श्रीगर्गसंहिता

मथुराखण्डः - त्रयोविशोऽध्यायः

नन्दव्रजात् कृष्णस्य मथुरा प्रत्यागमनम् -


श्रीनारद उवाच -
श्रीकृष्णो भगवान् साक्षाद्‌व्रजे कति दिनानि च ।
स्थित्वा स्वदर्शनं दत्त्वा मथुरां गंतुमुद्यतः ॥ १ ॥
नंदान्नवोपनंदांश्च वृषभानून्व्रजेषु षट् ।
वृषभानुवरं चैव नंदराजं व्रजेश्वरम् ॥ २ ॥
कलावतीं यशोदां च गोपीर्गोपान्गवां गणान् ।
मिलित्वाऽऽश्वास्य ज्ञानं च दत्वाऽनुज्ञाप्य माधवः ॥ ३ ॥
रथमारुह्य दिव्याभं चञ्चलाश्वनियोजितम् ।
मथुरां गंतुकामोऽसौ निर्गतो नंदगोकुलात् ॥ ४ ॥
दूरं तमनुगाः सर्वे मोहिता व्रजवासिनः ।
न सेहिरे कष्टतरं विरहं माधवस्य हि ॥ ५ ॥
युगपद्दर्शनं विष्णोर्दुसहं भूमिमण्डले ।
येषां नित्यं हि भवति तेषां तु किमु वर्णनम् ॥ ६ ॥
वीक्षतः श्रीधरमुखं नेत्रेरमिषैर्नृप ।
सर्वे वै स्नेहसंबंधात् तमूचुः प्रेमविह्वलाः ॥ ७ ॥
गोपा ऊचुः -
शीघ्रमागच्छ हे कृष्ण सर्वान्नो व्रजवासिनः ।
पाहि संदर्शनं देहि देवेभ्यो ह्यमृतं यथा ॥ ८ ॥
त्वमेव सर्वदा देव यशोदानंददायकः ।
श्रीनंदनंदनस्त्वं वै जीवनं व्रजवासिनाम् ॥ ९ ॥
व्रजे धनं कुले दीपो मोहनो महतामपि ।
यथा निदाघदग्धस्य प्राप्तं वै शीतलं जलम् ॥ १० ॥
शीतार्तस्य यथा वह्निर्ज्वरार्तस्य यथौषधम् ।
मृतस्य मानवस्यापि पीयूषं मंगलं यथा ॥ ११ ॥
तथा व्रजस्य सर्वस्य जीवनं तव दर्शनम् ।
तस्मादत्र स्थितिं कुर्या बहुना कथितेन किम् ॥ १२ ॥
यन्नोऽस्ति किंचित्सुकृतमस्मिन्वा पूर्वजन्मनि ।
तत्फलेन सदा चेतो भूयात्त्वत्पादपंकजे ॥ १३ ॥
येषां चेतस्त्वत्पदाब्जे ते भक्तास्त्वत्प्रियाः सदा ।
भक्तार्थं सगुणोऽसि त्वं निर्गुणः प्रकृतेः परः ॥ १४ ॥
तव भक्तात्प्रियो नास्ति शिवो ब्रह्मा न चेंदिरा ।
विसृज्य पारमेष्ठ्यादि निष्कामास्त्वां भजंति ये ।
नैरपेक्ष्यं सुखं शांतं ते विदुर्युक्तचेतसः ॥ १५ ॥
श्रीनारद उवाच -
एवमुक्त्वाऽथ ते सर्वे रुरुदुः प्रेमविह्वलाः ।
आनंदाश्रूणि मुंचंतः श्रीकृष्णस्य प्रपश्यतः ॥ १६ ॥
अश्रुपूर्णमुखः कृष्णो भगवान् भक्तवत्सलः ।
गोपानाह प्रसन्नात्मा नतान् विरहविह्वलान् ॥ १७ ॥
श्रीभगवानुवाच -
मत्प्राणा मत्प्रिया यूयं सर्वे वै व्रजवासिनः ।
हृदयं मेऽस्ति युष्मासु देहोऽन्यत्र विलक्ष्यते ॥ १८ ॥
मासं प्रत्यागमिष्यामि युष्मान्द्रष्टुं वचो मम ।
मनसा न हि दूरेऽस्मि मनः सर्वस्य कारणम् ॥ १९ ॥
हे गोपा यदुभिर्योद्धुमागतो हि जरासुतः ।
यदूनां तु सहायार्थं यामि माभूच्छुचश्च वः ॥ २० ॥
श्रीनारद उवाच -
एवमाश्वास्य तान् देवः सन्निर्वृत्य पुनः पुनः ।
रथे द्वितीये संस्थाप्य नंदराजं यशोदया ॥ २१ ॥
श्रीदामादीन्सखीन्नीत्वा भगवान् रथमास्थितः ।
सोद्धवो मथुरां प्रागात्सर्वकारणकारणः ॥ २२ ॥
यावद्‌रथश्चाश्वशतं सुवेगं
     केतुस्त्रिवर्णः प्रचलत्पताकः ।
आलक्ष्यते वीर रजश्च तावत्
     स्थित्वाऽन्य आजग्मुरतः सकाशम् ॥ २३ ॥
श्रीकृष्णचन्द्रस्य परं चरित्रं
     नृणां महापापहरं विचित्रम् ।
श्रृणोति यो भक्तवरः पृथिव्यां
     गोलोकलोकं स च याति सम्यक् ॥ २४ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
व्रजयात्रायां श्रीकृष्णागमनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP