श्रीगर्गसंहिता

मथुराखण्डः - विंशोऽध्यायः

राधाकृष्णकृतं ऋभुऋषि-मुक्तिदानम् -


बहुलाश्व उवाच -
अग्रे चकार किं साक्षाद्‌ भगवान् व्रजमण्डले ।
राधायै गोपिकाभ्यश्च कथंस्विद्दर्शनं ददौ ॥ १ ॥
गोपीमनोरथं कृत्वा मथुरामाजगाम ह ।
एतन्मे ब्रूहि विप्रेंद्र त्वं परावरवित्तमः ॥ २ ॥
श्रीनारद उवाच -
संध्यायां राधयाऽऽहूतः श्रीकृष्णो भगवान्स्वयम् ।
एकांते शीतलं शश्वज्जगाम कदलीवनम् ॥ ३ ॥
स्फारस्फुरनमेघगृहं रंभाचन्दनचर्चितम् ।
कृष्णागरुत्सीकरं च सुधारश्मिगलत्सुधम् ॥ ४ ॥
एतादृशं वनं राधा वियोगानलवर्चसा ।
भस्मीभूतं हि सततं कृष्णाशा तां हि रक्षति ॥ ५ ॥
तत्रैव सर्वे गोपीनां शतयूथाः समागताः ।
तस्यै निवेदनं चक्रुर्माधवागमनस्य हि ॥ ६ ॥
उत्थाय सहसा साक्षाद्‌वृषभानुवरात्मजा ।
आनेतुमाययौ कृष्णं सखीभिः परिवारिता ॥ ७ ॥
ददावासनपाद्यार्घानुपचारान्मनोहरान् ।
वदंती सादरं वाक्यं कुशलं कुशलाधिका ॥ ८ ॥
युवकंदर्पकोटीनां माधुर्य्यहारिणं हरिम् ।
दृष्ट्वा राधा जहौ दुःखं ब्रह्म ज्ञात्वा गुणं यथा ॥ ९ ॥
प्रसन्ना तत्र शृङ्गारमकरोत्कीर्तिनंदिनी ।
तया नोऽकारि श्रृंगारः पांथे कृष्णे गते सति ॥ १० ॥
न चन्दनं च तांबूलं भोजनं च सुधासमम् ।
न कृतं दिव्यशयनं हास्यं वा न कृतं क्वचित् ॥ ११ ॥
परिपूर्णतमं कृष्णं परिपूर्णतमप्रिया ।
आनंदाश्रूणि मुंचंती प्राह गद्‌गदया गिरा ॥ १२ ॥
राधोवाच -
कियद्‍दूरे यदुपुरी नागतं किं करोषि हि ।
किं वदेऽहं रहो दुःखं भवतोऽशेषसाक्षिणः ॥ १३ ॥
सौदासराजमहिषी दमयंती च मैथिली ।
नास्त्यत्र कां पुरस्कृत्य वदेऽहं विरहं रिपुम् ॥ १४ ॥
मत्समानाश्रया गोप्यो गदितुं न क्षमाः क्वचित् ।
शरच्चन्द्रचकोरीव मयूरीव घनं नवम् ॥ १५ ॥
श्रीवृन्दावनचंद्रं त्वां घनश्यामं समुत्सहे ।
तव सख्योद्धवेनाशु धन्येन त्वं प्रदर्शितः ।
अन्यः कोऽपि व्रजे नास्ति यस्य प्रेम्णा त्वमागतः ॥ १६ ॥
श्रीनारद उवाच -
एवं वदन्ती सततं रुदन्तीं
     परां प्रियां वीक्ष्य घृणातुराङ्ग ।
आश्वासयामास नयेन सद्यः
     प्रगृह्य दोर्भ्यां स्रवदंबुनेत्रः ॥ १७ ॥
श्रीभगवानुवाच -
मा शोकं कुरु राधे त्वं त्वत्प्रीत्याऽहं समागतः ।
आवयोर्भेदरहितं तेजश्चैकं द्विधा जनैः ॥ १८ ॥
यथा हि दुग्धधावल्ये तथाऽऽवां सर्वदा शुभे ।
यत्राहं त्वं सदा तत्र विश्लेषो न हि चावयोः ॥ १९ ॥
पूर्ण ब्रह्म परं चाहं तटस्था त्वं जगत्प्रसूः ।
विश्लेष आवयोर्मध्ये मृषा ज्ञानेन पश्य सत् ॥ २० ॥
यथाकाशस्थितो नित्यं वायु सर्वत्रगो महान् ।
तथा जलं सूक्ष्मरूपं तेजो व्याप्तं यथैधसि ॥ २१ ॥
अन्तर्बहिर्यथा पृथ्वी पृथग्भूता वरानने ।
तथा विकाररहितो मलवत्त्रिगुणैरहम् ॥ २२ ॥
तथा त्वं पश्य मद्‌भावं सदानंदो भवेत्ततः ।
अहं ममेति भावेन द्वितीयोऽस्ति वरानने ॥ २३ ॥
यावद्वनो मध्यगतस्तदुत्थितः
     स्वं रूपमर्कं न हि दृक् प्रपश्यति ।
तावत्परात्मानमसौ प्रधानजै-
     र्गुणैस्तथा तेषु गतेषु पश्यति ॥ २४ ॥
गुणेषु सक्तं किल बन्धनाय
     रक्तं मनः पुंसि च मुक्तये स्यात् ।
मनो द्वयोः कारणमाहुरारा-
     ज्जित्वाऽथ तत्कौ विचरेदसंगः ॥ २५ ॥
सर्व हि भावं मनसः परस्परं
     न ह्येकतो भामिनि जायते ततः ।
प्रेमैव कर्तव्यमतो मयि स्वतः
     प्रेम्णा समानं भुवि नास्ति किंचित् ॥ २६ ॥
श्रीनारद उवाच -
इति वाक्यं हरेः श्रुत्वा प्रसन्ना कीर्तिनंदिनी ।
गोपिकाभिः समं कृष्णं पूजयामास माधवम् ॥ २७ ॥
अथ रात्र्यां हरिः साक्षात्कार्तिक्यां रासमंडले ।
गत्वा ननाद मुरलीं गोपीभी राधया सह ॥ २८ ॥
यमुनानिकटे राजन् राधया राधिकापतिः ।
रामाभिः सुन्दरीभिश्च रासरंगे रराज ह ॥ २९ ॥
यावतीर्गोपिका रासे तावद्‌रूपधरो हरिः ।
रेमे वृंदावने दिव्ये हरिर्वृन्दावनेश्वरः ॥ ३० ॥
क्वणन्नूपुरमंजीरो वनमालाविराजितः ।
पीतांबरः पद्मधारी प्रभातार्ककिरीटधृक् ॥ ३१ ॥
विद्युल्लतास्फुरत्प्रोद्यद्धेमकुण्डलमण्डितः ।
वेत्रभृद्‌वादयन्वंशीं नटवेषो घनद्युतिः ॥ ३२ ॥
स्फुरत्कौस्तुभरत्‍नाढ्यः प्रचलत्स्निग्धकुण्डलः ।
रराज राधया रासे यथा रत्या रतीश्वरः ॥ ३३ ॥
शच्या शक्रो यथा स्वर्गे घनश्चंचलया यथा ।
वृन्दया वृन्दकारण्ये तथा वृन्दावनेश्वरः ॥ ३४ ॥
वृन्दावनं च पुलिनं वनान्युपवनानि च ।
पश्यन् गोपीगणैः सार्द्धं गिरिं गोवर्धनं ययौ ॥ ३५ ॥
गोपीनां शतयूथानां मानं वीक्ष्य व्रजेश्वरः ।
भगवान् राधया साकं तत्रैवांतरधीयत ॥ ३६ ॥
अथ गोवर्धनाद्‍दूरे सुंन्दरं योजनत्रयम् ।
श्रीखण्डगंधसंयुक्तं स ययौ रोहिताचलम् ॥ ३७ ॥
लताकुञ्जनिकुञ्जाश्च पश्यञ्जल्पंस्तया सह ।
विचचार गिरौ रम्ये काञ्चनीलतिकालये ॥ ३८ ॥
तत्र देवसरो रम्यं बद्रिनाथेन निर्मितम् ।
पाठीनकूर्मनक्रादिहंस सारससङ्कुलम् ॥ ३९ ॥
सहस्रदलपद्मैश्च मण्डितं तदितस्ततः ।
भ्रमरध्वनिसंयुक्तं पुंस्कोकिलरुतव्रतम् ॥ ४० ॥
विकसत् पद्मगंधाढ्यं तत्तीरं मन्दमारुतम् ।
रमया राधया सार्द्धं माधवो निषसाद ह ॥ ४१ ॥
तत्तीरं प्रतपस्यंतं ऋभुं नाम महामुनिम् ।
पदैकेन स्थितं शश्वत् श्रीकृष्णध्यानतत्परम् ॥ ४२ ॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
निरन्नं निर्जलं शांतं श्रीकृष्णस्तं ददर्श ह ॥ ४३ ॥
पप्रच्छ वीक्ष्य तं राधा हसन्ती प्राह माधवम् ।
माहात्म्यं कुरु भक्तोऽयं पश्य भक्तिं महामुनेः ॥ ४४ ॥
हे ऋभो इति कृष्णेन प्रोक्तमुच्चैर्वचः शुभम् ।
न श्रुतं तेन किञ्चिद्वा चरमं प्रापितेन वै ॥ ४५ ॥
हरिस्तदा तद्धृदयाद्‌ बभूवाशु तिरोहितः ।
ध्यानाद्‌गतं हरिं वीक्ष्य मुनींद्रश्चातिविस्मितः ॥ ४६ ॥
नेत्रे उन्मील्य ददृशे श्रीकृष्णं राधयाऽऽगतम् ।
घनं चंचलयेवाढ्यं रञ्जयन्तं दिशो दश ॥ ४७ ॥
उत्थात सद्यो हरिभक्तितत्परः
     प्रदक्षिणीकृत्य हरिं सराधिकम् ।
प्रणम्य मूर्ध्ना निपपात पादयो-
     रुवाच कृष्णं बहुगद्‌गदाक्षरः ॥ ४८ ॥
श्रीऋभुरुवाच -
नमः कॄष्णाय कृष्णायै राधायै माधवाय च ।
परिपूर्णतमायै च परिपूर्णतमाय च ॥ ४९ ॥
घनश्यामाय देवाय श्यामायै सततं नमः ।
रासेश्वराय सततं रासेश्वर्यै नमो नमः ॥ ५० ॥
गोलोकातीत लीलाय लीलावत्यै नमो नमः ।
असंख्यांडाधिदेव्यै च असंख्यांडनिधये नमः ॥ ५१ ॥
भूभारहाराय भुवं गताभ्यां
     मच्छांतये चात्र समागताभ्याम् ।
परस्परं संधितविग्रहाभ्यां
     नमो युवाभ्यां हरिराधिकाभ्याम् ॥ ५२ ॥
श्रीनारद उवाच -
इत्युक्त्वा कृष्णपादाब्जे प्रक्षरद्‌ बाष्पलोचनः ।
प्रेमानन्दसमायुक्तो जहौ प्राणान्महामुनिः ॥ ५३ ॥
तदैव निर्गतं ज्योतिर्दशसूर्यसमप्रभम् ।
परिभ्रमद् दशदिशः श्रीकृष्णे लीनतां गतम् ॥ ५४ ॥
भक्तस्य भक्तिं श्रीकृष्णो वीक्ष्य वै प्रेमलक्षणाम् ।
आनंदाश्रुकलां मुंचन् प्रेम्णा तं चाजुहाव ह ॥ ५५ ॥
पुनः श्रीकृष्णपादाब्जात्कृष्णसारूप्यवान्मुनिः ।
निर्गतः कोटिकंदर्पसन्निभोऽतिनताननः ॥ ५६ ॥
दोर्भ्यां प्रगृह्य हृदये तं निधाय कृपाकरः ।
आश्वास्य कल्याणकरं करं दिव्यं दधार ह ॥ ५७ ॥
प्रदक्षिणीकृत्य हरिं च राधिकां
     प्रणम्य चारुह्य रथं मनोहरम् ।
गोलोकलोकं प्रययावृभुर्मुनि-
     र्विरञ्जयन्मैथिल मण्डलं दिशाम् ॥ ५८ ॥
श्रीराधिका विस्मयमागता भृशं
     दृष्ट्वा परां मुक्तिमृभोर्महामुनेः ।
आनन्दवारीणि विमुञ्चती चिरं
     जगाद कृष्णं वृषभानुनंदिनी ॥ ५९ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
रासोत्सवे ऋभुमोक्षो नाम विंशोऽध्यायः ॥ २० ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP