श्रीगर्ग संहिता - वृंदावनखण्डः - चतुर्थोऽध्यायः

श्रीगर्गसंहिता

वृंदावनखण्ड - चतुर्थोऽध्यायः

वत्सासुरमोक्षः -


सन्नन्दस्य वचः श्रुत्वा गन्तुं नन्दः समुद्यतः ।
सर्वैर्गोपगणैः सार्धं मुदितोऽभून्महामनाः ॥ १ ॥
यशोदया च रोहिण्या सर्वगोपीगणैः सह ।
अश्वै रथैर्वीरजनैर्मण्डितो विप्रमंडलैः ॥ २ ॥
गोभिश्च शकटैर्युक्तो वृद्धैर्बालैस्तथानुगैः ।
गायकैर्गीयमानश्च शंखदुंदुभिनिःस्वनैः ॥ ३ ॥
पुत्राभ्यां रामकृष्णाभ्यां नन्दराजो महामतिः ।
रथमारुह्य हे राजन् वनं वृंदावनं ययौ ॥ ४ ॥
वृषभानुवरो गोपो गजमारुह्य भार्यया ।
अंके नीत्वा सुतां राधां गीयमानश्च गायकैः ॥ ५ ॥
मृदंगतालवीणानां वेणूनां कलनिःस्वनैः ।
गोपालगोगणैः सार्धं वृन्दारण्यं जगाम ह ॥ ६ ॥
उपनन्दास्तथा नन्दाः तथा षड् वृषभानवः ।
सर्वैः परिकरैः सार्धं जग्मुर्वृन्दावनं वनम् ॥ ७ ॥
वृंदावने संप्रविश्य गोपाः सर्वे सहानुगाः ।
घोषान् विधाय वसतीर्वासं चक्रुरितस्ततः ॥ ८ ॥
सभामण्डपसंयुक्तं सदुर्गं परिखायुतम् ।
चतुर्योजनविस्तीर्णं सप्तद्वारसमन्वितम् ॥ ९ ॥
सरोवरैः परिवृतं राजमार्गं मनोहरम् ।
सहस्रकुञ्जं च पुरं वृषभानुरचीकॢपत् ॥ १० ॥
श्रीकृष्णो नन्दनगरे वृषभानुपुरेऽर्भकैः ।
चचार क्रीडनपरो गोपीनां प्रीतिमावहन् ॥ ११ ॥
अथ वृन्दावने राजन् सर्वगोपालसम्मतौ ।
बभूवतुर्वत्सपालौ रामकृष्णौ मनोहरौ ॥ १२ ॥
चारयामासतुर्वत्सान् ग्रामसीम्न्यर्भकैः सह ।
कालिन्दीनिकटे पुण्ये पुलिने रामकेशवौ ॥ १३ ॥
निकुञ्जेषु च कुञ्जेषु सम्प्रलीनावितस्ततः ।
रिङ्‌गमाणौ च कुत्रापि नन्दंतौ चेरतुर्वने ॥ १४ ॥
किंकिणीजालसंयुक्तौ सिञ्चन्मञ्जीरनूपुरौ ।
नीलपीताम्बरधरौ हारकेयूरभूषितौ ॥ १५ ॥
क्षेपणैः क्षिपतौ बालैर्वंशीवादनतत्परौ ।
मुखेन किंकिणीशब्दं कुर्वद्‌भिर्बालकैश्च तौ ॥ १६ ॥
धावन्तौ पक्षिभिश्छायां रेजतू रामकेशवौ ।
मयूरपक्षसंयुक्तौ पुष्पपल्लवभूषितौ ॥ १७ ॥
एकदा वत्सवृन्देषु प्राप्तं वत्सासुरं नृप ।
कंसप्रणोदितं ज्ञात्वा शनैस्तत्र जगाम ह ॥ १८ ॥
धावन् गोपेषु सर्वत्र लांगूलं चालयन्मुहुः ।
दैत्यः पश्चिमपादाभ्यां हरिमंसे तताड ह ॥ १९ ॥
पलायितेषु बालेषु कृष्णस्तं पादयोर्द्वयोः ।
गृहीत्वा भ्रामयित्वाश्च पातयामास भूतले ॥ २० ॥
पुनर्नीत्वा कराभ्यां तं कपित्थे प्राहिणोद् हरिः ।
तदा मृत्युं गते दैत्ये कपित्थोऽपि महाद्रुमः ॥ २१ ॥
कपित्थान् पातयामास तदद्‌भुतमिवाभवत् ।
विस्मितेषु च बालेषु साधु साध्विति वादिषु ॥ २२ ॥
दिवि देवा जयारावैः पुष्पवर्षं प्रचक्रिरे ।
तद्दैत्यस्य महज्ज्योतिः कृष्णे लीनं बभूव ह ॥ २३ ॥
श्रीबहुलाश्व उवाच -
अहो पूर्वं सुकृतकृत्कोऽयं वत्सासुरो मुने ।
श्रीकृष्णे लीनतां प्राप्तः श्रीप्रपूर्णे परात्परे ॥ २४ ॥
श्रीनारद उवाच -
मुरुपुत्रो महादैत्यः प्रमीलो नाम देवजित् ।
वसिष्ठस्याश्रमे प्राप्तो नन्दिनीं गां ददर्श ह ॥ २५ ॥
तल्लिप्सुर्ब्राह्मणो भूत्वा ययाचे गां मनोहराम् ।
तूष्णीं स्थिते गौरुवाच वसिष्ठे दिव्यदर्शने ॥ २६ ॥
नन्दिनी उवाच -
मुनीनां गां समाहर्तुं भूत्वा विप्रः समागतः ।
दैत्योऽसि मुरुजस्तस्माद्‌गोवत्सो भव दुर्मते ॥ २७ ॥
श्रीनारद उवाच -
तदैव वत्सरूपोऽभून्मुरुपुत्रो महासुरः ।
वसिष्ठं गां परिक्रम्य नत्वा त्राहीत्युवाच ह ॥ २८ ॥
गौरुवाच -
द्वापरान्ते महादैत्य वृंदारण्ये यदा तव ।
गोवत्सेषु गतस्यापि तदा मुक्तिर्भविष्यति ॥ २९ ॥
श्रीनारद उवाच -
परिपूर्णतमे साक्षाच्छ्रीकृष्णे पतितपावने ।
तस्मात् वत्सासुरो दैत्यो लीनोऽभूत् न हि विस्मयः ॥ ३० ॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
वत्सासुरमोक्षो नाम चतुर्थोऽध्यायः ॥ ४ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP