श्रीगर्गसंहिता

मथुराखण्डः - एकविंशोऽध्यायः

रागगणानां वाक्ये अपमानबोधितेन नारदेन सरस्वती-आराधना,
साक्षात्कारः स्तवं तथा तत्कर्तृक-ताल-मान-स्वरेभ्यः सह ५५-
कोटि प्रकारेण रागरागिणी शिक्षा -


श्रीराधोवाच -
धन्योऽयं मुनिशार्दूलस्त्वद्‌भक्ते प्रेमवान्महान् ।
त्वत्सारूप्यं जगामासौ त्वमप्यश्रुमुखो यतः ॥ १ ॥
अस्य देहक्रियां कर्तुं योग्योऽसि वृजिनार्दन ।
तपसा चास्य देहोऽयं प्रस्फुरत्यमलाकृतिः ॥ २ ॥
श्रीनारद उवाच -
वदंत्यां तत्र राधायां तद्देहोऽप्यभवत्सरित् ।
वहंती पापहंत्री च दृश्यते रोहिते गिरौ ॥ ३ ॥
तद्देहस्यापि सरितं वीक्ष्य राधाऽतिविस्मिता ।
नन्दराजात्मजं प्राह वृषभानुवरात्मजा ॥ ४ ॥
श्रीराधोवाच -
कथं जलत्वमापन्नो देहोऽयं वै महामुनेः ।
एतन्मे संशयं देव छेत्तुमर्हस्यशेषतः ॥ ५ ॥
श्रीभगवानुवाच -
प्रेमलक्षणया भक्त्या संयुतोऽयं मुनीश्वरः ।
तस्मादस्य तु देहोऽयं रम्भोरु द्रवतां गतः ॥ ६ ॥
दृष्ट्वा त्वया मां वरदं हर्षितोऽभून्महामुनिः ।
जलत्वं प्राप तद्देहो यथाऽहं द्रवतां पुरा ॥ ७ ॥
श्रीराधोवाच -
द्रवतां त्वं कथं प्राप्तो देवदेव दयानिधे ।
एतत् चित्रं हि मे जातं सर्वं त्वं वद विस्तरात् ॥ ८ ॥
श्रीभगवानुवाच -
अत्रैवोदाहरन्तीमितिहासं पुरातनम् ।
यस्य श्रवणमात्रेण पापहानिः परं भवेत् ॥ ९ ॥
यन्नाभिपंकजाज्जातः पुरा ब्रह्मा प्रजापतिः ।
असृजत्प्रकृतिं शश्वत्तपसा मद्वरोर्जितः ॥ १० ॥
उत्संगान्नारदो जज्ञे ब्रह्मणः सृजतः शुभः ।
भक्त्युन्मत्तो मत्पदानि निजगौ पर्यटन्महीम् ॥ ११ ॥
एकदा नारदं प्राह देवो ब्रह्मा प्रजापतिः ।
प्रजाः सृज महाबुद्धे वृथा चंक्रमणं त्यज ॥ १२ ॥
नारदस्तद्‌वचः श्रुत्वा प्राहेदं ज्ञानतत्परः ।
न सृजामि पितः सृष्टिं शोकमोहादिकारिणीम् ॥ १३ ॥
करिष्यामि हरेर्भक्तिं तत्कीर्तनसमन्विताम् ।
त्वमपि सृष्टिरचनां त्यज दुःखातुरो भृशम् ॥ १४ ॥
क्रुद्धः शशाप तं ब्रह्मा प्राह प्रस्फुरिताधरः ।
सदा गानपरः कल्पं गन्धर्वो भव दुर्मते ॥ १५ ॥
एवं तच्छापतो राधे गन्धर्व उपबर्हणः ।
बभूव गन्धर्वपतिः कल्पमात्रं सुरालये ॥ १६ ॥
एकदा ब्रह्मणो लोके स्त्रीभिः परिवृतो गतः ।
सुन्दरीषु मनः कृत्वा जगौ तालविवर्जितम् ॥ १७ ॥
पुनर्ब्रह्मा तं शशाप त्वं शूद्रो भव दुर्मते ।
अथासौ ब्रह्मशापेन दासीपुत्रो बभूव ह ॥ १८ ॥
सत्संगेन पुरा राधे प्राप्तोऽभूद्‍ब्रह्मपुत्रताम् ।
भक्त्युन्मत्तो मत्पदानि निजगौ पर्यटन्महीम् ॥ १९ ॥
मुनीन्द्रो वैष्णवश्रेष्ठो मत्प्रियो ज्ञानभास्करः ।
परं भागवतः साक्षान्नारदो मन्मनाः सदा ॥ २० ॥
एकदा नारदो लोकान् पश्यन् वै गानतत्परः ।
इलावृतं नाम खंडं गतवान्सर्वतो गतिः ॥ २१ ॥
यत्र जंबूनदी श्यामा जंबूफलरसोद्‌भवा ।
तथा जांबूनदं नाम सुवर्णं भवति प्रिये ॥ २२ ॥
तद्देशे वेदनगरं रत्‍नप्रासादनिर्मितम् ।
ददर्श नारदो योगी दिव्यनारीनरैर्वृतम् ॥ २३ ॥
कांश्चिद्वै पादरहितान् विगुल्फाञ्जानुवर्जितान् ।
विजंघाञ्जघनव्यंगान् कृशोरुन्कुब्जमध्यकान् ॥ २४ ॥
श्लथद्दन्तोन्नतस्कंधान् नताननविकंधरान् ।
स्त्रीजनान्पुरुषांश्चासावङ्गभङ्गान्ददर्श ह ॥ २५ ॥
अहो किमेतच्चित्रं हि सर्वान्दृष्ट्वाऽवदन्मुनिः ।
सर्वे यूयं पद्ममुखा दिव्यदेहाः शुभाम्बराः ॥ २६ ॥
किं देवा उपदेवा वा यूयं किं ऋषिसत्तमाः ।
वादित्रसहिताः सर्वे रम्यगानपरायणाः ॥ २७ ॥
अंगभंगाः कथं यूयं वदताशु ममैव हि ।
इत्युक्तास्तेन ते सर्वे प्रत्यूचुर्दीनमानसाः ॥ २८ ॥
रागा ऊचुः -
महादुःखं मुने जातमस्माकं तनुषु स्वतः ।
तस्याग्रे कथनीयं वै दूरीकर्त्तुं च यः क्षमः ॥ २९ ॥
रागा वयं वेदपुरे वसामः सर्वदा मुने ।
अंगभंगा वयं जाताः कारणं शृणु मानद ॥ ३० ॥
जातो हिरण्यगर्भस्य पुत्रो नारदनामभाक् ।
प्रेमोन्मत्तो विकालेन गायन् ध्रुवपदानि च ॥ ३१ ॥
विचचार महीमेतां स्वेच्छया स महामुनिः ।
विकाले तस्य गानैश्च विस्वरैस्तालवर्जितैः ।
विगानैश्च वयं सर्वे अंगभंगा बभूविम ॥ ३२ ॥
इति श्रुत्वाऽथ तद्वाक्यं नारदो विस्मितोऽभवत् ।
उवाच गतमानोऽसौ रागान् परिहससन्निव ॥ ३३ ॥
मुनिरुवाच -
तस्य केन प्रकारेण ज्ञानं वै कालतालयोः ।
भवेदिह स्वरैर्युक्तं वदताशु ममैव हि ॥ ३४ ॥
रागा ऊचुः -
वैकुंठस्य पतेः साक्षात् प्रिया मुख्या सरस्वती ।
कुर्याच्छिक्षां यदा तस्मै तदा स्यात्कालविन्मुनिः ॥ ३५ ॥
तेषां वाक्यं ततः श्रुत्वा नारदो दीनवत्सलः ।
सरस्वत्याः प्रसादार्थं त्वरं शुभ्रं गिरिं ययौ ॥ ३६ ॥
दिव्यवर्षशतं शश्वत्तपस्तेपे सुदुष्करम् ।
निरन्नं निर्जलं वाणीध्यानयुक्तं व्रजेश्वरि ॥ ३७ ॥
शुभ्रं नाम विसृज्याथ पवित्रीकृतभूधरम् ।
नारदो नाम शैलोऽभूत्तपसा नारदस्य च ॥ ३८ ॥
तपोऽन्ते आगतां साक्षाद्‌वाग्देवीं श्रीसरस्वतीम् ।
विष्णोः प्रियां दिव्यवर्णामपश्यन्नारदो मुनिः ॥ ३९ ॥
सहसोत्थाय तां नत्वा परिक्रम्य नताननः ।
तद्‌रूपगुणमाधुर्यस्तुतिं चक्रे मुनीश्वरः ॥ ४० ॥
श्रीनारद उवाच -
नवार्कबिंबद्युतिमुद्‌गलज्ज्वल-
     त्ताटंककेयूरकिरीटकंकणाम् ।
स्फुरत्क्वणन्नुपुररावरञ्जितां
     नमामि कोटींदुमुखीं सरस्वतीम् ॥ ४१ ॥
वंदे सदाऽहं कलहंस उद्‌गते
     चलत्पदे चंचलचंचुसंपुटे ।
निर्धौतमुक्ताफलहारसंचयं
     संधारयंतीं सुभगां सरस्वतीम् ॥ ४२ ॥
वराभयं पुस्तकवल्लकीयुतं
     परं दधानां विमले करद्वये ।
नमाम्यहं त्वां शुभदां सरस्वतीं
     जगन्मयीं ब्रह्ममयीं मनोहराम् ॥ ४३ ॥
तरंगितक्षौमसितांबरे परे
     देहि स्वरज्ञानमतीव मंगले ।
येनाद्वितीयो हि भवेयमक्षरे
     सर्वोपरि स्यां पररागमंडले ॥ ४४ ॥
श्रीभगवानुवाच -
स्तोत्रं जाड्यापहं दिव्यं प्रातरुत्थाय यः पठेत् ।
नारदोक्तं सरस्वत्याः स विद्यावान् भवेदिह ॥ ४५ ॥
ततः प्रसन्ना वाग्देवी नारदाय महात्मने ।
देवदत्तां ददौ वीणां स्वरब्रह्मविभूषिताम् ॥ ४६ ॥
रागैश्च रागिणीभिश्च तत्पुत्रैश्च तथैव च ।
देशकालादिभेदैश्च तालमानस्वरैः सह ॥ ४७ ॥
षट्‍पंचाशत्कोटिभेदैरन्तर्भेदैरसंख्यकैः ।
ग्रामैर्नृत्यैः सवादित्रैर्मूर्च्छनासहितैः शुभैः ॥ ४८ ॥
वैकुंठस्य पतेः साक्षात्प्रिया मुख्या सरस्वती ।
स्वरगम्यैः पदैः सिद्धैः पाठयामास नारदम् ॥ ४९ ॥
अद्वितीयं रागकरं कृत्वा तं रासमंडले ।
वैकुंठं प्रययौ राधे वाग्देवी विष्णुवल्लभा ॥ ५० ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
नारदोपाख्यानं नामैकविंशोऽध्यायः ॥ २१ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP