श्रीगर्गसंहिता
वृंदावनखण्ड - एकोनविंशोऽध्यायः
रासक्रीडा वर्णनम् -
बहुलाश्व उवाच -
राधायै दर्शनं दत्त्वा कृत्वा प्रेमपरीक्षणम् ।
अग्रे चकार कां लीलां भगवानात्मलीलया ॥ १ ॥
श्रीनारद उवाच -
माधवो माधवे मासि माधवीभिः समाकुले ।
वृंदावने समारेभे रासं रासेश्वरः स्वयम् ॥ २ ॥
वैशाखमासि पंचम्यां जाते चन्द्रोदये शुभे ।
यमुनोपवने रेमे रासेश्वर्या मनोहरः ॥ ३ ॥
पुरा मैथिल गोलोकाद् भूमिर्या कौ समागता ।
सर्वा बभूव सौवर्णपद्मरागमयी त्वरम् ॥ ४ ॥
वृन्दावनं दिव्यवपुः दधत् कामदुघैर्द्रुमैः ।
माधवीभिर्लताभिश्च प्राक्षिपन्नन्दनन्दनम् ।
रत्नसोपानसंपन्ना स्फुरत्सौवर्णतोलिका ।
रराज यमुना राजन् हंसपद्मादिसंकुला ॥ ६ ॥
रत्नधातुमयः श्रीमद्रत्नशृङ्गस्फुरद्द्युतिः ।
सपक्षिगणसंयुक्तो लतापुष्पमनोहरः ॥ ७ ॥
निर्झरैः सुन्दरीभिश्च दरीभिर्भ्रमरीवृतः ।
रेजे गोवर्धनो नाम गिरिराजः करीन्द्रवत् ॥ ८ ॥
सर्वे निकुंजाः परितो रेजुर्दिव्यवपुर्धराः ।
सभामण्डपवीथीभिः प्रांगणस्तंभपंक्तिभिः ॥ ९ ॥
पतत्पताकैर्दिव्याभैः सौवर्णैः कलशैर्नृप ।
स्वेतारुणैः पुष्पदलैः पुष्पमन्दिरवर्तिभिः ॥ १० ॥
वसन्तमाधुर्यधराः कूजत्कोकिलसारसाः ।
पारावतैर्मयूरैश्च यत्र तत्र निकूजिताः ॥ ११ ॥
राधाकृष्णकथां पुण्यां गायमानैर्मधुव्रतैः ।
पतद्भिर्मधुमत्तैश्च कुंजाः सर्वे विराजिताः ॥ १२ ॥
पुलिने शीतलो वायुः मन्दगामी वहत्यलम् ।
सहस्रदलपद्मानां रजो विक्षेपयन्मुहुः ॥ १३ ॥
काश्चिद्गोलोकवासिन्यः काश्चिच्छय्योपकारिकाः ।
शृङ्गारप्रकराः काश्चित्काश्चित्वै द्वारपालिकाः ॥ १४ ॥
पार्षदाख्याः सखिजनाः छत्रचामरपाणयः ।
पुष्पाभरणकारिण्यः श्रीवृन्दावनपालिकाः ॥ १५ ॥
गोवर्धननिवासिन्यः काश्चित्कुंजविधायिकाः ।
तन्निकुंजनिवासिन्यो नर्तक्यो वाद्यतत्पराः ॥ १६ ॥
सर्वा वै चन्द्रवदनाः किशोरवयसा नृप ।
आसां द्वादशयूथाश्चा जग्मुः श्रीकृष्णसन्निधिम् ॥ १७ ॥
तथैव यमुना साक्षाद्यूथीभूत्वा समाययौ ।
श्वेताम्बरा श्वेतवर्णा मुक्ताभरणभूषिता ॥ १८ ॥
तथाऽऽययौ कृष्णपत्नी नाम्ना या मधुमाधवी ।
पद्मवर्णा पुष्पभूषा यूथीभूत्वा शुभांबरा ॥ २१ ॥
तथैव विरजा साक्षाद्यूथीभूत्वा समाययौ ।
हरिद्वस्त्रा गौरवर्णा रत्नालंकारभूषिता ॥ २२ ॥
ललिताया विशाखाया मायायूथः समाययौ ।
एवं स्वष्टसखीनां च सखीनां किल षोडश ॥ २३ ॥
द्वात्रिंशच्च सखीनां च यूथा सर्वे समाययुः ।
रराज भगवान् राजन् स्त्रीगणै रासमण्डले ॥ २४ ॥
वृन्दावने यथाऽऽकाशे चंद्रस्तारागणैर्यथा ।
पीतवासःपरिकरो नटवेषो मनोहरः ॥ २५ ॥
वेत्रभूद्वादयन् वंशीं गोपीनां प्रीतिमावहन् ।
मयूरपक्षभृन्मौली स्रग्वी कुण्डलमण्डितः ॥ २६ ॥
राधया शुशुभे रासे यथा रत्या रतीश्वरः ।
एवं गायन् हरिः साक्षात्सुन्दरीगणसंवृतः ॥ २७ ॥
यमुनापुलिनं पुण्यमाययौ राधया युतः ।
गृहीत्वा हस्तपादेन पद्माभं स्वप्रियाकरम् ॥ २८ ॥
निषसाद हरिः कृष्णातीरे नीरमनोहरे ।
पुनर्जल्पन् सुमधुरं पश्यन् वृन्दावनं प्रियम् ॥ २९ ॥
चलन् हसन् राधिकया कुंजं कुंजं चचार ह ।
कुंजे निलीयमानं तं त्वरं त्यक्त्वा प्रियाकरम् ॥ ३० ॥
विलोक्य शाखान्तरितं राधा जग्राह माधवम् ।
राधा दुद्राव तद्धस्ताज्झंकारं कुर्वती पदे ॥ ३१ ॥
निलीयमाना कुंजेषु पश्यतो माधवस्य च ।
धावन् हरिर्गतो यावत्तावद्राधा ततो गता ॥ ३२ ॥
वृक्षपार्श्वे हस्तमात्रादितश्चेतश्च धावती ।
तमालो हेमवल्ल्येव घनश्चंचलया यथा ॥ ३३ ॥
हेमखन्येव नीलाद्री रेजे राधिकया हरिः ।
राधया विश्वमोहिन्या बभौ मदनमोहनः ॥ ३४ ॥
वृन्दावने रासरंगे रत्येव मदनो यथा ।
धृत्वा रूपाणि तावन्ति यावन्ति व्रजयोषितः ॥ ३५ ॥
ननर्त रासरंगेऽसौ रंगभूम्यां नटो यथा ।
गायन्त्यश्चापि नृत्यन्त्यः सर्वा गोप्यो मनोहराः ॥ ३६ ॥
विरेजुः कृष्णचन्द्रैश्च यथा शक्रैः सुरांगनाः ।
वारां विहारं कृष्णायां चकार मधुसूदनः ॥ ३७ ॥
सर्वैर्गोपीगणैः सार्धं यक्षीभिर्यक्षराडिव ।
कबरीकेशपाशाभ्यां प्रसूनैः प्रच्युतैः शुभैः ।
चित्रवर्णैर्बभौ कृष्णो यथोष्णिङ्मुद्रिता तथा ॥ ३८ ॥
मृदंगतालैर्मधुरध्वनिस्वनै-
र्जगुर्यशस्ता मधुसूदनस्य ।
प्रापुर्मुदं पूर्णमनोरथाश्चल-
त्प्रसूनहारा हरिणा गतव्यथाः ॥ ३९ ॥
श्रीहस्तसंताडितवारिबिंदुभिः
स्फारासमस्फूर्जितशीकरद्युभिः ।
वृन्दावनेशो व्रजसुंदरीभी
रेजे गजीभिर्गजराडिव स्वयम् ॥ ४० ॥
विद्याधर्यो देवगंधर्वपत्न्यः
पश्यन्त्यस्ता रासरंगं दिविस्थाः ।
देवैः सार्धं चक्रिरे पुष्पवर्षं
मोहं प्राप्ताः प्रश्लथद्वस्त्रनीव्यः ॥ ४१ ॥
इति श्रीगर्गसंहितायां वृन्दावनखण्डे रासक्रीडावर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|