श्रीगर्गसंहिता

मथुराखण्डः - षोडशोऽध्यायः

राधिका तथा गोपीगणानां आश्वासप्रदानम् -


श्रीनारद उवाच -
राधा पत्रं संगृहीत्वा शिरो नेत्रे तथा च हृत् ।
निधाय वाचयित्वा तत् स्मृत्वा तत्पादपङ्कजम् ॥ १ ॥
अतिप्रेमातुरा राजन् मोचयित्वाऽश्रुसंततिम् ।
मूर्च्छामाप परां राधा यादवस्य प्रपश्यतः ॥ २ ॥
कुंकुमागुरुपाटीरद्रवैः पुष्परसैश्च सा ।
अर्चिता चामरांदोलैः पुनश्चैतन्यतां गता ॥ ३ ॥
वियोगसिन्धुसंमग्नां राधां कमललोचनाम् ।
वीक्ष्योद्धवस्तथा गोप्यो मुमुचुश्चाश्रुसंततिम् ॥ ४ ॥
तासामश्रुप्रवाहेण राजन् वृन्दावने वने ।
सद्यः कह्लारसंयुक्तो जातो लीलासरोवरः ॥ ५ ॥
दृष्ट्वा पीत्वा च सुस्नात्वा श्रुत्वा चेमां कथां नरः ।
कर्मबंधविनिर्मुक्तः श्रीकृष्णं प्राप्नुयान्नृप ॥ ६ ॥
अथोद्धवमुखाच्छ्रुत्वा श्रीकृष्णागमनं पुनः ।
पप्रच्छुः कुशलं सर्वं श्रीकृष्णस्य महात्मनः ॥ ७ ॥
श्रीराधोवाच -
आनंददं श्रीव्रजराजनंदनं
     द्रक्ष्यामि कस्मिन्समये घनप्रभम् ।
घनं मयूरीव समुत्सुका भृशं
     चंद्रं चकोरीव तदीक्षणोत्सुका ॥ ८ ॥
कस्मिन्कुकाले विरहो बभूव मे
     येनैव कौ कल्पसमः क्षणः क्षणः ।
निशीथिनीयं द्विपरार्द्धहेलनं
     करोति गोविंदपदद्वयं विना ॥ ९ ॥
कच्चित्कदाचिद्‍व्रजमागमिष्यति
     करोति किं तत्र हरिर्वदाशु मे ।
अद्यैव यत्‍नेन धृताः किलासवः
     प्रसह्य निर्यांति मृषागिरातुराः ॥ १० ॥
दृष्ट्वा क्षणं त्वां मम हृच्च शीतलं
     जातं प्रसन्नास्मि समागते त्वयि ।
यथा प्रसन्ना जनकात्मजा पुरा
     लंकापुरं वायुसुते समागते ॥ ११ ॥
आशां विधाय निजमोहधनं विसृज्य
     विस्मृत्य वाक्यगदितं मथुरां गतो यः ।
तस्यापि पत्रलिखितं ह्यमृतं न मन्ये
     तं चानयस्व किल मंत्रविदां वरिष्ठ ॥ १२ ॥
उद्धव उवाच -
गत्वा पुरीं तव परं विरहं निवेद्या-
     थार्घं विधाय निजनेत्रजलेन राधे ।
नीत्वा हरिं तव पुरः पुनरागतोऽस्मि
     मा शोकमद्य कुरु मे शपथस्त्वदंघ्रेः ॥ १३ ॥
श्रीनारद उवाच -
अथ प्रसन्ना श्रीराधा चन्द्रकांतौ मणी शुभौ ।
रासरंगे चन्द्रदत्तौ उद्धवाय ददौ नृप ॥ १४ ॥
सहस्रदलपद्मे द्वे दत्ते चंद्रमसा पुरा ।
उद्धवाय ददौ राधा प्रसन्ना भक्तवत्सला ॥ १५ ॥
छत्रं सिंहासनं दिव्यं चामरे द्वे मनोहरे ।
श्रीकृष्णमनसोद्‍भूते ददौ तस्मै हरिप्रिया ॥ १६ ॥
ऐश्वर्यं ज्ञानसंपन्नं सर्वदेशिकदेशिकम् ।
कृष्णसंयोगकर्तृत्वं सदा तव भविष्यति ॥ १७ ॥
भक्तिं निर्गुणभावाढ्यां प्रेमलक्षणसंयुताम् ।
ज्ञानं विज्ञानसहितं वैराग्यं सा ददौ पुनः ॥ १८ ॥
शंखचूडा च हरिणाऽऽनीतं चूडामणिं शुभम् ।
चन्द्रानना ददौ तस्मै उद्धवाय विदेहराट् ॥ १९ ॥
तथा गोपीगणाः सर्वे भूषणानां चयं शुभम् ।
ददुः प्रसन्ना हे राजन्नुद्धवाय महात्मने ॥ २० ॥
श्रीनारद उवाच -
श्रुत्वा वचश्चौपगवेः शुभार्थं
     सुखं गतायां किल राधिकायाम् ।
उचुस्तमाराद्‍व्रजगोपवध्वः
     सदःस्थितं कृष्णसखं पृथक् ताः ॥ २१ ॥
गोप्य ऊचुः -
यच्च पत्रलिखितं वदाशु नः
     किंतु तच्च हरिणोक्तमद्‌भुतम् ।
त्वं परावरविदां हरेः सखा
     मंत्रवित्तमस्तदाकृतिर्महान् ॥ २२ ॥
उद्धव उवाच -
यथा स्मरथ देवेशं तथा युष्मान् स्मरत्यसौ ।
अनुवेलं गोपवध्वः पश्यतो मे न संशयः ॥ २३ ॥
एकदा मां समाहूय स्मृत्वा युष्मान् रहस्करः ।
कथयामास संदेशं चित्तस्थं नंदनंदनः ॥ २४ ॥
श्रीभगवानुवाच -
गुणेषु सक्तं किल बन्धनाय
     रक्तं मनः पुंसि च मुक्तये स्यात् ।
मनो द्वयोः कारणमाहुरारा-
     ज्जित्वाऽथ तत्कौ विचरेदसंगः ॥ २५ ॥
यदा स्वयं ब्रह्म परात्परं मा-
     मध्यात्मयोगेन विशारदेन ।
जानाति सर्वत्र गतं विवेकी
     तदा विजह्यान्मनसः कषायम् ।
यावद्धनो मध्यगतस्तदुत्थितः
     स्वकर्मरूपं न हि दृक् प्रपश्यति ॥ २६ ॥
स्थूलाच्च दूरेऽस्मि न तत्वतोंऽगना-
     स्तस्माद्धि योगं कुरुतात्र साधनम् ।
यत्सांख्यभावैः किल गम्यते पदं
     तद्योगभावैरपि गम्यते स्वतः ॥ २७ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
राधागोप्याश्वासनं नाम षोडशोऽध्यायः ॥ १६ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP