श्रीगर्गसंहिता

वृंदावनखण्ड - पञ्चमोऽध्यायः

बकासुरमोक्षः -


एकदा चारयन् वत्सान् सरामो बालकैर्हरिः ।
यमुनानिकटे प्राप्तं बकं दैत्यं ददर्श ह ॥ १ ॥
श्वेतपर्वतसंकाशो बृहत्पादो घनध्वनिः ।
पलायितेषु बालेषु वज्रतुंडोऽग्रसद्धरिम् ॥ २ ॥
रुदन्तो बालकाः सर्वे गतप्राणा इवाभवन् ।
हाहाकारं तदा कृत्वा देवाः सर्वे समागताः ॥ ३ ॥
इंद्रो वज्रं तदा नीत्वा तं तताड महाबलम् ।
तेन घातेन पतितो न ममार समुत्थितः ॥ ४ ॥
ब्रह्मापि ब्रह्मदंडेन तं तताड महाबकम् ।
तेन घातेन पतितो मूर्छितो घटिकाद्वयम् ॥ ५ ॥
विधुन्वन् स्वतनुं वेगातज्जृम्भितः पुनरुत्थितः ।
न ममार तदा दैत्यो जगर्ज घनवद्‌बली ॥ ६ ॥
त्रिलोचनस्त्रिशूलेन तं जघान महासुरम् ।
छिन्नैकपक्षो दैत्योऽपि न मृतोऽतिभयंकरः ॥ ७ ॥
वायव्यास्त्रेण वायुस्तं संजघान बकमतः ।
उच्चचाल बकस्तेन पुनस्तत्र स्थितोऽभवत् ॥ ८ ॥
यमस्तं यमदण्डेन ताडयामास चाग्रतः ।
तेन दण्डेन न मृतो बको वै चण्डविक्रमः ॥ ९ ॥
दण्डोऽपि भग्नतां प्रागात् स क्षतो नाभवद् बकः ।
तदैव चाग्रतः प्राप्तश्चण्डांशुश्चण्डविक्रमः ॥ १० ॥
शतबाणैर्बकं दैत्यं संजघान धनुर्धरः ।
तीक्ष्णैः पक्षगतैर्बाणैर्न ममार बकस्ततः ॥ ११ ॥
धनदस्तं च खड्गेन सुतीक्ष्णेन जघान ह ।
छिन्नद्वितीयपक्षोऽभूतन्न मृतो दैत्यपुंगवः ॥ १२ ॥
नीहारास्त्रेण तं सोमः संजघान महाबकम् ।
शीतार्त्तो मूर्छितो दैत्यो न मृतः पुनरुत्थितः ॥ १३ ॥
आग्नेयास्त्रेण तं ह्यग्निः सन्तताड महाबकम् ।
भस्मरोमाभवद्दैत्यो न ममार महाखलः ॥ १४ ॥
अपां पतिस्तं पाशेन बद्ध्वा कौ विचकर्ष ह ।
कर्षणात्स महापापः छिन्नोऽभूतन्न मृतश्च वै ॥ १५ ॥
तताड गदया तं वै भद्रकाली तरस्विनी ।
मूर्छितस्तत् प्रहारेण परं कश्मलतां ययौ ॥ १६ ॥
क्षतमूर्धा समुत्थाय विधुन्वन् स्वतनुं पुनः ।
जगर्ज घनवद्‌वीरो बको दैत्यो महाखलः ॥ १७ ॥
तदा शक्तिधरः शक्तिं तस्मै चिक्षेप सत्वरः ।
तयैकपादो भग्नोऽभून्न मृतः पक्षिणां वरः ॥ १८ ॥
तदा क्रोधेन सहसा धावन् दैत्यस्तडित्स्वनः ।
देवान् विद्रावयामास स्वचंच्वा तीक्ष्णतुण्डया ॥ १९ ॥
अग्रे पलायितान् देवानन्वधावद्‌बकोऽम्बरे ।
पुनस्तत्र गतो दैत्यो नादयन्मंडलं दिशाम् ॥ २० ॥
तदा देवर्षयः सर्वे सर्वे ब्रह्मर्षयो द्विजाः ।
श्रीनन्दनन्दनायाशु सफलां चाशिषं ददुः ॥ २१ ॥
तदैव कृष्णस्तन्मध्ये ततान वपुरुज्ज्वलम् ।
चच्छर्द कृष्णं सहसा क्षतकंठो महाबकः ॥ २२ ॥
पुनः कृष्णं समाहर्तुं तीक्ष्णया तुंडयाऽगतम् ।
पुच्छे गृहीत्वा तं कृष्णः पोथयामास भूतले ॥ २३ ॥
पुनरुत्थाय तुण्डं स्वं प्रसार्य्यावस्थितं बकम् ।
ददार तुंडे हस्ताभ्यां कृष्णः शाखां गजो यथा ॥ २४ ॥
तदा मृतस्य दैतस्य ज्योतिः कृष्णे समाविशत् ।
देवता ववृषुः पुष्पैः जयारावैः समन्विताः ॥ २५ ॥
गोपाला विस्मिताः सर्वे कृष्णं संश्लिष्य सर्वतः ।
ऊचुस्त्वं कुशलीभूतो मुक्तो मृत्युमुखात्सखे ॥ २६ ॥
एवं कृष्णो बकं हत्वा सबलो बालकैः सह ।
गोवत्सैर्हर्षितो गायन्नाययौ राजमंदिरे ॥ २७ ॥
परिपूर्णतमस्यास्य श्रीकृष्णस्य महात्मनः ।
जगुर्गृहे गता बालाः श्रुत्वेदं तेऽतिविस्मिताः ॥ २८ ॥
श्रीबहुलाश्व उवाच -
कोऽयं दैत्यः पूर्वकाले कस्मात्केन बकोऽभवत् ।
पूर्णब्रह्मणि सर्वेशे श्रीकृष्णे लीनतां गतः ॥ २९ ॥
श्रीनारद उवाच -
हयग्रीवसुतो दैत्य उत्कलो नाम हे नृप ।
रणेऽमरान् विनिर्जित्य शक्रछत्रं जहार ह ॥ ३० ॥
तथा नृणां नृपाणां च राज्यं हृत्वा महाबलः ।
चकार वर्षाणि शतं राज्यं सर्वविभूतिमत् ॥ ३१ ॥
एकदा विचरन् दैत्यः सिंधुसागरसंगमे ।
जाजलेर्मुनिसिद्धस्य पर्णशालासमीपतः ॥ ३२ ॥
जले निक्षिप्य बडिशं मीनानाकर्षयन् मुहुः ।
निषेधितोऽपि मुनिना नामन्यत स दुर्मतिः ॥ ३३ ॥
तस्मै शापं ददौ सिद्धो जाजलिर्मुनिसत्तमः ।
बकवत्त्वं झषानत्सि त्वं बको भव दुर्मते ॥ ३४ ॥
तत्क्षणाद्‌बकरूपोऽभूद्‌भ्रष्टतेजा गतस्मयः ।
पतितः पादयोस्तस्य नत्वा प्राह कृतांजलिः ॥ ३५ ॥
उत्कल उवाच -
न जाने ते तपश्चंडं मुने मां पाहि जाजले ।
साधुनां भवतां संगं मोक्षद्वारं परं विदुः ॥ ३६ ॥
मित्रे शत्रौ समा मानेऽपमाने हेमलोष्टयोः ।
सुखे दुःखसमा ये वै त्वादृशाः साधवश्च ते ॥ ३७ ॥
किं किं न जातं महतां दर्शनात्कौ मुने नृणाम् ।
पारमेष्ठ्यं च साम्राज्यमैन्द्रयोगपदं लभेत् ॥ ३८ ॥
जाजले मुनिशार्दूल त्रैवर्ग्यं किमभूज्जनैः ।
साधूनां कृपया साक्षात्पूर्णं ब्रह्मापि लभ्यते ॥ ३९ ॥
श्रीनारद उवाच -
तदा प्रसन्नः स मुनिर्जाजलिस्तमुवाच ह ।
वर्षषष्टिसहस्राणि तपस्तप्तं च येन वै ॥ ४० ॥
वैवस्वतान्तरे प्राप्ते ह्यष्टाविंशतिमे युगे ।
द्वापरान्ते भारतेऽपि माथुरे व्रजमंडले ॥ ४१ ॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् ।
वृंदावने गवां वत्सान् चारयन् विचरिष्यति ॥ ४२ ॥
तदा तन्मयतां कृष्णे यास्यसि त्वं न संशयः
हिरण्याक्षादयो दैत्या वैरेणापि परं गताः ॥ ४३ ॥
इत्थं बकासुरो दैत्य उत्कलो जाजलेर्वरात् ।
श्रीकृष्णे लीनतां प्राप्तः सत्सम्गात्किं न जायते ॥ ४४ ॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
बकासुरमोक्षो नाम पञ्चमोऽध्यायः ॥ ५ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP