श्रीगर्गसंहिता
वृंदावनखण्ड - तृतीयोऽध्यायः
गिरिराजोत्पत्तिकथनम् -
सन्नन्द उवाच -
गोलोके हरिणाऽऽज्ञप्ता कालिन्दी सरितां वरा ।
कृष्णं प्रदक्षिणीकृत्य गन्तुमभ्युद्यताभवत् ॥ १ ॥
तदैव विरजा साक्षाद्गङ्गा ब्रह्मद्रवोद्भवा ।
द्वे नद्यौ यमुनायां तु संप्रलीने बभूवतुः ॥ २ ॥
परिपूर्णतमां कृष्णां तस्मात् कृष्णस्य नन्दराट् ।
परिपूर्णतमस्यापि पट्टराज्ञीं विदुर्जनाः ॥ ३ ॥
ततो वेगेन महता कालिन्दी सरितां वरा ।
बिभेद विरजावेगं निकुंजद्वारनिर्गता ॥ ४ ॥
असंख्यब्रह्मांडचयं स्पृष्ट्वा ब्रह्मद्रवं गता ।
भिन्दन्ती तज्जलं दीर्घं स्ववेगेन महानदी ॥ ५ ॥
वामपादांगुष्ठनखभिन्नब्रह्मांडमस्तके ।
श्रीवामनस्य विवरे ब्रह्मद्रवसमाकुले ॥ ६ ॥
तस्मिन् श्रीगंगया सार्धं प्रविष्टाऽभूत्सरिद्वरा ।
वैकुंठं चाजितपदं संप्राप्य ध्रुवमंडले ॥ ७ ॥
ब्रह्मलोकमभिव्याप्य पतन्ती ब्रह्ममंडलात् ।
ततः सुराणां शतशो लोकाल्लोकं जगाम ह ॥ ८ ॥
ततः पपात वेगेन सुमेरुगिरिमूर्धनि ।
गिरिकूटानतिक्रम्य भित्त्वा गंडशिलातटान् ॥ ९ ॥
सुमेरोर्दक्षिणदिशं गन्तुमभ्युदिताभवत् ।
ततः श्रीयमुना साक्षाच्छ्रीगंगायां विनिर्गता ॥ १० ॥
गंगा तु प्रययौ शैलं हिमवन्तं महानदी ।
कृष्णा तु प्रययौ शैलं कलिन्दं प्राप्य सा तदा ॥ ११ ॥
कालिंदीति समाख्याता कालिंदप्रभवा यदा ।
कलिंदगिरिसानूनां गंडशैलतटान् दृढान् ॥ १२ ॥
भित्त्वा लुठन्ती भूखंडे कृष्णा वेगवती सती ।
देशान्पुनन्ती कालिन्दी प्राप्तवान् खांडवे वने ॥ १३ ॥
परिपूर्णतमं साक्षाच्छ्रीकृष्णं वरमिच्छती ।
धृत्वा वपुः परं दिव्यं तपस्तेपे कलिन्दजा ॥ १४ ॥
पित्रा विनिर्मिते गेहे जलेऽद्यापि समाश्रिता ।
ततो वेगेन कालिन्दी प्राप्ताभूद्व्रजमंडले ॥ १५ ॥
वृन्दावनसमीपे च मथुरानिकटे शुभे ।
श्रीमहावनपार्श्वे च सैकते रमणस्थले ॥ १६ ॥
श्रीगोकुले च यमुना यूथीभूत्वातिसुंदरी ।
श्रीकृष्णचंद्ररासार्थं निजवासं चकार ह ॥ १७ ॥
अथो व्रजाद्व्रजंती सा व्रजविक्षेपविह्वला ।
प्रेमानन्दाश्रुसंयुक्ता भूत्वा पश्चिमवाहिनी ॥ १८ ॥
ततस्त्रिवारं वेगेन नत्वाथो व्रजमंडले ।
देशान् पुनन्ती प्रययौ प्रयागं तीर्थसत्तमम् ॥ १९ ॥
पुनः श्रीगंगया सार्धं क्षीराब्धिं सा जगाम ह ।
देवाः सुवर्षं पुष्पाणां चक्रुर्दिवि जयध्वनिम् ॥ २० ॥
कृष्णा श्रीयमुना साक्षात् कालिन्दी सरितां वरा ।
समुद्रमेत्य श्रीगंगां प्राह गद्गदया गिरा ॥ २१ ॥
यमुनोवाच -
हे गंगे त्वं तु धन्याऽसि सर्वब्रह्माण्डपावनी ।
कृष्णपादाब्जसंभूता सर्वलोकैकवन्दिता ॥ २२ ॥
ऊर्ध्वं यामि हरेर्लोकं गच्छ त्वमपि हे शुभे ।
त्वत्समानं हि दिव्यं च न भूतं न भविष्यति ॥ २३ ॥
गंगोवाच -
सर्वतीर्थमयी गंगा तस्मात्त्वां प्रणमाम्यहम् ।
यत्किंचिद्वा प्रकथितं तत्क्षमस्व सुमंगले ॥ २४ ॥
हे कृष्णे त्वं तु धन्याऽसि सर्वब्रह्माण्डपावनी ।
कृष्णवामांससंभूता परमानन्दरूपिणी ॥ २५ ॥
परिपूर्णतमा साक्षात्सर्वलोकैकवन्दिता ।
परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः ॥ २६ ॥
पट्टराज्ञीं परां कृष्णे कृष्णां त्वां प्रणमाम्यहम् ।
तीर्थैर्देवैर्दुर्लभा त्वं गोलोकेऽपि च दुर्घटा ॥ २७ ॥
अहं यास्यामि पातालं श्रीकृष्णस्याज्ञया शुभे ।
त्वद्वियोगातुराऽहं वै पानं कर्तुं न च क्षमा ॥ २८ ॥
यूथीभूत्वा भविष्यामि श्रीव्रजे रासमंडले ।
यत्किंचिन्मे प्रकथितं तत्क्षमस्व हरिप्रिये ॥ २९ ॥
इत्थं परस्परं नत्वा द्वे नद्यौ ययतुर्द्रुतम् ।
लोकान् पवित्रीकुर्वन्ती पाताले स्वःसरिद्गता ॥ ३० ॥
सापि भोगवतीनाम्ना बभौ भोगवतीवने ।
यज्जलं सत्रिनयनः शेषो मूर्ध्ना बिभर्ति हि ॥ ३१ ॥
अथ कृष्णा सवेगेन भित्त्वा सप्ताधिमंडलम् ।
सप्तद्वीपमहीपृष्ठे लुठन्ती वेगवत्तरा ॥ ३२ ॥
गत्वा स्वर्णमयीं भूमिं लोकालोकाचलं गता ।
तत्सानुगण्डशैलानां तटं भित्त्वा कलिन्दजा ॥ ३३ ॥
तन्मूर्ध्नि चोत्पपाताशु स्फारवज्जलधारया ।
उद्गच्छन्ती तदूर्ध्वं सा ययौ स्वर्गं तु नाकिनाम् ॥ ३४ ॥
आब्रह्मलोकं लोकांस्तानभिव्याप्य हरेः पदम् ।
ब्रह्माडरंध्रं श्रीब्रह्म द्रवयुक्तं समेत्य सा ॥ ३५ ॥
पुष्पवर्षं प्रवर्षत्सु देवेषु प्रणतेषु च ।
पुनः श्रीकृष्णगोलोकमारुरोह सरिद्वरा ॥ ३६ ॥
कलिन्दगिरिनन्दिनीनवचरित्रमेतत् शुभं
श्रुतं च यदि पाठितं भुवि तनोति सन्मंगलम् ।
जनोऽपि यदि धारयेत्किल पठेच्च यो नित्यशः
स याति परमं पदं निजनिकुंजलीलावृतम् ॥ ३७ ॥
इति श्रीगर्गसंहितायां वृन्दावनखण्डे नंदसन्नन्दसंवादे कालिन्द्यागमनवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|