श्रीगर्गसंहिता

मथुराखण्डः - दशमोऽध्यायः

रजक-तन्तुवायक-सुदामा-उपाख्यानम् -


बहुलाश्व उवाच -
श्रीकृष्णचरितं पुण्यं मया तव मुखाच्छ्रुतम् ।
पुनः श्रोतुं मनश्चाद्य तृषितो वा जलं गतः ॥ १ ॥
कंसस्य जन्मकर्माणि त्वयोक्तानि श्रुतानि मे ।
केश्यादिदैत्यवर्याणां पूर्वजन्मकृतं श्रुतम् ॥ २ ॥
कोऽयं तु रजकः पूर्वमवधीद्यं हरिः कथम् ।
अहो यस्य महज्ज्योतिः कृष्णे लीनं बभूव ह ॥ ३ ॥
श्रीनारद उवाच -
त्रेतायुगे त्वयोध्यायां रामराज्ये विदेहराट् ।
चाराणां शृण्वतां कश्चिद्‌रजको ह्यवदत्प्रियाम् ॥ ४ ॥
नाहं बिभर्मि त्वां दुष्टामुशतीं परवेश्मगाम् ।
स्त्रीलोभी बिभृयात्सीतां रामो नाहं भजे पुनः ॥ ५ ॥
इति लोकाद्‌बहुमुखाद्‌वाक्यं श्रुत्वाऽथ राघवः ।
सीतां तत्याज सहसा वने लोकापवादतः ॥ ६ ॥
तस्मै दंडं दातुमिच्छां न चक्रे राघवोत्तमः ।
मथुरायां द्वापरांते रजकः स बभूव ह ॥ ७ ॥
कुवाक्यदोषशांत्यर्थं तं जघान हरिः स्वयम् ।
तदपि प्रददौ मोक्षं तस्मै श्रीकरुणानिधिः ॥ ८ ॥
दयालोः कृष्णचन्द्रस्य चरित्रं परमाद्‌भुतम् ।
एतत्ते कथितं राजन् किं भूयः श्रोतुमिच्छसि ॥ ९ ॥
बहुलाश्व उवाच -
पुरा वै वायकः कोऽयं नितरां मुनिसत्तम ।
यस्मै ददौ च सारूप्यं श्रीकृष्णो भगवान्हरिः ॥ १० ॥
श्रीनारद उवाच -
मिथिलानगरे पूर्वं वायको हरिभक्तिकृत् ।
श्रीरामोद्वाहसमये सीरध्वजनृपाज्ञया ॥ ११ ॥
रामलक्ष्मणवेषार्थं वासांसि रचयन् किल ।
लघुसूत्रैः परिवयन् कुशलो वस्त्रकर्मसु ॥ १२ ॥
कोटिकन्दर्पलावण्यौ सुन्दरौ रामलक्ष्मणौ ।
तौ वीक्ष्य वायको राजन्मोहितोऽभून्महामनाः ॥ १३ ॥
अहं स्वहस्तैर्वस्त्राणि तयोरंगेषु सर्वतः ।
परिधानं कारयामि चक्रे चेत्थं मनोरथम् ॥ १४ ॥
मनसाऽपि वरं रामो ददौ तस्मा अशेषवित् ।
द्वापरांते भारते च भविष्यति मनोरथः ॥ १५ ॥
श्रीरामस्य वरात्सोऽयं मथुरायां बभूव ह ।
तयोर्वेषं कारयित्वा तत्सारूप्यं जगाम ह ॥ १६ ॥
बहुलाश्व उवाच -
सुदाम्ना मालिना ब्रह्मन् किं कृतं सुकृतं वद ।
यद्‍गृहं जग्मतुः साक्षाद्‌रामकृष्णौ मनोहरौ ॥ १७ ॥
श्रीनारद उवाच -
राजराजवनं रम्यं नाम्ना चैत्ररथं शुभम् ।
तस्य वै पुष्पबटुको हेममालीति नामभाक् ॥ १८ ॥
विष्णुभक्तिरतः शान्तो दानी सत्संगकृन्महान् ।
श्रीविष्णुदेवप्राप्त्यर्थं देवपूजां चकार ह ॥ १९ ॥
समाः पंचसहस्राणि पद्मानां च शतत्रयम् ।
नित्यं नीत्वा धूर्जटये पुरो धृत्वा ननाम ह ॥ २० ॥
एकदाऽतिप्रसन्नोऽभूत्त्र्यम्बकः करुणानिधिः ।
मालाकार महाबुद्धे वरं ब्रूहीत्युवाच ह ॥ २१ ॥
हेममाली तदा देवं नमस्कृत्य कृताञ्जलिः ।
प्रदक्षिणीकृत्य पुरः स्थित्वा प्राह नताननः ॥ २२ ॥
हेममाल्युवाच -
परिपूर्णतमं कृष्णं क्वचिन्नो गृहमागतम् ।
पश्यामि दृग्भ्यां तं साक्षात्त्वद्वरेण भवेदिदम् ॥ २३ ॥
श्रीमहादेव उवाच -
द्वापरांते भारते च मथुरायां महामते ।
मनोरथस्ते सफलो भविष्यति न संशयः ॥ २४ ॥
श्रीनारद उवाच -
महेश्वरवरेणासौ हेममाली महामनाः ।
मालाकारो द्वापरांते सुदामा संबभूव ह ॥ २५ ॥
तस्मादस्य गृहं साक्षात् जग्मतू रामकेशवौ ।
शिववाक्यामृतं कर्तुं किं भूयः श्रोतुमिच्छसि ॥ २‍६ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
रजकवायकसुदामोपाख्यानं नाम दशमोऽध्यायः ॥ १० ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP