श्रीगर्गसंहिता

मथुराखण्डः - एकादशोऽध्यायः

कुब्जायाः कुवलयापीडस्य पूर्वजन्म -


बहुलाश्व उवाच -
सैरन्ध्र्या किं कृतं पूर्वं तपः परमदुर्घटम् ।
येन प्रसन्नः श्रीकृष्णो देवैरपि सुदुर्लभः ॥ १ ॥
श्रीनारद उवाच -
पंचवट्या स्थितं रामं कोटिकन्दर्पसन्निभम् ।
वीक्ष्य शूर्पणखा नाम्नी राक्षसी मोहिता भृशम् ॥ २ ॥
निर्मोहं राघवं दृष्ट्वाऽथैकपत्‍निव्रतस्थितम् ।
क्रोधात्सीतां भक्षयितुं धावती रावणस्वसा ॥ ३ ॥
खड्गेन शितधारेण लक्ष्मणो राघवानुजः ।
जहार तस्याः कर्णौ च नासां सद्यो रुषान्वितः ॥ ४ ॥
छिन्ननासा गता लंकां रावणाय न्यवेदयत् ।
भूयः पुष्करतीर्थे सा जगाम विमना भृशम् ॥ ५ ॥
तपश्चक्रे शूर्पणखा वर्षाणामयुतं जले ।
ध्यायंती त्र्यंबकं देवं श्रीरामं वरमिच्छती ॥ ६ ॥
ततः प्रसन्नो भगवान्देवदेव उमापतिः ।
एत्य तत्पुष्करं तीर्थं वरं ब्रूहीत्युवाच ह ॥ ७ ॥
शूर्पणखोवाच -
श्रीरामो मे वरो भूयाद्वरं देहि सतां प्रियः ।
त्वं देवदेव परमः सर्वासां आशिषां प्रभुः ॥ ८ ॥
श्रीशिव उवाच -
अद्यैव सफलो न स्याद्वरस्ते शृणु राक्षसि ।
द्वापरांते माथुरे च भविष्यति न संशयः ॥ ९ ॥
श्रीनारद उवाच -
सैव शूर्पणखा नाम राक्षसी कामरूपिणी ।
अभूच्छ्रीमथुरायां तु कुब्जानाम महामते ॥ १० ॥
महादेव वरेणापि श्रीकृष्णस्य प्रियाऽभवत् ।
इदं मया ते कथितं किं भूयः श्रोतुमिच्छसि ॥ ११ ॥
बहुलाश्व उवाच -
कोऽयं कुवलयापीडः पूर्वजन्मनि नारद ।
कथं गजत्वं आपन्नः श्रीकृष्णे लीनतां गतः ॥ १२ ॥
श्रीनारद उवाच -
बलिपुत्रो महाकायो नाम्ना मन्दगतिर्बली ।
सर्वशस्त्रभृतां श्रेष्ठो लक्षनागसमो बली ॥ १३ ॥
एकदा निर्गतः सोऽपि रंगयात्रां जनेषु च ।
मत्ते भवज्जनान्वेगाद्‌भुजाभ्यां परिमर्दयन् ॥ १४ ॥
तद्‌बाहुवेगात्पतितः पथि वृद्धस्त्रितो मुनिः ।
क्रुद्धः शशाप तं मत्तं बलिष्ठं बलिनन्दनम् ॥ १५ ॥
त्रित उवाच -
गजवत्त्वं मदोन्मत्तोऽभूर्जनान्परिमर्दयन् ।
विचरन् रंगयात्रायां त्वं गजो भव दुर्मते ॥ १६ ॥
एवं शप्तस्तदा दैत्यो नाम्ना मन्दगतिर्बली ।
पतत् कंचुकवद्देहो भ्रष्टतेजा बभूव ह ॥ १७ ॥
मुनेः प्रभाववित्सद्यो दैत्यो भूत्वा कृतांजलिः ।
नत्वा प्रदक्षिणीकृत्य त्रितं मुनिमुवाच ह ॥ १८ ॥
मंदगतिरुवाच -
हे मुने हे कृपासिन्धो त्वं योगीन्द्रो द्विजोत्तमः ।
गजत्वान्मे कदामुक्तिर्भविष्यति वदाशु माम् ॥ १९ ॥
त्वादृशानां सतां माभूत् हेलनं मे क्वचिन्मुने ।
त्वादृशा मुनयो ब्रह्मन् समर्था वरशापयोः ॥ २० ॥
श्रीनारद उवाच -
एवं प्रसादितस्तेन त्रितो नाम महामुनिः ।
गतक्रोधोऽब्रवीद्दैत्यं कृपालुर्ब्राह्मणोत्तमः ॥ २१ ॥
त्रित उवाच -
वचनं मे मृषा न स्यात् त्वद्‌भक्त्या हर्षितोऽस्म्यहम् ।
ते दास्याभि वरं दिव्यं देवानामपि दुर्लभम् ॥ २२ ॥
मा शोकं कुरु दैत्येन्द्र मथुरायां हरेः पुरि ।
श्रीकृष्णहस्तात्ते मुक्तिर्भविष्यति न संशयः ॥ २३ ॥
श्रीनारद उवाच -
सोऽयं मन्दगतिर्दैत्यो गजोऽभूद्‌विंध्यपर्वते ।
नाम्ना कुवलयापीडो नागायुतसमो बले ॥ २४ ॥
गृहीतो मागधेन्द्रेण बलाल्लक्षगजैर्वने ।
सोऽयं दत्तस्तु कंसाय पारिबर्हे विदेहराट् ॥ २५ ॥
त्रितवाक्यात्तस्य धाम श्रीकृष्णे लीनतां गतम् ।
इदं मया ते कथितं किं भूयः श्रोतुमिच्छसि ॥ २६ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
कुब्जाकुवलयापीडवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP