श्रीगर्गसंहिता
मथुराखण्डः - पञ्चविंशोऽध्यायः
श्रीमथुरामाहात्म्यवर्णनम् -
बहुलाश्व उवाच -
अकस्मादागते रामे तत्र तीर्थमिदं श्रुतम् ।
अहो मधुपुरी धन्या यत्र सन्निहितश्च सः ॥ १ ॥
मथुरायास्तु को देवः कः क्षत्ता कश्च रक्षति ।
कश्चारः को मंत्रिवरः कैर्भूमिस्तत्र सेविता ॥ २ ॥
श्रीनारद उवाच -
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् हरिः ।
स्वयं हि मथुरानाथः केशवः क्लेशनाशनः ॥ ३ ॥
साक्षाद्भगवता प्राप्तः कपिलाय द्विजाय च ।
कपिलः प्रददौ यं वै प्रसन्नः शतमन्यवे ॥ ४ ॥
जित्वा देवान् राक्षसेन्द्रो रावणो लोकरावणः ।
यं स्तुत्वा पुष्पके स्थाप्य लंकायां तमपूजयत् ॥ ५ ॥
जित्वा लंकां राघवेन्द्रस्तमानीय प्रयत्नतः ।
अयोध्यायां च वाराहमर्चयामास मैथिल ॥ ६ ॥
स्तुत्वा रामं च शत्रुघ्नो यमनीय प्रयत्नतः ।
मथुरायां महापुर्यां स्थापयित्वा ननाम ह ॥ ७ ॥
सेवितो माथुरैः सर्वेः सर्वेषां च वरप्रदः ।
साक्षात्कपिलवाराहः सोऽयं मंत्रिवरः स्मृतः ॥ ८ ॥
क्षत्ता श्रीमथुरायाश्च नाम्ना भूतेश्वरः शिवः ।
दत्त्वा दण्डं पातकिने भक्त्यर्थान्मंत्रतां व्रजत् ॥ ९ ॥
चण्डिका तु महाविद्या देवी दुर्गार्तिनाशिनी ।
सिंहारूढा सदा रक्षां मथुरायाः करोति हि ॥ १० ॥
चारोऽहं मथुरायाश्च पश्यँल्लोकानितस्ततः ।
वदामि वार्तां सर्वेषां श्रीकृष्णाय महात्मने ॥ ११ ॥
मध्ये वै मथुरा देवी शुभदा करुणामयी ।
बुभुक्षितेभ्यः सर्वेभ्यो ददात्यन्नं विदेहराट् ॥ १२ ॥
चतुर्भुजा श्यामलांगा व्रजंति प्रव्रजन्ति च ।
मथुरायां मृतं नेतुं विमानैः कृष्णपार्षदाः ॥ १३ ॥
श्रीकृष्णस्यांगसंभूता मथुरा वै महापुरी ।
यस्या दर्शनमात्रेण नरो याति कृतार्थताम् ॥ १४ ॥
पुरा विधिः श्रीमथुरामुपेत्य
तप्त्वा तपो वर्षशतं निरन्नः ।
जपन्हरीं ब्रह्म परं स्वयम्भूः
स्वायम्भुवं प्राप सुतं प्रवीणम् ॥ १५ ॥
भूतेश्वरो देववरः सतीपति-
स्तप्त्वा तपो दिव्यशरन्मधोर्वने ।
कृष्णप्रसादान्नृपराज सत्वरं
तस्याः पुरे माथुरमण्डलस्य ॥ १६ ॥
कृष्णप्रसादादहमेव चारो
भ्रमन्सदा माथुरमण्डलस्य ।
तथा हि दुर्गा मथुरां प्रयाति
श्रीकृष्णदास्यं प्रकरोति नूनम् ॥ १७ ॥
तप्त्वा तपः शक्रपदं च शक्रः
सूर्यो मनुं नित्यनिधिं कुबेरः ।
पाशी च पाशं समवाप्य सम्य-
ङ्मधोर्वने विष्णुपदं ध्रुवश्च ॥ १८ ॥
तथांबरीषः समवाप मुक्तिं
सोमोऽक्षयं वा लवणाज्जयं च ।
रघुश्च सिद्धिं किल चित्रकेतु-
स्तप्त्वा तपोऽत्रैव मधोर्वने च ॥ १९ ॥
तप्त्वा तपोऽत्रैव मधोर्वने शुभे
भूत्वा बलिष्ठश्च मधुर्महासुरः ।
श्रीमाधवे मासि च माधवेन
युयोध युद्धे मधुसूदनेन सः ॥ २० ॥
सप्तर्षयः श्रीमथुरां समेत्य
तप्त्वा तपोऽत्रैव च योगसिद्धिम् ।
प्रापुः परे वै मुनयः समंता-
द्गोकर्णवैश्योऽपि महानिधिं च ॥ २१ ॥
तप्त्वा तपोऽत्रैव मधोर्वने शुभे
विजित्य देवान् दिवि लोकरावणः ।
निधाय रक्षांसि विधाय मंदिर-
मास्थाय लंकां विरराज रावणः ॥ २२ ॥
तप्त्वा तपोऽत्रैव मधोर्वने शुभे
गजाह्वयेशो मिथिलेश शंतनुः ।
लेभे सुतं भीष्ममतीव सत्तम
तत्वार्थवारांनिधिकर्णधारकम् ॥ २३ ॥
बहुलाश्व उवाच -
मथुरायाश्च माहात्म्यं वद देवर्षिसत्तम् ।
निवासे किं फलं प्रोक्तं मथुरायाः सतां नृणाम् ॥ २४ ॥
श्रीनारद उवाच -
आदौ वराहो धरणीं निमग्नां
महाजले प्रोज्झितवीचिशंके ।
स्वदंष्ट्रयोद्धृत्य करीव पद्मं
करेण माहात्म्यमिदं जगाद ॥ २५ ॥
ब्रुवञ्जनो नाम फलं हरेर्लभेत्
शृण्वँल्लभेत्कृष्णकथाफलं नरः ।
स्पृशन्सतां स्पर्शनजं मधोः पुरि
जिघ्रंस्तुलस्या दलगंधजं फलम् ॥ २६ ॥
पश्यन्हरेर्दर्शनजं फलं स्वतो
भक्षंश्च नैवेद्यभवं रमापतेः ।
कुर्वन् भुजाभ्यां हरिसेवया फलं
गच्छँल्लभेत्तीर्थफलं पदे पदे ॥ २७ ॥
राजेंद्रहंता निजगोत्रघातकी
त्रैलोक्यहंताऽपि च कोटिजन्मसु ।
राजञ्छृणु त्वं मथुरानिवासतो
योगीश्वराणां गतिमाप्नुयान्नरः ॥ २८ ॥
पादौ च धिग्यौ न गतौ मधोर्वनं
दृशौ च धिग्ये न कदापि पश्यतः ।
कर्णौ च धिग्यौ शृणुतो न मैथिल
वाचं च धिग्या न करोत्यलं मनाक् ॥ २९ ॥
द्विसप्तकोटीनि वनानि यत्र
तीर्थानि वैदेह समास्थितानि ।
एकैकमेतेषु विमुक्तिदानि
वदामि साक्षान्मथुरां नमामि ॥ ३० ॥
गोलोकनाथः परिपूर्णदेवः
साक्षादसंख्याण्डपतिः स्वयं हि ।
श्रीकृष्णचंद्रोऽवततार यस्यां
तस्यै नमोऽन्यासु पुरीषु किं वा ॥ ३१ ॥
यन्नाम पापं विनिहंति तत्क्षणं
भवत्यलं यां गृणतोऽपि मुक्तयः ।
वीथीषु वीथीषु च मुक्तिरस्याः
तस्मादिमां श्रेष्ठतमां विदुर्बुधाः ॥ ३२ ॥
काश्यादिपुर्यो यदि सन्ति लोके
तासां तु मध्ये मथुरैव धन्या ।
या जन्ममौंजीव्रतमत्युदारै-
र्नृणां चतुर्धा विदधाति मुक्तिम् ॥ ३३ ॥
पुरीश्वरीं कृष्णपुरीं व्रजेश्वरीं
तीर्थेश्वरीं यज्ञतपोनिधीश्वरीम् ।
मोक्षप्रदां धर्मधुरंधरां परां
मधोर्वने श्रीमथुरां नमाम्यहम् ॥ ३४ ॥
शृण्वन्ति माहात्म्यमिदं मधोः पुरः
कृष्णैकचित्ता नियताश्च यत्र ये ।
व्रजंति ते तत्र परिक्रमात्फलं
वैदेह राजेन्द्र न चात्र संशयः ॥ ३५ ॥
खण्डं त्विदं श्रीमथुरापुरस्य ये
शृण्वन्ति गायंति पठन्ति सर्वतः ।
इहैव तेषां हि समृद्धिसिद्धयो
भवन्ति वैदेह निसर्गतः सदा ॥ ३६ ॥
त्रिःसप्तकृत्वो बहुवैभवार्थिनः
शृण्वन्ति चैनं नियताश्च ये भृशम् ।
तेषां गृहद्वारमलंकरोति हि
भृंगावली कुञ्जरकर्णताडिता ॥ ३७ ॥
विप्रोऽथ विद्वान् विजयी नृपात्मजो
वैश्यो निधीशो वृषलोऽपि निर्मलः ।
श्रुत्वेदमाराच्च मनोरथो भवेत्
स्त्रीणां जनानामतिदुर्लभोऽपि हि ॥ ३८ ॥
निष्कारणो भक्तियुतो महीतले
शृणोति चेदं हरिलग्नमानसः ।
विजित्य विघ्नान् प्रविजित्य नाकपान्
गोलोकधामप्रवरं प्रयाति सः ॥ ३९ ॥
इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे मथुरामाहात्म्यं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|