श्रीगर्ग संहिता - वृंदावनखण्डः - विंशोऽध्यायः

श्रीगर्गसंहिता

वृंदावनखण्ड - विंशोऽध्यायः

रासक्रीडा वर्णनम् -


अथ कृष्णो हरिर्वारि लीलां कृत्त्वा मनोहरः ।
सर्वैर्गोपीगणैः सार्धं गिरिं गोवर्धनं ययौ ॥ १ ॥
गोवर्धने कन्दरायां रत्‍नभूम्यां हरिः स्वयम् ।
रासं च राधया सार्धं रासेश्वर्या चकार ह ॥ २ ॥
तत्र सिंहासने रम्ये तस्थतुः पुष्पसंकुले ।
तडिद्‌घनाविव गिरौ राधाकृष्णौ विरेजतुः ॥ ३ ॥
स्वामिन्यास्तत्र शृङ्गारं चक्रुः सख्यो मुदान्विताः ।
श्रीखण्डकुंकुमाद्यैश्च यावकागुरुकञ्जलैः ॥ ४ ॥
मकरन्दैः कीर्तिसुतां समभ्यर्च्य विधानतः ।
ददौ श्रीयमुना साक्षाद्‌राधायै नूपुराण्यलम् ॥ ५ ॥
मंजीरभूषणं दिव्यं श्रीगंगा जह्नुनन्दिनी ।
श्रीरमा किंकिणीजालं हारं श्रीमधुमाधवी ॥ ६ ॥
चंद्रहारं च विरजा कोटिचंद्रामलं शुभम् ।
ललिता कंचुकमणिं विशाखा कण्ठभूषणम् ॥ ७ ॥
अङ्गुलीयकरत्‍नानि ददौ चंद्रानना तदा ।
एकादशी राधिकायै रत्‍नाढ्यं कंकणद्वयम् ॥ ८ ॥
भुजकंकणरत्‍नानि शतचंद्रानना ददौ ।
तस्यै मधुमती साक्षात् स्फुरद्रत्‍नांगदद्वयम् ॥ ९ ॥
ताटंकयुगलं बन्दी कुंडले सुखदायिनी ।
आनंदी या सखी मुख्या राधायै भालतोरणम् ॥ १० ॥
पद्मा सद्भालतिलकं बिन्दुं चंद्रकला ददौ ।
नासामौक्तिकमालोलं ददौ पद्मावती सती ॥ ११ ॥
बालार्कद्युतिसंयुक्तं भालपुष्पं मनोहरम् ।
श्रीराधायै ददौ राजन् चंद्रकांता सखी शुभा ॥ १२ ॥
शिरोमणिं सुंदरी च रत्‍नवेणीं प्रहर्षिणी ।
भूषणे चन्द्रसूर्याख्ये विद्युत्कोटिसमप्रभे ॥ १३ ॥
राधिकायै ददौ देवी वृन्दा वृन्दावनेश्वरी ।
एवं शृङ्गारसंस्फूर्जद्‌रूपया राधया हरिः ॥ १४ ॥
गिरिराजे बभौ राजन् यज्ञो दक्षिणया यथा ।
यत्र वै राधया रासे शृङ्गारोऽकारि मैथिल ॥ १५ ॥
तत्र गोवर्धने जातं स्थलं शृङ्गारमंडलम् ।
अथ कृष्णः स्वप्रियाभिर्ययौ चन्द्रसरोवरम् ॥ १६ ॥
चकार तज्जले क्रीडां गजीभिर्गजराडिव ।
तत्र चंद्रः समागत्य चंद्रकान्तौ मणी शुभौ ॥ १७ ॥
सहस्रदलपद्मे द्वे स्वामिन्यै हरये ददौ ।
अथ कृष्णो हरिः साक्षात् पश्यन् वृंदावनश्रियम् ॥ १८ ॥
प्रययौ बाहुलवनं लताजालसमन्वितम् ।
तत्र स्वेदसमायुक्तं वीक्ष्य सर्वं सखीजनम् ॥ १९ ॥
रागं तु मेघमल्लारं जगौ वंशीधरः स्वयम् ।
सद्यस्तत्रैव ववृषुर्मेधा अंबुकणांस्तथा ॥ २० ॥
तदैव शीतलो वायुर्ववौ गंधमनोहरः ।
तेन गोपीगणाः सर्वे सुखं प्राप्ता विदेहराट् ॥ २१ ॥
जगुर्यशः श्रीमुरारेरुच्चैस्तत्र समन्विताः ।
तस्मात्तालवनं प्रागाच्छ्रीकृष्णो राधिकापतिः ॥ २२ ॥
रासमंडलमारेभे गायन् व्रजवधूवृतः ।
तत्र गोपीगणाः सर्वे स्वेदयुक्तास्तृषातुराः ॥ २३ ॥
गोप्य ऊचुः -
ऊचू रासेश्वरं रासे कृतांजलिपुटाः शनैः ।
दूरं वै यमुना देव तृषा जाता परं हि नः ॥ २४ ॥
कर्तव्यं भवताऽत्रैव रासे दिव्यं मनोहरम् ।
वारां विहारं पानं च करिष्यामो हरे वयम् ॥ २५ ॥
श्रीनारद उवाच -
जगत्कर्ता पालकस्त्वं संहारस्यापि नायकः ।
तच्छ्रुत्वा वेत्रदण्डेन कृष्णो भूमिं तताड ह ॥ २६ ॥
तदैव निर्गतः स्रोतो वेत्रगंगेति कथ्यते ।
यज्जलस्पर्शमात्रेण ब्रह्महत्या प्रमुच्यते ॥ २७ ॥
तत्र स्नात्वा नरः कोऽपि गोलोकं याति मैथिल ।
गोपीभी राधया सार्धं श्रीकृष्णो भगवान् हरिः ॥ २८ ॥
वारां विहारं कृतवान् देवो मदनमोहनः ।
ततः कुमुद्वनं प्राप्तो लतावृन्दं मनोहरम् ॥ २९ ॥
भ्रमरध्वनिसंयुक्तं चक्रे रासं सखीजनैः ।
राधा तत्रैव शृङ्गारं श्रीकृष्णस्य चकार ह ॥ ३० ॥
पुष्पैर्नानाविधैर्द्रव्यैः पश्यन्तीनां व्रजौकसाम् ।
चम्पकोद्यत्परिकरः स्वर्णयूथीभुजांगदः ॥ ३१ ॥
सहस्रदलराजीव कर्णिकाविलसच्छ्रुतिः ।
मोहिनीमालिनीकुन्दकेतकीहारभृद्धरिः ॥ ३२ ॥
कदम्बपुष्पविलसत्किरीटकटकोज्ज्वलः ।
मंदारपुष्पोत्तरीयपद्मयष्टिधरः प्रभुः ॥ ३३ ॥
तुलसीमंजरीयुक्तवनमालाविभूषितः ।
एवं शृङ्गारतां प्राप्तः श्रीकृष्णः प्रियया स्वया ॥ ३४ ॥
बभौ कुमुद्वने राजन् वसन्तो हर्षितो यथा
मृदंगवीणावशीभिर्मुरुयष्टिसुकांस्यकैः ॥ ३५ ॥
तालशेषैस्तलैर्युक्ता जगुर्गोप्यो मनोहरम् ।
भैरवं मेघमल्लारं दीपकं मालकोशकम् ॥ ३६ ॥
श्रीरागं चापि हिन्दोलं रागमेवं पृथक् पृथक् ।
अष्टतालैस्त्रिभिर्ग्रामैः स्वरैः सप्तभिरग्रतः ॥ ३७ ॥
नृत्यैर्नानाविधै रम्यैः हावभावसमन्वितैः ।
तोषयन्त्यो हरिं राह्दां कटाक्षैर्व्रजगोपिकाः ॥ ३८ ॥
गायन्मधुवनं प्रागात्सुंदरीगणसंवृतः ।
रासेश्वर्या रासलीलां चक्रे रासेश्वरः स्वयम् ॥ ३९ ॥
वैशाखचंद्रकौमुद्या मालतीगंधवायुना ।
स्फुरत्सुगंधकह्लार पतद्‌रेणूत्करेण वै ॥ ४० ॥
विकचन् माधवीवृंदैः शोभिते निर्जने वने ।
रेमे गोपीगणैः कृष्णो नन्दने वृत्रहा यथा ॥ ४१ ॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
रासक्रीडावर्णनं नाम विंशोऽध्यायः ॥ २० ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP