श्रीगर्गसंहिता

मथुराखण्डः - सप्तदशोऽध्यायः

राधिकाप्रमुख-गोपीगणानां विरह-खेदोक्तिः -


श्रीनारद उवाच -
श्रुत्वा श्रीकृष्णसंदेशं प्रसन्ना गोपवल्लभाः ।
अश्रुमुख्यो बाष्पकंठ्य उचुरौपगविं नृप ॥ १ ॥
गोलोकवासिन्य उचुः -
विदेशं गतवान्कृष्णस्त्यक्त्वा पूर्वप्रियाञ्जनान् ।
तदुपर्यलिखद्योगमहो निर्मोहताबलम् ॥ २ ॥
द्वारपालिका ऊचुः -
चकोरे ग्लौः पंकजेऽर्को भ्रमरे पंकजं यथा ।
चातके च घनः प्रीतिं न करोति कदाचन ॥ ३ ॥
शृंगारप्रकरा ऊचुः -
चंद्रमित्रं चकोरोऽस्ति सख्यो वह्निकणः सदा ।
विधात्रा यद्विलिखितं तन्न्यूनं न भवेदिह ॥ ४ ॥
शय्योपाकरिका ऊचुः -
व्याधोऽपि हत्वा हि मृगान् स्मरति त्वरमातुरः ।
कटाक्षैः स्वप्रियान्हत्वा निर्मोही न स्मरेदहो ॥ ५ ॥
पार्षदाख्या ऊचुः -
जातं विरहजं दुःखं नान्यो वेत्ति कदाचन ।
यथा कंटकविद्धांगो विद्वान्वा विद्धकंटकः ॥ ६ ॥
वृन्दावनपालिका ऊचुः -
अनिमित्तं प्रेमसौख्यमनिमित्तो हि वेत्ति तत् ।
सनिमित्तो न जानाति रसं कर्मेंद्रियं यथा ॥ ७ ॥
गोवर्धनवासिन्य ऊचुः -
पुरंध्रीप्रेमकृद्यो वै सैरंध्रीनायकोऽभवत् ।
शैलौकोभिस्तु किं तस्य बहुना कथितेन किम् ॥ ८ ॥
कुञ्जविधायिका ऊचुः -
हा माधवीकुञ्जपुञ्जे गुञ्जन्मत्तमधुव्रते ।
स्वदृग्लक्षीकृतो यो वै तस्येयं श्रूयते कथा ॥ ९ ॥
निकुञ्जवासिन्य ऊचुः -
वृन्दावने मत्तमिलिन्दपुञ्जे
     कलिन्दजातीरकदम्बकुञ्जे ।
शनैश्चलंतं सबलं सगोपं
     सगोधनं नंदसुतं भजामः ॥ १० ॥
जाह्नवीयूथ उवाच -
कदा तथाऽस्मत्समयो भविष्यति
     यथा पुरंध्रीसमयः प्रदृश्यते ।
शोकं परं मा कुरुत व्रजांगनाः
     सदा न कस्यापि जयः पराजयः ॥ ११ ॥
यमुनायूथ उवाच -
विधातुर्न दया किंचिद्युनक्ति वियुनक्ति यः ।
भूतानि सकलान्येव क्रीडनानि यथाऽर्भकः ॥ १२ ॥
रमायूथ उवाच -
कुब्जापुराद्यर्जुसमानविग्रहा
     दासी त्विदानीं तु कुलीनतां गता ।
कुरूपिणी रूपवती बभावहो
     चतुर्दिनैर्दुन्दुभिनादकारिणी ॥ १३ ॥
विरजायूथा ऊचुः -
सदा न कस्यापि भुजा प्रियांसे
     सदा वसंतो न सदा युवा स्यात् ।
इन्द्रो न राज्यं कुरुते सदाऽयं
     चतुर्दिनैर्मानमलंकरोतु ॥ १४ ॥
ललितायूथ उवाच -
रामाभिषेकं विनिवार्य मंथरा
     चकार विघ्नं किल कोसले पुरे ।
कुब्जैव सेयं मथुरापुरे गता
     कुब्जैव किं किं न करोति गोपिकाः ॥ १५ ॥
विशाखायूथ उवाच -
गोचारणायानुचरैर्व्रजंतं
     प्रबोधयंतं स्वपुरं विरावैः ।
मत्तेभयानं हि विडंबयंतं
     श्रीनन्दसूनुं न हि विस्मरामः ॥ १६ ॥
मायायूथ उवाच -
संकोचवीथीषु पटे प्रगृह्य
     प्रसह्य दोर्भ्यां हृदये निधाय ।
अन्योन्यमाकर्षणहर्षभीति-
     र्गृहान् हरिं तं हि कदा नयामः ॥ १७ ॥
अष्टसख्य ऊचुः -
वीक्ष्य नन्दसुतमंग सुन्दरं
     नेत्रमद्य न जगद्विपश्यति ।
नन्दराजतनये पुरीं स्थिते
     किं भविष्यति वदाशु नस्त्वरम् ॥ १८ ॥
षोडशसख्य ऊचुः -
वेणुनादमधुरध्वनिं वने
     संनिश्यम्य कुसुमेषुवर्धनम् ।
श्रोत्रयुग्ममिह नः शृणोति नो
     विश्वगीतमुत वा यशः परम् ॥ १९ ॥
द्वात्रिंशत्सख्य ऊचुः -
प्रीत्या स्वमित्रं हि रिपुं नयेन
     लुब्धं धनैश्च द्विजमादरेण ।
गुरुं प्रणामै रसिकं रसेन
     निर्मोहिनं केन वशीकरोति ॥ २० ॥
श्रुतिरूपा ऊचुः -
यज्जागरादिषु भवेषु परं ह्यतेर्हेतु-
     स्विदस्य विचरंति गुणाश्च येन ।
नैतद्विशंति महदिंद्रियदेवसंघा-
     स्तस्मै नमोऽग्निमिव विस्तृतविस्फुलिंगाः ॥ २१ ॥
ऋषिरूपा ऊचुः -
नैवेशितुं प्रभुरयं बलिनां बलिया-
     न्माया न शब्द उत नो विषयीकरोति ।
तद्‍ब्रह्म पूर्णममृतं परमं प्रशांतं
     शुद्धं परात्परतरं शरणं गताः स्मः ॥ २२ ॥
देवांगना ऊचुः -
अंशांशकांशककलाद्यवतारवृन्दै-
     रावेशपूर्णसहिताश्च परस्य यस्य ।
सर्गादयः किल भवंति तमेव कृष्णं
     पूर्णात्परं तु परिपूर्णतमं नताः स्मः ॥ २३ ॥
यज्ञसीता ऊचुः -
श्रीमन्निकुञ्जलतिकाकुसुमाकरोऽयं
     श्रीराधिका हृदयकण्ठविभूषणोऽयम् ।
श्रीरासमंडलपतिर्व्रजमंडलेशो
     ब्रह्मांडमंडलमहीपरिपालकोऽयम् ॥ २४ ॥
रमावैकुण्ठनिवासिन्य ऊचुः -
यो गोपिका सकलयूथमलंचकार
     वृन्दावनं च निजपादरजोभिरद्रिम् ।
यः सर्वलोकविभाय बभूव भूमौ
     तं भूरिलीलमुरगेन्द्रभुजं भजामः ॥ २५ ॥
श्वेतद्वीपसखीजना ऊचुः -
यथा शिलींध्रं शिशुरश्रमो गजः
     स्वपुष्करेणैव च पुष्करं गिरिम् ।
धृत्वा बभौ श्रीव्रजराजनन्दनः
     कृपाकरोऽसौ न हि विस्मृतः क्वचित् ॥ २६ ॥
ऊर्ध्ववैकुण्ठवासिन्य ऊचुः -
श्यामवर्णमये नेत्रे जगच्छ्यामं विपश्यतः ।
न द्वैतं दृश्यते यासां ताभिः किं योगसेवनम् ॥ २७ ॥
अजितपदाश्रिता ऊचुः -
स्नेहपाशो दृढच्छिन्नो न च्छिन्नो हरिणा विना ।
छित्वा तं मथुरां प्रागान्नागपाशं यथा खगः ॥ २८ ॥
लोकाचलवासिन्य ऊचुः -
कृष्णे लग्नं नेत्रयुग्मं धावद्दशदिशांतरम् ।
अहो न लग्नं कुत्रापि पद्मलग्नो यथा ह्यलिः ॥ २९ ॥
श्रीसख्य ऊचुः -
कार्पण्येन यशो हंति क्रुधा गुणगणोदयम् ।
धनानि व्यसनैर्लोकः कपटेनैव मित्रताम् ॥ ३० ॥
मैथिला ऊचुः -
धनं दत्वा तनुं रक्षेत्तनुं दत्वा त्रपां व्यधात् ।
धनं तनुं त्रपां दद्यान्मित्रकार्यार्थमेव हि ॥ ३१ ॥
कौशला ऊचुः -
न कोपि जानाति वियोगजां दशां
     जीवं विना वक्तुमलं न सापि हि ।
भूयादूरोबाणविभिन्नमारा-
     न्माभूत्कदापि प्रियविप्रयोजनम् ॥ ३२ ॥
अयोध्यापुरवासिन्य ऊचुः -
कृत्वा निराशां विनिधाय चाशां
     जगाम चाशां मथुरापुरस्य ।
योगं च तस्योपरि चालिखन्नो
     निर्मोहिनां चित्तमहो विचित्रम् ॥ ३३ ॥
पुलिंदिका ऊचुः -
एनं वरं कर्तुमतीव विह्वलां
     समागतां शूर्पणखां पुरा वने ।
यः कारयामास विरूपिणीं बला-
     त्सौमित्रिणा तेन तु वः कृपा कथम् ॥ ३४ ॥
सुतलवासिन्य ऊचुः -
भक्तं बलिं सत्यपरं भूरिदं
     नीत्वा बलिं यः कुपितो बबन्ध ह ।
अहो कथं तस्य करोति सेवनं
     मायावटोर्वामनरूपधारीणः ॥ ३५ ॥
जालंधर्य ऊचुः
पुरातिकष्टं प्रगतेऽसुरोत्तमे
     कायाधवे भक्तवरे ततो ह्ययम् ।
भूत्वा नृसिंहः कृतवान्सहाय-
     महो परा निष्ठुरता प्रदृश्यते ॥ ३६ ॥
भूमिगोप्य ऊचुः -
अहोऽतिनिर्मोहिजनस्य चित्रं
     परं चरित्रं गदितुं न योग्यम् ।
मुखेन चान्यद्‍धृदि भाव्यमन्य-
     द्देवो न जानाति कुतो मनुष्यः ॥ ३७ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
गोपीवाक्यं नाम सप्तदशोऽध्यायः ॥ १७ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP