श्रीगर्गसंहिता
मथुराखण्डः - चतुर्विंशोऽध्यायः
कोलनामकदैत्यस्य वधम् -
बहुलाश्व उवाच -
गोपीनां चैव गोपानां दत्वा संदर्शनं परम् ।
मधुरायां किं चकार श्रीकृष्णो राम एव च ॥ १ ॥
चरित्रं परमं मिष्टं श्रीकृष्णबलदेवयोः ।
सर्वपापहरं पुण्यं चतुर्वर्गफलप्रदम् ॥ २ ॥
श्रीनारद उवाच -
अन्यच्चरित्रं शृणुताच्छ्रीकृष्णबलदेवयोः ।
सर्वपापहरं पुण्यं चतुर्वर्गफलप्रदम् ॥ ३ ॥
कोलेन पीडिता लोकाः कौशारविपुरान्नृप ।
मथुरामाययुः सर्वे सद्विजा दीनमानसाः ॥ ४ ॥
अश्वमाशु समारुह्य रोहिणीनन्दनो बलः ।
स्वल्पैः पुरःसरैः सार्द्धं मृगयार्थी विनिर्गतः ॥ ५ ॥
तं नत्वाऽभ्यर्च्य विधिवत्तदंघ्र्योः पतिताः पथि ।
कृतांजलिपुटा ऊचुर्हर्षगद्गदया गिरा ॥ ६ ॥
प्रजा ऊचुः -
राम राम महाबाहो देवदेव महाबल ।
कोलेन पीडिताः सर्व आगताः शरणं वयम् ॥ ७ ॥
दैत्यः कंससखः कोलो जित्वा कौशारविं नृपम् ।
कौशारवेः पुरे राज्यं करोति स महाबलः ॥ ८ ॥
कौशारविस्तद्भयाद्धि गंगातीरं गतो नृपः ।
राज्यार्थं त्वत्पदांभोजं भजते सुजितेन्द्रियः ॥ ९ ॥
तत्सहायं कुरु विभो वयं यस्य प्रजाः शुभाः ।
पुत्रवत्पालितास्तेन महासौख्यसमन्विताः ॥ १० ॥
कोलेनाद्यैव दुष्टेन पीडिताः सततं प्रभो ।
त्रैलोक्यविजयी वीरः कंसोऽपि निहतस्त्वया ॥ ११ ॥
कोले जीवति देवेन्द्र कंसोऽपि न मृतः स्मृतः ।
रक्षार्थं सगुणोऽसि त्वं भक्तानां प्रकृतेः परः ॥ १२ ॥
श्रीनारद उवाच -
इति श्रुत्वा वचस्तेषां श्रीरामो भक्तवत्सलः ।
गंगायमुनयोर्मध्ये कौशांबीं नगरीं ययौ ॥ १३ ॥
योद्धुं समागतं रामं श्रुत्वा कोलोऽपि निर्गतः ।
अक्षौहिणीभिर्दशभिर्मण्डितश्चण्डविक्रमः ॥ १४ ॥
चञ्चलाश्वतरंगाढ्यां रथेभाश्वतिमिङ्गिलाम् ।
नदीमिवागतां सेनां प्रलयार्णवनादिनीम् ॥ १५ ॥
वीरावर्तां च तां वीक्ष्य बद्ध्वा सेतुं हलं बलः ।
आकृष्य तां तदग्रेण मुसलेनाहनद् दृढम् ॥ १६ ॥
युगपत्तत्प्रहारेण वीरा अश्वा रथा गजाः ।
सर्वतः कोटिशः पेतुः पेशिताः फलवद्रणे ॥ १७ ॥
शेषा प्रदुद्रुवुर्वीरा भयार्ता रणमंडलात् ।
एकाकी युयुधे दैत्यः कोलो रामेण शस्त्रभृत् ॥ १८ ॥
गोमूत्रचयसिंदूरकस्तूरीपत्रभृन्मुखम् ।
सुवर्णशृङ्खलायुक्तं प्रखचित्कटिबंधनम् ॥ १९ ॥
स्रवन्मदं चतुर्दंतं घंटाटंकारभीषणम् ।
प्रोन्नतं दिग्गजमिव नदत्कालघनप्रभम् ॥ २० ॥
शितमंकुशमादाय कोल आरुह्य कर्णतः ।
स्वगजं नोदयामास बलदेवाय दैत्यराट् ॥ २१ ॥
आगतं वीक्ष्य तं नागं मत्तं कोलेन नोदितम् ।
तताड मुसलेनासौ वज्रेणेन्द्रो यथा गिरिम् ॥ २२ ॥
मुसलस्य प्रहारेण विशीर्णोऽभून्महागजः ।
मृद्घटो नैकधैवाशु दंडघातेन मैथिल ॥ २३ ॥
कोलः क्रोडमुखो दैत्यो रक्ताक्षः पतितो गजात् ।
शूलं चिक्षेप निशितं माधवाय महात्मने ॥ २४ ॥
मुसलेन तदा रामस्तच्छूलं शतधाऽच्छिनत् ।
काचपात्रं यथा बालो दंडेन च विदेहराट् ॥ २५ ॥
सहस्रभारसंयुक्तां गदां गुर्वीं प्रगृह्य च ।
बलं तताड हृदये जगर्ज घनवत्खलः ॥ २६ ॥
तद्गदायाः प्रहारेण न चचाल यदूद्वहः ।
पश्यतां सर्वलोकानां स्रजा हत इव द्विपः ॥ २७ ॥
तमाकृष्य हलाग्रेण कोलं कज्जलवत्तनुम् ।
मुसलेनाहनन्मूर्ध्नि बलदेवो महाबलः ॥ २८ ॥
मुसलाहतमूर्द्धाऽपि पतितो रणमंडले ।
मुष्टिघातं घातयित्वा तत्रैवांतरधीयत ॥ २९ ॥
चकार मायां मायवी दैतेयीमतिभीषणाम् ।
प्रलयप्रभवैर्मेघैर्महावातप्रणोदितैः ।
अंधकारं प्रकुर्वद्भिरभूदाच्छादितं नभः ॥ ३० ॥
जपापुष्पसमान् बिंदूनजस्रं रुधिरस्य च ।
मोचयित्वाऽथ बीभत्सवर्षाश्चक्रुर्घनाघनाः ॥ ३१ ॥
पूयमेदोऽतिविण्मूत्रसुरामांससमन्विताः ।
दृष्ट्वा ताभिश्च वर्षाभिर्हाहाकारो बभूव ह ॥ ३२ ॥
ज्ञात्वाऽथ तत्कृतां मायां बलदेवो महाप्रभुः ।
चिक्षेप मुसलं दीर्घं परसैन्यविदारणम् ॥ ३३ ॥
सर्वास्त्रघातकं स्वच्छमष्टधातुमयं दृढम् ।
शतयोजनविस्तीर्णं प्रलयाग्निसमप्रभम् ॥ ३४ ॥
बलास्त्रं मुसलं रेजे भ्रमद्दशदिगंतरे ।
विदारयद्घनान्व्योम्नि नीहारं च यथा रविः ॥ ३५ ॥
तद्व्योम्नि प्रगतं दृष्ट्वा हलास्त्रं च स्वतः प्रभुः ।
समुत्पत्याकृष्य बलान्मध्ये तान्विददार ह ॥ ३६ ॥
नाशं गतयां मायायां बलदेवो महाबलः ।
गृहित्वा भुजदण्डाभ्यां भुजदण्डे मदोकत्टे ॥ ३७ ॥
भ्रामयन्बाल इव तं प्रतूलं स इतस्ततः ।
पातयामास भूपृष्ठे कमण्डलुमिवार्भकः ॥ ३८ ॥
तस्य दैत्यस्य पातेन साब्धिशैलवनेः सह ।
चकम्पे नाडिकामात्रं सर्वं भूखण्डमण्डलम् ॥ ३९ ॥
भग्नदंतश्चलन्नेत्रो मूर्छितो निधनं ययौ ।
कोलो नाम महादैत्यो वृत्रो वज्रहतो यथा ॥ ४० ॥
तदा जयजयारावो दिवि भूमौ बभूव ह ।
देवदुन्दुभयो नेदुः पुष्पवर्षाः सुरैः कृताः ॥ ४१ ॥
इत्थं कोलं घातयित्वा बलदेवोऽच्युताग्रजः ।
दत्वाऽथ कौषारवये कौशांबीं च पुरीं ततः ॥ ४२ ॥
स्नातुं भागीरथीं प्रागाद् गर्गाचार्यादिभिर्वृतः ।
लोकानां संग्रहं कर्तुं सर्वदोषक्षयाय च ॥ ४३ ॥
स्नापयां चक्रुरार्यास्ते गंगायां माधवं बलम् ।
वेदमंत्रैर्मंगलैश्च गर्गाचार्यादयो द्विजाः ॥ ४४ ॥
लक्षं गजानां वैदेह स्यंदनानां द्विलक्षकम् ।
हयानां च तथा कोटिं धेनूनामर्बुदं दश ॥ ४५ ॥
शतार्बुदं च रत्नानां भारं जांबूनदावृतम् ।
रामो दत्वा ब्राह्मणेभ्यः प्रययौ मथुरां पुरीम् ॥ ४६ ॥
यत्र रामेण गंगायां कृतं स्नानं विदेहराट् ।
तत्र तीर्थं महापुण्यं रामतीर्थं विदुर्बुधाः ॥ ४७ ॥
कार्तिक्यां कार्तिके स्नात्वा रामतीर्थे तु जाह्नवीम् ।
‘हरिद्वाराच्छतगुणं पुण्यं वै लभते जनः ॥ ४८ ॥
बहुलाश्व उवाच -
कौशांबेश्च कियद्दूरं स्थले कस्मिन्महामुने ।
रामतीर्थं महापुण्यं मह्यं वक्तुं त्वमर्हसि ॥ ४९ ॥
श्रीनारद उवाच -
कौशांबेश्च तदीशान्यां चतुर्योजनमेव च ।
वायव्यां सूकरक्षेत्राच्चतुर्योजनमेव च ॥ ५० ॥
कर्णक्षेत्राच्च षट्क्रोशैर्नलक्षेत्राच्च पञ्चभिः ।
अग्नेय्यां दिशि राजेन्द्र रामतीर्थं वदंति हि ॥ ५१ ॥
वृद्धकेशीसिद्धपीठाद् बिल्वकेशवनात्पुनः ।
पूर्वस्यां च त्रिभिः क्रोशै रामतीर्थं विदुर्बुधाः ॥ ५२ ॥
दृढाश्वो वंगराजोऽभूत्कुरूपं लोमशं मुनिम् ।
दृष्ट्वा जहास सततं शशाप स महामुनिः ॥ ५३ ॥
विकरालः क्रोडमुखोऽसुरो भव महाखल ।
इत्थं स मुनिशापेन कोलः क्रोडमुखोऽभवत् ॥ ५४ ॥
बलदेवप्रहारेण त्यक्त्वा स्वामासुरीं तनुम् ।
कोलो नाम महादैत्यः परं मोक्षं जगाम ह ॥ ५५ ॥
ततो रामो मन्त्रिभिश्च उद्धवादिभिरन्वितः ।
जह्नुतीर्थं जगामाशु यत्र दक्षः श्रुतेरभूत् ॥ ५६ ॥
गंगा ब्राह्मणमुख्यस्य जाह्नवी येन कथ्यते ।
दत्वा दानं द्विजातिभ्य ऊषू रात्रौ जनैः सह ॥ ५७ ॥
ततस्तत्पश्चिमे भागे पाण्डवानामतिप्रियम् ।
आहारस्थानकं प्राप्य रात्रौ वासं चकार ह ॥ ५८ ॥
तत्र दानं द्विजातिभ्यो दत्वा सद्गुणभोजनम् ।
ततो योजनमेकं च देवं माण्डूकसंज्ञकम् ॥ ५९ ॥
तपस्तप्तं महत्तेन चांते देवकृपाप्तये ।
तदर्थं स्वसमाजे न बलदेवो जगाम ह ॥ ६० ॥
ऊर्ध्वास्यमेकपादस्थं ध्यानस्तिमितलोचनम् ।
स्वभक्तं हृदयस्थं स्वं मूर्तिदर्शनलोलुपम् ॥ ६१ ॥
तां जहार तदानन्तस्ततो बाह्ये ददर्श ह ।
स दृष्ट्वाऽनन्तदेवस्य रूपं परमसुन्दरम् ॥ ६२ ॥
स्रग्व्येककुण्डलं गौरं तालांकरथसंयुतम् ।
स्तुत्वा परमया भक्त्या पपात चरणौ पुनः ॥ ६३ ॥
तस्य शीर्ष्णि करं दत्त्वा वरं ब्रूहीत्युवाच ह ।
यदि प्रसन्नो भगवाननुग्राह्योऽस्मि वा यदि ॥ ६४ ॥
सर्वोत्तमां भागवतीं संहितां शुकवक्त्रतः ।
निर्गतां देहि मे स्वामिन्कलिदोषहरां पराम् ॥ ६५ ॥
बलदेव उवाच -
उद्धवद्वारतः प्राप्तिर्भविष्यति तवानघ ।
श्रीमद्भागवती कीर्तिरधिका या कलौ युगे ॥ ६६ ॥
मांडूक उवाच -
कथं भगवता दत्ता मुख्या तस्याधिकारिता ।
कदा योगं मम स्वामिन् कुरु सन्देहभञ्जनम् ॥ ६७ ॥
बलदेव उवाच -
कथयामि परं गोप्यं रहस्यं परमाद्भुतम् ।
अद्यापि मम सामीप्ये उद्धवोऽयं विराजते ॥ ६८ ॥
तद्दर्शनं कुरु परमाचार्यसंप्रदायकम् ।
अद्य तीर्थस्य यात्रायामुपदेशो न ते भवेत् ॥ ६९ ॥
यथोपदेष्टा भवति तेन ते कथयाम्यहम् ।
उद्धवः स्थापितः श्रीमदाचार्यः संहितामयः ॥ ७० ॥
नन्दादिव्रजवासीनां गोपीनां प्रीतये कृतः ।
स्वस्वरूपं परिकरं यत्किञ्चिद् भगवत्तमम् ॥ ७१ ॥
सर्वस्वभावगुणकं कृष्णेन परमात्मना ।
उद्धवं चैव स्वात्मनमेक एवाचरद्विभुः ॥ ७२ ॥
साक्षात्कारं चकारादौ न स्वीयमन्तरं क्वचित् ।
श्रीकृष्णमेव ते ज्ञात्वा पूजयामासुरादरात् ॥ ७३ ॥
वसन्तर्तुश्च ग्रीष्मोऽपि स चचार व्रजात्मकौ ।
शमयामास राधायाः शोकं तत्कुण्डपार्श्वजः ॥ ७४ ॥
सर्वं भूमण्डलं तत्र विचचार व्रजानुगैः ।
वियोगार्तिहरः प्रोक्तो गवां नन्दादिगोपिनाम् ॥ ७५ ॥
मन्त्राधिकारकुशलः सर्वः परिकराग्रणीः ।
अथांतर्धानवेलयां भगवान्धर्मगुप्तनुः ॥ ७६ ॥
तस्मै स्वतेजसमपि दास्यते परमाद्भुतम् ।
मुद्राधिकारं सर्वत्र सर्वदैव विराजते ॥ ७७ ॥
अन्तर्धाने तु स्वस्थाने दत्ता तस्याधिकारिता ।
बदरीस्थं सपरिकरं धर्मजं बोधयिष्यति ॥ ७८ ॥
अर्जुनादिवियोगार्तिहारी सैव भविष्यति ।
वज्रनाभो यादवानां माथुरे संभविष्यति ॥ ७९ ॥
श्रीकृष्णस्यैव पौत्रेषु महाराज्ञीगणेषु च ।
वियोगार्तिहरश्चैव स्थाप्यते श्रीहरिः स्वयम् ॥ ८० ॥
कौरवाणां कुले राजा परिक्षिदिति विश्रुतः ।
तस्य पुत्रोऽतितेजस्वी विख्यातो जनमेजयः ॥ ८१ ॥
पितुः शत्रुहणं यज्ञं करिष्यति न संशयः ।
तस्यापि सर्वसामग्री ह्युद्धवद्वारतो भवेत् ॥ ८२ ॥
श्रीमद्भागवतं दिव्यं पुराणवाचनं तदा ।
गौरान्वयस्य संप्राप्तिर्भविष्यति न संशयः ॥ ८३ ॥
श्रीमत्प्रसादाद्विप्रर्षेर्महाभागवतोत्तमात् ।
तद्द्वारा सर्पयज्ञस्य निवृत्तिः संभविष्यति ॥ ८४ ॥
यज्ञसंस्कारकर्तॄणां ब्राह्मणानां च पूजनम् ।
स दास्यति महाराज ग्रामाणां शतकं तदा ॥ ८५ ॥
ततस्त्वाचार्य्यवर्यस्य श्रीप्रसादस्य चाज्ञया ।
स गन्ता सूकरक्षेत्रं मासमेकं स्थितोऽभवत् ॥ ८६ ॥
दत्वा दानान्यनेकानि गोमहीगजवाजिनः ।
रत्नं वासो ब्राह्मणेभ्यो भोजनं च यदृच्छया ॥ ८७ ॥
ततस्तस्मात्स्थलात्सोऽपि निर्वर्त्य गुरुणा सह ।
गंगातीरस्थलान् पश्यन्नागमिष्यति सद्वृतः ॥ ८८ ॥
शयाननगरे संस्थां करिष्यति सहानुगः ।
श्रीगुरोराज्ञया तत्र सामग्रीं साधनैः सह ॥ ८९ ॥
अश्वमेधं करोति स्म सर्वजेता भविष्यति ।
एकच्छत्रधरो भूत्वा श्रीगुरोः शरणं गतः ॥ ९० ॥
ततो गङ्गातटे रम्ये पूर्वस्यां क्रोशपञ्चके ।
परमैकांतरूपेण सेवनं तत्करिष्यति ॥ ९१ ॥
तत्र भागवती वार्ता भवरोगविनाशिनी ।
भविष्यति मुदा युक्ता समाजेषु सुधर्मिणाम् ॥ ९२ ॥
तत्र पूर्णसमाजेषु तेषां मध्ये भवानपि ।
शृणोषि भगवद्धर्मं गन्ता श्रीनिर्मलं पदम् ॥ ९३ ॥
तपस्तप्तं मदर्थं ते तस्मादेतत्प्रकाशितम् ।
एवं देवं वरं दत्त्वा गतो रामः सहानुगः ॥ ९४ ॥
शयाननगराच्छुद्धादीशान्यां दिशि संस्थितम् ।
स्थानं गंगातटे रम्यं कण्टकादुत्तरेऽभवत् ॥ ९५ ॥
पुष्पवत्या दक्षिणे तु क्रोशैकं विस्तरेण च ।
तत्र संकर्षणो देवः स्थित्वा दानपरोऽभवत् ॥ ९६ ॥
घोटकं दशसाहस्रं रथानां शतकं तथा ।
द्विपं सहस्रं गाश्चैव दिक्सहस्रं ददौ मुदा ॥ ९७ ॥
तत्र संकर्षणं देवं पूजयामासुरादरात् ।
देवाः समाययुः सर्वे ऋषयश्च तपोधनाः ॥ ९८ ॥
नमः कोलेशघाताय खरासुरविघातिने ।
हलायुध नमस्तेऽस्तु मुसलास्त्राय ते नमः ।
नमः सौंदर्यरूपाय तालांकाय नमो नमः ॥ ९९ ॥
इतिश्रुत्वा स्तुतिं तेषां संकर्षण उवाच ह ।
वरं ब्रुवन्तु वः सर्वे भवतां यदभीप्सितम् ॥ १०० ॥
द्विजदेवा ऊचुः -
यदा यदा वयं युक्ताः स्मरामो भवतः पदम् ।
सर्वबाधाविनिर्मुक्ता भवामश्च तवाज्ञया ॥ १०१ ॥
राम उवाच -
यदा यदा मां स्मरथ तदाऽहं शरणागतान् ।
रक्षिता स्यां कलौ नूनमिति सत्यं वचो मम ॥ १०२ ॥
अत्र स्थले वरं प्राप्तं पूजितं मुनिपुंगवैः ।
अतः संकर्षणस्थानं भविष्यति कलौ युगे ॥ १०३ ॥
यस्मिन् स्नास्यंति गंगायां देवान्संपूजयंति ये ।
दास्यन्ति दानं विप्रेभ्यो भोजनं कारयंति ये ॥ १०४ ॥
विष्णुं सम्पूजयंति स्म सफ़लं जीवितं क्षितौ ।
ते यांति दैवतस्थानं कामी प्राप्नोति कामनाम् ॥ १०५ ॥
ततः परिवृतो रामः स्वां पुरीं संजगाम ह ।
कोलरक्षोवधं कृत्वा स्नात्वा विष्णुपदीजले ॥ १०६ ॥
रामस्य बलदेवस्य कथां यः शृणुयान्नरः ।
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ १०७ ॥
इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे कोलदैत्यवधो नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
GO TOP
|