श्रीगर्गसंहिता

मथुराखण्डः - द्वाविंशोऽध्यायः

नारदोपाख्यानवर्णनम् -


श्रीभगवानुवाच -
कस्मै देयमिदं गुह्यं रागरूपं मनोहरम् ।
बुद्ध्या विचारयन्नित्थं गंधर्वनगरं ययौ ॥ १ ॥
तुंबरुं नाम गंधर्वं कृत्वा शिष्यं स नारदः ।
कलं जगौ मद्‍गुणांश्च वीणावाद्यपरायणः ॥ २ ॥
केषामग्रे गेयमिदं रागरूपं मनोहरम् ।
श्रोतुं पात्रं विचिन्वन्स नारदः शक्रमाययौ ॥ ३ ॥
अनिर्वृतं च तं दृष्ट्वा नारदो मुनिसत्तमः ।
सख्या तुम्बुरुणा सार्द्धं सूर्यलोकं जगाम ह ॥ ४ ॥
रथेन तं प्रधावंतं सूर्यं वीक्ष्य महामुनिः ।
शिवपार्श्वं जगामाशु ततो देवर्षिसत्तमः ॥ ५ ॥
भूतेशं ज्ञानतत्वज्ञं ध्यानस्तिमितलोचनम् ।
वीक्ष्य तं नारदो राधे ब्रह्मलोकं जगाम ह ॥ ६ ॥
सृजंतं सृष्टिरचनां व्यग्रं वीक्ष्य विधिं मुनिः ।
वैकुंठं प्रययौ विष्णोः सर्वलोकनमस्कृतम् ॥ ७ ॥
भक्तार्थं कुत्र गच्छंतं भक्तेशं भक्तवत्सलम् ।
वीक्ष्य तुंबुरुणा सार्द्धं योगींद्रः प्रययौ ततः ॥ ८ ॥
योगीश्वराणां हि सतां त्रिलोक्यामंतरं बहिः ।
गतिमाहुर्नाप्नुवंति कर्मभिर्वृषभानुजे ॥ ९ ॥
कोटिशो ह्यंडनिचयान् समुल्लंघ्य मुनीश्वरः ।
गोलोकं परमं धाम प्रययौ प्रकृतेः परम् ॥ १० ॥
समुत्तीर्याशु विरजां नदीं कल्लोलशालिनीम् ।
ययौ वृन्दावनं रम्यं भ्रमरध्वनिसंकुलम् ॥ ११ ॥
सदा वसंतर्तुयुतं मरुतैजल्लतागृहम् ।
दृष्ट्वा गोवर्धनं शैलं मन्निकुंजं समाययौ ॥ १२ ॥
कौ युवां कुत आयातौ किं कार्यं वदतं च नः ।
इत्थं सखीभिः संपृष्टौ ऊचतुर्मुनितुम्बुरू ॥ १३ ॥
गायकौ कुशलौ रामा आवां वीणाकलध्वनिम् ।
परिपूर्णतमं साक्षाच्छ्रीकृष्णं राधिकापतिम् ॥ १४ ॥
कलं परं श्रावयितुमागतौ बंदिनां वरौ ।
कथनीयमिदं वाक्यं श्रीकृष्णय महात्मने ॥ १५ ॥
श्रुत्वा सख्यस्तथा मह्यं निवेद्याथ मदाज्ञया ।
आगत्याज्ञां ददुर्यातुं बंदिभ्यां श्लक्ष्णया गिरा ॥ १६ ॥
मन्निकुंजांगणे भ्राजत्कोट्यर्कज्योतिराकुले ।
खचित्कौस्तुभरत्‍नाढ्ये प्रचलच्चारुचामरे ॥ १७ ॥
लोलमुक्ताफलच्छत्रे सखीकोटिसमन्विते ।
महापद्मस्थितं साक्षात्त्वया मां तावपश्यताम् ॥ १८ ॥
नत्वा प्रदक्षिणीकृत्य तत्र स्थित्वा मदाज्ञया ।
स्तुत्वा मां मद्‍गुणान्वक्तुं तेनासावुपचक्रमे ॥ १९ ॥
आतोद्यं विनुदन्वीणां देवदत्तां स्वरामृतम् ।
कलं जगावद्वितीयं नारदः सहतुम्बुरू ॥ २० ॥
संतुष्टोऽहं शिरो धुन्वन् तेन श्लाघ्यं च तत्स्वरम् ।
दत्वाऽऽत्मानं प्रेमपरो जलत्वं गतवानहम् ॥ २१ ॥
यज्जलं मद्वपुर्जातं तद्वै ब्रह्मद्रवं विदुः ।
कोटिशः कोटिशोऽण्डानां राशयः संलुठंति हि ॥ २२ ॥
इंद्रायणफलानीवान् अन्ते तस्मिञ्जले शुभे ।
पृश्निगर्भमिदं राधे ब्रह्मांडं मत्पदं स्फुटम् ॥ २३ ॥
भित्वा तच्चागतं साक्षादस्मिन्मन्वंतरे शुभे ।
तत्स्वर्धुनीं विदुः पूर्वे श्रीगंगां पापहारिणीम् ॥ २४ ॥
दिवि मंदकिनी प्रोक्ता गंगा भागीरथी क्षितौ ।
अधो भोगवती प्रोक्ता त्रिधा त्रिपथगामिनी ॥ २५ ॥
यत्स्नातुं गच्छतः पुंसः प्रणतस्य पदे पदे ।
राजसूयाश्वमेधानां फलमस्ति न दुर्लभम् ॥ २६ ॥
गंगा गंगेति यो ब्रूयाद्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ २७ ॥
दृष्ट्वा जन्मशतं पापं पीत्वा जन्मशतद्वयम् ।
स्नात्वा जन्मसहस्राणां हंति गंगा कलौ युगे ॥ २८ ॥
सफलं जन्म वै तेषां ये पश्यंति हि जाह्नवीम् ।
वृथा जन्म गतं तेषां ये न पश्यंति जाह्नवीम् ॥ २९ ॥
यथा हि द्रवतां प्राप्ता विरजा त्वद्‌भयाद्यथा ।
प्रापुर्द्रवत्वं रंभोरु विरजायाः सुता यथा ॥ ३० ॥
यथा कृष्णा नदी विष्णुर्वेणी देवः शिवो यथा ।
ब्रह्मा ककुद्मिनी गंगा गंडकी च यथाऽप्सराः ॥ ३१ ॥
तथा द्रवत्वं संप्राप्त ऋभुर्नामाप्ययं मुनिः ।
प्रेमलक्षणया भक्त्या ऋभोर्वा नात्र संशयः ॥ ३२ ॥
यः शृणोति कथामेतां पवित्रां पापहारिणीम् ।
उल्लंघ्य सर्वलोकांश्च मल्लोकं याति मानवः ॥ ३३ ॥
श्रीनारद उवाच -
एवमुक्त्वा प्रियां राधामृभोराश्रमतो हरिः ।
राधया सहितो राजन् आययौ मालतीवनम् ॥ ३४ ॥
गोपीनां विरहं ज्ञात्वा भगवान्भक्तवत्सलः ।
राधया प्रययौ कृष्णः पुलिनं मंगलायनम् ॥ ३५ ॥
तदा गोपीगणाः सर्वे गतमाना गतव्यथाः ।
जगृहुस्तं घनश्यामं सौदामिन्यो घनं यथा ॥ ३६ ॥
वृंदावने हरिः साक्षात्कृष्णातीरे मनोहरे ।
जगौ कलं गोपिकाभिः वंशीवादनतत्परः ॥ ३७ ॥
भगवत्कलरागेण मूर्छिता गोपकन्यकाः ।
नद्यो वेगत्वरहिता अचरत्वं हि पक्षिणः ॥ ३८ ॥
मौनत्वं देवताः सर्वाः स्तंभत्वं देवनायकाः ।
सजलत्वं च तरवो निद्रात्वं प्रगतं जगत् ॥ ३९ ॥
कृत्वा रासं राधिकाया गोपीनां च मनोरथम् ।
ब्राह्मे मुहूर्ते भगवानाययौ नंदमंदिरम् ॥ ४० ॥
राधिका गोपिकाभिश्च प्राप्ताऽऽनंदमनोरथा ।
वृषभानुवरस्यापि सुंदरं मंदिरं ययौ ॥ ४१ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
नारदोपाख्यानं नाम द्वाविंशोऽध्यायः ॥ २२ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP