श्रीगर्गसंहिता
मथुराखण्डः - एकोनविंशोऽध्यायः
कृष्णस्य व्रजागमनोत्सवम् -
श्रीनारद उवाच -
इत्थं निशम्य भक्तस्य वचनं भक्तवत्सलः ।
स्मृत्वा वाक्यं स्वकथितं गंतुं चक्रेऽच्युतो मतिम् ॥ १ ॥
बलदेवं स्थापयित्वा कार्यभारेषु सर्वतः ।
हेमाढ्यं किंकणोजालं चंचलाश्वनियोजितम् ॥ २ ॥
रथमारुह्य सूर्याभमुद्धवेन समन्वितः ।
भक्तानां दर्शनं दातुं प्रययौ नंदगोकुलम् ॥ ३ ॥
गोवर्धनं गोकुलं च पश्यन् वृन्दावनं वनम् ।
प्राप्तोऽभूत्पुलिने कृष्णः कृष्णातीरे मनोहरे ॥ ४ ॥
कोटिशः कोटिशो गावो दृष्ट्वा कृष्णं व्रजाधिपम् ।
आधावन्त्यः सर्वतस्तं स्नेहस्नुतपयोधराः ॥ ५ ॥
उदास्यकर्णवालाँश्च रंभमाणाः सवत्सकाः ।
मुखे कवलसंयुक्ता अश्रुमुख्यो गतव्यथाः ॥ ६ ॥
सरथं सारुणं साश्वं शरदर्कं यथा घनाः ।
रुरुधुस्तं रथं राजनुद्धवस्य प्रपश्यतः ॥ ७ ॥
श्रीगोपालो हरिस्तासां वदन्नाम पृथक् पृथक् ।
श्रीहस्तेन तदंगानि स्पृशन् हर्षं जगाम ह ॥ ८ ॥
तत्समीपे गवां वृन्दं गतं वीक्ष्य व्रजार्भकाः ।
श्रीदामाद्या विस्मिताश्च दूरादूचुः परस्परम् ॥ ९ ॥
गोपा ऊचुः -
रथं सकुम्भध्वजवायुवेगं
सुकांस्यपत्रध्वनिनिःस्वनं तम् ।
शताश्वयुक्तं शतसूर्यशोभं
गावः कथं वा रुरुधुः सखायः ॥ १० ॥
अन्यो न चास्मिन् हि गवां प्रहर्षणै-
रायाति किंतु व्रजराजनंदनः ।
स्फुरंति चांगानि हि दक्षिणानि नः
श्रीनीलकंठः प्रतनोति तोरणम् ॥ ११ ॥
श्रीनारद उवाच -
इत्थं विचार्य मनसा गोपाः सर्वे समागताः ।
ददृशुर्माधवं मित्रं गतं वस्तु यथा जनाः ॥ १२ ॥
अवप्लुत्य रथात्कृष्णः परिपूर्णतमः स्वयम् ।
पुरो निधाय तान्सर्वान्दोर्भ्यां तत्प्रेमविह्वलः ॥ १३ ॥
मुंचन्नेत्राब्जवारीणि परिरेभे पृथक्पृथक् ।
अहो भक्तेश्च माहात्म्यं वक्तुं कोऽस्ति महीतले ॥ १४ ॥
ते सर्व रुरुदुर्गोपा मुंचन्तोऽश्रूणि मैथिल ।
प्रवक्तुं न समर्थाः श्रीकृष्णविक्षेपविह्वलाः ॥ १५ ॥
परिपूर्णतमः साक्षाद्देवो मधुरया गिरा ।
आश्वासयामास नतान् प्रेमानन्दसमाकुलान् ॥ १६ ॥
उद्धवः प्रेषितो वक्तुं श्रीकृष्णेनार्भकैः सह ।
आगतं कथयामास श्रीकृष्णं नंदपत्तने ॥ १७ ॥
श्रुत्वाऽऽगतं नंदसूनुं श्रीकृष्णं गोपवल्लभम् ।
आनेतुं निर्गताः सर्वे परिपूर्णमनोरथाः ॥ १८ ॥
भेरीमृदंगैः पटहैः कलस्वनै-
रत्पूर्णकुम्भैर्द्विजवेदघोषणैः ।
गन्धाक्षतैर्मंगललाजमिश्रितैः
श्रीनंदराजोऽभिययौ यशोदया ॥ १९ ॥
ततः पुरस्कृत्य मदोन्नतं गजं
सिन्दूरशुण्डाधृतहेमशृङ्खलम् ।
समाययौ श्रीवृषभानुमुख्यो
भावान् कृतिस्तत्र कलावतीयुतः ॥ २० ॥
नंदोपनन्दा वृषभानवश्च
गोपाश्च वृद्धास्तरुणार्भकाश्च ।
स्रग्वेणुगुञ्जापरिपिच्छयुक्ता
विनिर्गताः पूर्णमनोरथास्ते ॥ २१ ॥
गायंत आरान्नृपनन्दनंदनं
नृत्यंत आचालितपीतवाससः ।
वंशीधरा वेत्रविषाणपाणयः
प्रहर्षिता दर्शनलालसा भृशम् ॥ २२ ॥
सखिमुखेभ्यो हरिमागतं परां
निशभ्य राधा शयनात्समुत्थिता ।
ताभ्यः स्वभूषाः प्रददौ प्रहर्षिता
प्रीता स्वगन्धिं नवपद्मिनी यथा ॥ २३ ॥
द्वात्रिंशदष्टौ किल षोडश द्वे
यूथैर्युता मैथिल गोपिकानाम् ।
आरुह्य राधा शिबिकां मनोज्ञां
समाययौ श्रीधरदर्शनार्थम् ॥ २४ ॥
तथा हि गोप्यः किल कोटिशश्च
त्यक्त्वाऽथ सर्वं स्वगृहस्य कृत्यम् ।
व्यत्यस्तवस्त्राभरणा नृपेश
समाययुः प्रेमचलन्मनोऽङ्गाः ॥ २५ ॥
सर्वं व्रजं पादपगोमृगद्विजं
प्रेमातुरं वीक्ष्य समागतं किमु ।
श्रीनंदराजं पितरं च मातरं
ननाम कृष्णः कृतमस्तकांजलिः ॥ २६ ॥
श्रीनन्दराजस्तनयं चिरागतं
प्रगृह्य दोर्भ्यां हृदये निधाय तम् ।
संस्नापयामास सुनेत्रजैर्जलै-
र्यशोदया प्राप्तमनोरथश्चिरात् ॥ २७ ॥
नन्दोपनन्दान्वृषभानुवृद्धान्
सर्वान्नमस्कृत्य च तत्कृताशीः ।
तथा वयस्यैश्च परस्परं वा
लघूंश्च हस्तग्रहणैः स्थितोऽभूत् ॥ २८ ॥
ततः समारुह्य रथं हरिः स्वयं
निधाय नंदं च गजे यशोदया ।
नंदोपनंदैः सहितो गवां गणैः
श्रीनंदराजस्य पुरं विवेश सः ॥ २९ ॥
तदैव देवाः किल पुष्पवर्षा-
माचारलाजान् पुरगोपिकाश्च ।
प्रचक्रिरे तत्र जयेति मंगलं
शब्दं च गोपा गृहमागते हरौ ॥ ३० ॥
धन्यः सखा ते परमुद्धवोऽय-
मनेन साक्षात्किल दर्शितोऽत्र ।
त्वं जीवनं गोपजनस्य गोपा
ऊचुर्गिरा गद्गदयेदमार्ताः ॥ ३१ ॥
इदं मया ते कथितं नृपेश
पुनर्व्रजे ह्यागमनं हरेश्च ।
किमिच्छसि श्रोतुमथो सुरासुरैः
परं चरित्रं शुभदं विचित्रम् ॥ ३२ ॥
इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे श्रीकृष्णागमनोत्सवो नामैकोनविंशोऽध्यायः ॥ १९ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|