुरत्प्रभम् ।
 बाणौघैश्छादयामास जरासंधबलं हरिः ॥ २१ ॥
 चूर्णीभूता रथा राजन् बाणौघैः शार्ङ्गधन्वनः ।
 चूर्णचक्रा निपेतुः कौ हतसूताश्च नायकाः ॥ २२ ॥
 द्विधाभूता गजा बाणैश्चलिता गजिभिः सह ।
 साश्ववाहास्तथाऽश्चाश्च बाणैः संछिन्नकंधराः ॥ २३ ॥
 तथा वीरा महायुद्धे भिन्नोरश्छिन्नमस्तकाः ।
 विशीर्णकवचाः पेतुर्बाणौघैश्छिन्नसंशया ॥ २४ ॥
 अधोमुखा उर्ध्वमुखाश्छिन्नदेहा नृपात्मजाः ।
 रेजू रणांगणे राजन् भांडव्यूहा इवाहता ॥ २५ ॥
 क्षणमात्रेण तद्युद्धे शतक्रोशविलंबिता ।
 आपगाऽभून्महादुर्गा रुधिरस्रावसंभवा ॥ २६ ॥
 द्वीपग्राहा चोष्ट्रखरकबंधाश्वादिकच्छपा ।
 शिशुमाररथा केशशैवाला भुजसर्पिणी ॥ २७ ॥
 करमीना मौलिरत्नहारकुंडलशर्करा ।
 शस्त्रशुक्तिश्छ्त्रशंखा चामरध्वजसैकता ॥ २८ ॥
 रथांगावर्तसंयुक्ता सेनाद्वयतटावृता ।
 शतयोजनविस्तीर्णा बभौ वैतरणी यथा ॥ २९ ॥
 प्रमथा भैरवा भूता वेताला योगिनीगणाः ।
 अट्टहासं प्रकुर्वंतो नृत्यंतो रणमंडले ॥ ३० ॥
 पिबंतो रुधिरं शश्वत्कपालेन नृपेश्वर ।
 हरस्य मुण्डमालार्थं जगृहुस्ते शिरांसि च ॥ ३१ ॥
 सिंहरूढा भद्रकाली डाकिनीशतसंवृता ।
 पिबंति रुधिरं चोष्णं साऽट्टहासं चकार ह ॥ ३२ ॥
 विद्यधर्यश्च स्वर्गस्था गंधर्व्योऽप्सरस्तथा ।
 क्षात्रधर्मस्थितान्वीरान्वव्रिरे देवरूपिणः ॥ ३३ ॥
 गॄहीत्वा तान्कलिरभूत्तासां पत्यर्थमंबरे ।
 ममानुरूपा तेनैव इति तद्गतचेतसाम् ॥ ३४ ॥
 केचिद्वीरा धर्मपरा रणरंगान्न चालिताः ।
 ययुर्विष्णुपदं दिव्य भित्वा मार्तंडमंडलम् ॥ ३५ ॥
 शेषं बलं समाकृष्य बलदेवो हलेन वै ।
 मुशलेनाहनत् क्रुद्धस्त्रैलोक्यबलधारकः ॥ ३६ ॥
 एवं सैन्ये क्षयं याते जरासंधस्य सर्वतः ।
 सुयुधनो विंध्यनाथो बंगनाथस्तथैव च ॥ ३७ ॥
 सर्वे विदुद्रुवुर्युद्धाद्भयभीता इतस्ततः ।
 जरासंधो महावीर्यो नागायुतसमो बले ॥ ३८ ॥
 रथेनागतवान् राजन् बलदेवस्य संमुखे ।
 समाकृष्य हलाग्रेण जरासंधरथं शुभम् ॥ ३९ ॥
 चूर्णयामास सहसा मुसलेन यदूत्तमः ।
 जरासंधोऽपि विरथो हताश्वो हतसारथिः ॥ ४० ॥
 जग्राह बलिनं दोर्भ्यां संत्यक्त्वा शस्त्रसंहतिम् ।
 तयोर्युद्धमभूद्घोरं बाहुभ्यां रणमंडले ॥ ४१ ॥
 पश्यतां दिवि देवानां नराणां भुवि मैथिल ।
 उरसा शिरसा चैव बाहुभ्यां पादयोः पृथक् ॥ ४२ ॥
 युयुधाते मल्लयुद्धे सिंहाविव महाबलौ ।
 तयोश्च युद्ध्यतोः सर्वं क्षुण्णं भूखंडमंडलम् ॥ ४३ ॥
 स्थालीव सहसा राजंश्चकंपे घटीकाद्वयम् ।
 गृहित्वा भुजदंडाभ्यां जरासंधं यदूत्तमः ॥ ४४ ॥
 भूपृष्ठे पोथयामास कमंडलुमिवार्भकः ।
 रामस्तदुपरि स्थित्वा हंतुं शत्रुं जरासुतम् ॥ ४५ ॥
 जग्राह मुशलं घोरं क्रोधपूरितविग्रहः ।
 परिपूर्णतमेनाथ श्रीकृष्णेन महात्मना ॥ ४६ ॥
 निवारितस्तदैवाशु तं मुमोच यदूत्तमः ।
 तपसे कृतसंकल्पो व्रीडितोऽपि जरासुतः ॥ ४७ ॥
 निवारितो मंत्रिमुख्यैर्मागधान्मागधो ययौ ।
 इत्थं जित्वा जरासंधं माधवो मधुसूदनः ॥ ४८ ॥
 आयोधनगतं वित्तं सर्वं नीत्वा सुखावहम् ।
 यादवानग्रतः कृत्वा बलदेवसमन्वितः ॥ ४९ ॥
 उपगीयमानविजयः सूतमागधबंदिभिः ।
 शंखदुन्दुभिनादेन ब्रह्मघोषेण भूयसा ॥ ५० ॥
 विवेश मथुरां साक्षात्परिपूर्णतमः स्वयम् ॥ ५१ ॥
 समचितो मंगललाजपुष्पैः
 पश्यन्पुरीं मंगलकुंभयुक्ताम् ।
 पीतांबरः श्यामतनुः शुभांगः
 स्फुरत्किरीटांगदकुंडलप्रभः ॥ ५२ ॥
 शार्ङ्गादिशस्त्रास्त्रधरो हसन्मुख-
 स्तालांकयुक्तो गरुडध्वजः स्वयम् ।
 उद्यद्विलोलाश्वरथः सुरार्चितः
 समेत्य राजानमसौ बलिं ददौ ॥ ५३ ॥
 
 इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे जरासंधपराजयो नाम प्रथमोऽध्यायः ॥ १ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
 
 
 GO TOP 
 
 
 |