श्रीगर्गसंहिता

मथुराखण्डः - नवमोऽध्यायः

रामकृष्णयोः वसुदेव-देवकी साक्षात्कारं उपनयनं सान्दीपनिगृहे अध्ययनं गुरोः मृतपुत्रानयनम् च-


श्रीनारद उवाच -
अथ देवौ रामकृष्णौ देवकीवसुदेवयोः ।
समीपं जग्मतुः साक्षाद्‌वृष्णिभिः परिवारितौ ॥ १ ॥
स्वतस्तयोर्बन्धनानि ययुः शिथिलतां नृप ।
तौ वीक्ष्य गरुडं प्राप्तं नागपाशगुणा यथा ॥ २ ॥
स्वप्रभावविदौ वीक्ष्य पितरौ सबलो हरिः ।
सद्यस्ततान स्वां मायां जगन्मोहकरीं बलात् ॥ ३ ॥
रामकृष्णौ सुतौ ज्ञात्वा शौरिर्मोहसमाकुलः ।
देवक्या सहासोत्थाय सस्वजे चाश्रुपूरितः ॥ ४ ॥
तावाश्वास्य हरिः सद्यो वृष्णिभिः परिवारितः ।
मातामहं तूग्रसेनं चकार मथुराधिपम् ॥ ५ ॥
आहूय यादवान्कंसभयाद्देशांतरं गतान् ।
प्रेम्णा निवासयामास सकुटुम्बान् यदोः पुरि ॥ ६ ॥
नंदराजं गोपगणैः स्वगृहान् गंतुमुद्यतम् ।
नत्वा तं सबलः प्राह मोहयन्निव मायया ॥ ७ ॥
अत्रैव वासं कुरु तात पुर्यां
     गंतुं यदीच्छा मनसोत्थिता स्यात् ।
पश्चादहं वै सबलो यदून् वा
     विधाय पार्श्वं तव चागमिष्ये ॥ ८ ॥
श्रीनारद उवाच -
एवं श्रीरामकृष्णाभ्यां नंदराजः प्रपूजितः ।
आलिंग्य शौरिं गोपालैर्ययौ प्रेमातुरो व्रजम् ॥ ९ ॥
दत्तं श्रीकृष्णजन्मर्क्षे धेनूनां नियुतं पुरा ।
ब्राह्मणेभ्यो ददौ शौरिर्वस्त्रमालास्वलंकृतम् ॥ १० ॥
शौरिर्गर्गं समाहूय श्रीकृष्णबलदेवयोः ।
यज्ञोपवीतं विधिवत्कारयामास धर्मवित् ॥ ११ ॥
रामकृष्णौ सर्वविद्याध्ययनं कर्तुमुद्यतौ ।
गुरोः सांदीपनेः पार्श्वं जग्मतुर्जनवत्परौ ॥ १२ ॥
कृत्वा परां गुरोः सेवां लघुकालेन माधवौ ।
सर्वविद्यां जगृहतुः सर्वविद्याविदां वरौ ॥ १३ ॥
गुरवे दक्षिणां दातुमुद्यतौ तौ कृताञ्जली ।
मृतं पुत्रं दक्षिणायां ताभ्यां वव्रे गुरुर्द्विजः ॥ १४ ॥
रथमारुह्य तौ दांतौ शातकुम्भपरिच्छदम् ।
प्रभासे चाब्धिनिकटं जग्मतुर्भीमविक्रमौ ॥ १५ ॥
सद्यः प्रकंपितः सिन्धू रत्‍नोपायनमुत्तमम् ।
नित्वा तच्चरणोपांते निपपात कृताञ्जलिः ॥ १६ ॥
तमाह भगवाञ्छीघ्रं पुत्रं देहि गुरोर्मम ।
प्रचंडोर्मिघटाटोपैस्त्वया तद्‍ग्रहणं कृतम् ॥ १७ ॥
समुद्र उवाच -
भगवन् देवदेवेश न मया बालको हृतः ।
हृतः पंचजनेनासौ शंखरूपासुरेण वै ॥ १८ ॥
वसन् सदा मदुदरे बलिष्ठो दैत्यपुंगवः ।
जेतुं योग्यस्त्वया देव देवानां भयकारकः ॥ १९ ॥
श्रीनारद उवाच -
तेनेक्तो भगवान्कृष्णो वासो बद्ध्वा कटौ दृढम् ।
निपपात महावेगात्समुद्रे भीमनादिनि ॥ २० ॥
श्रीकृष्णस्य निपातेन त्रिलोकीभारधारिणः ।
चकंपेऽब्धिर्भृशं वज्रकूटेनेव विदेहराट् ॥ २१ ॥
ततः पंचजनो दैत्यो योद्धुं श्रीकृष्णसंमुखे ।
आगतः सहसा वीरः शूलं चिक्षेप माधवे ॥ २२ ॥
हस्ते गृहीत्वा तच्छूलं तेनैवाभिजघान तम् ।
तद्घातेन प्रपतितो मूर्च्छितो वारिमंडले ॥ २३ ॥
सहसोत्थाय देवेशं किंचिद्‌व्यायाकुलमानसः ।
मूर्ध्ना तताड पक्षींद्रं स्वफणेन फणी यथा ॥ २४ ॥
परिपूर्णतमः साक्षात् श्रीकृष्णो भगवान् हरिः ।
क्रुद्धो मूर्द्धनि वेगेन मुष्टिना तं तताड ह ॥ २५ ॥
कृष्णमुष्टिप्रहारेण सद्यो वै निधनं गतः ।
तज्ज्योतिः श्रीघनश्यामे लीनं जातं विदेहराट् ॥ २६ ॥
एवं हत्वा पंचजनं शंखं नीत्वा तदंगजम् ।
महार्णवान्निर्गतोऽसौ सहसा रथमागमत् ॥ २७ ॥
वायुवेगेन यानेन रामकृष्णौ मनोहरौ ।
जग्मतुः शमनस्यापि दीर्घां संयमनीं पुरीम् ॥ २८ ॥
पांचजन्यध्वनिर्लोकं प्रचंडो मेघघोषवत् ।
पूरयामास तं श्रुत्वा चकंपे ससभो यमः ॥ २९ ॥
चतुरशीतिलक्षेषु नरकेषु निपातिताः ।
यैर्यैः श्रुता ध्वनिस्ते ते जग्मुर्मोक्षं तु पापिनः ॥ ३० ॥
यमः सद्यो बलिं नीत्वा श्रीकृष्णबलदेवयोः ।
पपात चरणोपांते धर्षितः सन्कृताञ्जलिः ॥ ३१ ॥
यम उवाच -
हे हरे हे कृपासिन्धो राम राम महाबल ।
असंख्यब्रह्मांडपती परिपूर्णतमौ युवाम् ॥ ३२ ॥
देवौ पुराणौ पुरुषौ महांतौ
     सर्वेश्वरौ सर्वजगज्जनेशौ ।
अद्यैव सर्वोपरि वर्तमानौ
     गिरा निजाज्ञां वदतं परेशौ ॥ ३३ ॥
श्रीभगवानुवाच -
गुरुपुत्रं लोकपाल आनयस्व महामते ।
राज्यं कुरु यथान्यायं मदुक्तं मानयन् क्वचित् ॥ ३४ ॥
श्रीनारद उवाच -
तदैव तेनोपानीतं गुरुपुत्रं हरिः स्वयम् ।
गृहीत्वाऽवंतिकामेत्य ददौ श्रीगुरवे शिशुम् ॥ ३५ ॥
गुर्वाशिषा संयुतौ तौ नत्वा तं हि कृताञ्जली ।
रथमारुह्य मथुरामागतौ यदुपूजितौ ॥ ३६ ॥
एकदा सबलः कृष्णः सर्वकारणकारकः ।
पांडवान्संस्मरन्भक्तानक्रूरभवनं ययौ ॥ ३७ ॥
अक्रूरः सहसोत्थाय परिरभ्य मुदान्वितः ।
उपचारैः षोडशभिः पूजयित्वाऽथ तौ नृप ॥ ३८ ॥
कृतांजलिः पुरः स्थित्वा जातपूर्णमनोरथः ।
उवाचानंदजनितां मुंचन्बाष्पकलां नृप ॥ ३९ ॥
अक्रूर उवाच -
युवाभ्यां रामकृष्णाभ्यां ताभ्यां नित्यं नमो नमः ।
याभ्यां मार्गे यदुक्तं मे पूर्णं तच्च कृतं प्रभू ॥ ४० ॥
लोकाभिरामौ जनभूषणोत्तमौ
     चांतर्बहिःसर्वजगत्प्रदीपकौ ।
गोविप्रसाधुश्रुतिधर्मदेवता-
     रक्षार्थमद्यैव यदोः कुले गतौ ॥ ४१ ॥
कंसादिदैत्येन्द्रविनाशहेतवे
     गोलोकलोकात्परिपूर्णतेजसौ ।
समागतौ भारतभूमिमंडले
     युवां परेशौ सततं नतोऽस्म्यहम् ॥ ४२ ॥
श्रीभगवानुवाच -
त्वमार्यवृद्धो धृतिमानहं तव पुरः शिशुः ।
संतो नः स्वात्मनः श्लाघ्यं कुर्वंति हि महामते ॥ ४३ ॥
पांडवानां हि कुशलं द्रष्टुं गच्छ गजाह्वयम् ।
शीघ्रमागच्छ तान्दृष्ट्वा सर्वान् दानपते भवान् ॥ ४४ ॥
श्रीनारद उवाच -
एवमुक्त्वा तदाऽक्रूरं भगवान् भक्तवत्सलः ।
सबलः शौरिभवनमाययौ सर्वकार्यकृत् ॥ ४५ ॥
कौरवेन्द्रपुरं गत्वाऽक्रूरो दृष्ट्वाऽथ पांडवान् ।
पुनरागत्य कृष्णाय वार्तां सर्वामवर्णयत् ॥ ४६ ॥
अक्रूर उवाच -
विना युवां कोऽपि न पांडवानां
     सहायकृत्कौरव दुःखभोगिनाम् ।
मृते च पांडौ भवतोः पदांबुजे
     विलग्नचित्ता हि पृथात्मजा ये ॥ ४७ ॥
श्रीनारद उवाच -
इति श्रुत्वाऽक्रूरमुखात् श्रीकृष्णो भगवान्हरिः ।
अर्धं राज्यं पांडवेभ्यः कौरवाणां बलाद्ददौ ॥ ४८ ॥
अथोक्तं वचनं स्मृत्वा तदोद्धवसमन्वितः ।
महामंगलसंयुक्तं कुब्जाया भवनं ययौ ॥ ४९ ॥
दृष्ट्वाराच्छ्रीहरिं प्राप्तं कुब्जा रूपवती त्वरम् ।
भक्त्या समर्हयामास पाद्याद्यैः प्राणवल्लभम् ॥ ५० ॥
हेमरत्‍नखचित्कुड्ये कुब्जाया भवनोत्तमे ।
बभौ हरी रूपवत्या वैकुण्ठे रमया यथा ॥ ५१ ॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ।
यस्याः पतिरभूद्‌राजन्नहो तस्यास्तपो महत् ॥ ५२ ॥
तत्र स्थित्वा हरिर्देवो दिनान्यष्टौ विदेहराट् ।
आययौ शौरिभवनं लीलामानुषविग्रहः ॥ ५३ ॥
इति श्रीकृष्णचरितं मथुरायां विदेहराट् ।
सर्वपापहरं पुण्यमायुर्वर्द्धनमुत्तमम् ॥ ५४ ॥
चतुष्पदार्थदं नॄणां श्रीकृष्णवशकारकम् ।
मया ते कथितं पृष्टं किं भूयः श्रोतुमिच्छसि ॥ ५५ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
यदुसौख्यं नाम नवमोऽध्यायः ॥ ९ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP