श्रीमद्‌देवीभागवत महापुराण
एकादशः स्कन्धः
पञ्चदशोऽध्यायः


त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम्

श्रीनारायण उवाच
अग्निरित्यादिभिर्मन्त्रैर्भस्म संशोध्य सादरम् ।
धारणीयं ललाटादौ त्रिपुण्ड्रं केवलं द्विजैः ॥ १ ॥
ब्रह्मक्षत्रियवैश्याश्च एते सर्वे द्विजाः स्मृताः ।
तस्माद्‌द्विजैः प्रयत्‍नेन त्रिपुण्ड्रं धार्यमन्वहम् ॥ २ ॥
यस्योपनयनं ब्रह्मन् स एव द्विज उच्यते ।
तस्माच्छ्रौतं द्विजैः कार्यं त्रिपुण्ड्रस्य च धारणम् ॥ ३ ॥
विभूतिधारणं त्यक्त्वा यः सत्कर्म समाचरेत् ।
तत्कृतं चाकृतप्रायं भवत्येव न संशयः ॥ ४ ॥
न गायत्र्युपदेशोऽपि भस्मनो धारणं विना ।
ततो धृत्वैव भस्माङ्‌गे गायत्रीजपमाचरेत् ॥ ५ ॥
गायत्रीं मूलमेवाहुर्ब्राह्मण्ये मुनिपुङ्‌गव ।
सा भस्मधारणाभावे न केनाप्युपदिश्यते ॥ ६ ॥
न तावदधिकारोऽस्ति गायत्रीग्रहणे मुने ।
यावन्न भस्म भालादौ धृतमग्निसमुद्‍भवम् ॥ ७ ॥
भस्महीनललाटत्वं न ब्रह्मण्यानुमापकम् ।
एवमेव मया ब्रह्मन् हेतुरुक्तः सुपुण्यदः ॥ ८ ॥
मन्त्रपूतं सितं भस्म ललाटे परिवर्तते ।
स एव ब्राह्मणो विद्वान्सत्यं सत्यं मयोच्यते ॥ ९ ॥
यस्यास्ति सहजा प्रीतिर्मणिवद्‍भस्मसंग्रहे ।
स एव ब्राह्मणो ब्रह्मन् सत्यं सत्यं मयोच्यते ॥ १० ॥
न यस्य सहजा प्रीतिर्मणिवद्‍भस्मसंग्रहे ।
स चाण्डाल इति ज्ञेयो जन्मजन्मान्तरे ध्रुवम् ॥ ११ ॥
न यस्य सहजा प्रीतिस्त्रिपुण्ड्रोद्धूलनादिषु ।
स चाण्डाल इति ज्ञेयः सत्यं सत्यं मयोच्यते ॥ १२ ॥
ये भस्मधारणं त्यक्त्वा भुञ्जन्ते च फलादिकम् ।
ते सर्वे नरकं घोरं प्राप्नुवन्ति न संशयः ॥ १३ ॥
(विभूतिधारणं त्यक्त्वा यः शिवं पूजयिष्यति ।
स दुर्भगः शिवद्वेष्टा स द्वेषो नरकप्रदः ।
सर्वकर्मबहिर्भूतो भस्मधारणवर्जितः ॥)
विभूतिधारणं त्यक्त्वा कुर्वन् हेमतुलामपि ।
न तत्फलमवाप्नोति पतितो हि भवेद्धि सः ॥ १४ ॥
यथोपवीतरहितैः सन्ध्या न क्रियते द्विजैः ।
तथा सन्ध्या न कर्तव्या विभूतिरहितैरपि ॥ १५ ॥
गतोपवीतैः सन्ध्यायां कार्यः प्रतिनिधिः क्वचित् ।
जपादिकं तु सावित्र्यास्तथैवोपोषणादिकम् ॥ १६ ॥
विभूतिधारणे त्वन्यो नास्ति प्रतिनिधिः क्वचित् ।
विभूतिधारणं त्यक्त्वा यदि सन्ध्यां करोति यः ॥ १७ ॥
प्रत्यवैत्येव येनासौ नाधिकारी तदा द्विजः ।
यथा श्रुत्वान्त्यजो वेदान्प्रत्यवैति तथा द्विजः ॥ १८ ॥
प्रत्यवैति न सन्देहः सन्ध्याकृद्‍भस्मवर्जितः ।
सम्पादनीय यत्‍नेन श्रौतं भस्म सदा द्विजैः ॥ १९ ॥
स्मार्तं वा तदभावे तु लौकिकं वा समाहितैः ।
यादृशं तादृशं वास्तु पवित्रं भस्म सन्ततम् ॥ २० ॥
धारणीयं प्रयत्‍नेन द्विजैः सन्ध्यादिकर्मसु ।
न संविशन्ति पापानि भस्मनिष्ठे ततः सदा ॥ २१ ॥
कर्तव्यमपि यत्‍नेन ब्राह्मणैर्भस्मधारणम् ।
मध्याङ्‌गुलित्रयेणैव स्वदक्षिणकरस्य तु ॥ २२ ॥
षडङ्‌गुलायतं मानमपि चाधिकमानकम् ।
नेत्रयुग्मप्रमाणेन भाले दीप्तं त्रिपुण्ड्रकम् ॥ २३ ॥
कदाचिद्‍भस्मना कुर्यात्स रुद्रो नात्र संशयः ।
अकारोऽनामिका प्रोक्त उकारो मध्यमाङ्‌गुलिः ॥ २४ ॥
मकारस्तर्जनी तस्मात् त्रिपुण्ड्रं त्रिगुणात्मकम् ।
त्रिपुण्ड्रं मध्यमातर्जन्यनामाभिरनुलोमतः ॥ २५ ॥
अत्र ते कथयाम्येनमितिहासं पुरातनम् ।
कदाचिदथ दुर्वासाः पितृलोकं गतोऽभवत् ॥ २६ ॥
भस्मसन्दिग्धसर्वाङ्‌गो रुद्राक्षाभरणान्वितः ।
शिव शङ्‌कर सर्वात्मञ्छ्रीमातर्जगदम्बिके ॥ २७ ॥
नामानीति गृणन्नुच्चैस्तापसानां शिखामणिः ।
कव्यवाडादयस्ते तु प्रत्युत्थानाभिवादनैः ॥ २८ ॥
आसनाद्युपचारैश्च सम्मानं बहु चक्रिरे ।
नानाकथाभिरन्योन्यं सम्भाषाञ्चक्रिरे तदा ॥ २९ ॥
तस्मिंस्तु समये कुम्भीपाकस्थानां तु पापिनाम् ।
घोरः समभवच्छब्दो हा हताः स्मेतिवादिनाम् ॥ ३० ॥
मृताः स्मेति वदन्त्येके दग्धाः स्मेति परे जगुः ।
छिन्नाः स्मेति विभिन्नाः स्मेत्येवं रोदनकारिणः ॥ ३१ ॥
श्रुत्वा तं करुण शब्दं दुःखितो मुनिराड् हृदि ।
पप्रच्छ पितृनाथांस्तान्केषां शब्दोऽयमित्यपि ॥ ३२ ॥
ते समूचुर्मुनेऽत्रैव पुरी संयमनी परा ।
वर्तते यमराडत्र पापिनां भोगदायकः ॥ ३३ ॥
नानादूतैः कालरूपैः कृष्णवर्णेर्भयङ्‌करैः ।
सहितोऽत्रैव तत्पुर्यां नायको विद्यतेऽनघ ॥ ३४ ॥
तत्र कुण्डान्यनेकानि पापिनां भोगदानि च ।
षडशीतिर्घोररूपैर्दूतैः परिवृतानि च ॥ ३५ ॥
तत्र मुख्यतमं कुण्डं कुम्भीपाकाभिधं महत् ।
वर्तते तद्‌गतानां च यातनानां तु वर्णनम् ॥ ३६ ॥
कर्तुं न शक्यते कैश्चिदपि वर्षशतैरपि ।
ये शिवद्रोहिणः सन्ति तथा देवीविनिन्दकाः ॥ ३७ ॥
ये विष्णुद्रोहिणः सन्ति पतन्त्यत्रैव ते मुने ।
ये वेदनिन्दकाः सन्ति सूर्यस्य च गणेशितुः ॥ ३८ ॥
ब्राह्मणानां द्रोहिणो ये पतन्त्यत्रैव ते मुने ।
कामाचाराश्च ये सन्ति तप्तमुद्राङ्‌किताश्च ये ॥ ३९ ॥
त्रिशूलधारिणो ये च पतन्त्यत्रैव ते मुने ।
मातृपितृगुरुज्येष्ठपुराणस्मृतिनिन्दकाः ॥ ४० ॥
ये धर्मदूषकाः सन्ति पतन्त्यत्रैव ते मुने ।
तेषामयं महाघोरः शब्दः श्रवणदारुणः ॥ ४१ ॥
श्रूयतेऽस्माभिरनिशं वैराग्यं यच्छ्रुतेर्भवेत् ।
इति तेषां वचः श्रुत्वा मुनिराट् तद्दिदृक्षया ॥ ४२ ॥
उत्थाय चलितस्तूर्णं ययौ कुण्डसमीपतः ।
अवाङ्‌मुखो ददर्शाधस्तस्मिन्नेव क्षणे मुने ॥ ४३ ॥
तत्रत्यानां पापिनां तु स्वर्गाधिकमभूत्सुखम् ।
हसन्ति केचिद्‌गायन्ति नृत्यन्ति च तथापरे ॥ ४४ ॥
परस्परं रमन्ते तेऽत्युन्मत्ताः सुखवर्धनात् ।
मृदङ्‌गमुरजावीणाढक्कादुन्दुभिनिस्वनाः ॥ ४५ ॥
समुद्‌भूतास्तु मधुराः पञ्चमस्वरभूषिताः ।
वसन्तवल्लीपुष्पाणां सुगन्धमरुतो ववुः ॥ ४६ ॥
मुनिस्तु चकितो दृष्ट्वा यमदूताश्च विस्मिताः ।
शीघ्रं ते कथयामासुर्धर्मराजाय वेदिने ॥ ४७ ॥
महाराज महाश्चर्यमधुनैवाभवद्विभो ।
स्वर्गादप्यधिकं सौख्यं कुम्भीपाकस्थपापिनाम् ॥ ४८ ॥
निमित्तं नैव जानीमः कस्मादिदमभूद्विभो ।
चकिताः स्म वयं सर्वे प्राप्ता देव त्वदन्तिकम् ॥ ४९ ॥
निशम्य दूतवाणीं तां धर्मराट् शीघ्रमुत्थितः ।
महामहिषमारूढो ययौ ते यत्र पापिनः ॥ ५० ॥
तां वार्तां प्रेषयामास दूतद्वारामरावतीम् ।
श्रुत्वा तां देवराजोऽपि प्राप्तो देवगणैः सह ॥ ५१ ॥
ब्रह्मलोकात्पद्मजोऽपि वैकुण्ठाद्विष्टरश्रवाः ।
तत्तल्लोकाच्च दिक्पालाः समाजग्मुर्गणैः सह ॥ ५२ ॥
परिवार्य स्थिताः सर्वे कुम्भीपाकमितस्ततः ।
अपश्यंस्तद्‌गताञ्जीवान्स्वर्गाधिकसुखान्त्वितान् ॥ ५३ ॥
चकिता एव ते सर्वे न विदुस्तस्य कारणम् ।
अहो पापस्य भोगार्थं कुण्डमेतद्विनिर्मितम् ॥ ५४ ॥
तत्र सौख्यं यदा जातं तदा पापात्तु किं भयम् ।
उच्छिन्ना वेदमर्यादा परमेशकृता कथम् ॥ ५५ ॥
भगवान् स्वस्य संकल्पं वितथं कृतवान्कथम् ।
आश्चर्यमेतदाश्चर्यमेतदित्येव भाषिणः ॥ ५६ ॥
तटस्था अभवन्सर्वे न विदुस्तत्र कारणम् ।
एतस्मिन्नन्तरे शौरिः सम्मन्त्र्य विबुधादिभिः ॥ ५७ ॥
ययौ कैश्चित्सुरगणैः सहितः शङ्‌करालयम् ।
पार्वत्या सहितं देवं कोटिकन्दर्पसुन्दरम् ॥ ५८ ॥
रमणीयतमाङ्‌गं तं लावण्यखनिमद्‌भुतम् ।
सदा षोडशवर्षीयं नानालङ्‌कारभूषितम् ॥ ५९ ॥
नानागणैः परिवृतं लालयन्तं परां शिवाम् ।
ददर्श चन्द्रमौलिं स चतुर्वेदं ननाम ह ॥ ६० ॥
वृत्तान्तं कथयामास चमत्कृतमतिस्फुटम् ।
एतस्य कारणं देव न जानीमः कथञ्चन ॥ ६१ ॥
वद तत्कारणं देव सर्वज्ञोऽसि यतः प्रभो ।
विष्णुवाक्यं तदा श्रुत्वा प्रसन्नमुखपङ्‌कजः ॥ ६२ ॥
उवाच मधुरं वाक्यं मेघगम्भीरया गिरा ।
शृणु विष्णो तन्निमित्तं नाश्चर्यं त्वत्र विद्यते ॥ ६३ ॥
भस्मनो महिमैवायं भस्मना किं भवेन्न हि ।
कुम्भीपाकं गतो द्रष्टुं दुर्वासाः शैवसम्मतः ॥ ६४ ॥
अवाङ्‌मुखो ददर्शाधस्तदा वायुवशाद्धरे ।
भालभस्मकणास्तत्र पतिता दैवयोगतः ॥ ६५ ॥
तेन जातमिदं सर्वं भस्मनो महिमा त्वयम् ।
इतः परं तु तत्तीर्थं पितृलोकनिवासिनाम् ॥ ६६ ॥
भविष्यति न सन्देहो यत्र स्नात्वा सुखी भवेत् ।
पितृतीर्थं तु तन्नाम्नाप्यत ऊर्ध्वं भविष्यति ॥ ६७ ॥
मल्लिङ्‌गस्थापनं तत्र कार्यं देव्याश्च सत्तम ।
पूजयिष्यन्ति ते तत्र पितृलोकनिवासिनः ॥ ६८ ॥
त्रैलोक्ये यानि तीर्थानि तत्र श्रेष्ठमिदं भवेत् ।
पित्रीश्वरीपूजया तु त्रैलोक्यं पूजितं भवेत् ॥ ६९ ॥
श्रीनारायण उवाच
इति देववचः श्रुत्वा देवं मूर्ध्ना प्रणम्य च ।
तदनुज्ञां समादाय ययौ देवान्तिकं हरिः ॥ ७० ॥
तत्सर्वं कथयामास कारणं शङ्‌करोदितम् ।
साधु साध्विति ते प्रोचुरमरा मौलिचालनैः ॥ ७१ ॥
शशंसुर्भस्ममाहात्म्यं हरिब्रह्मादयः सुराः ।
पितरश्चैव सन्तुष्टास्तीर्थलाभात्परन्तप ॥ ७२ ॥
तत्तीर्थतीरे लिङ्‌गं च देव्या मूर्तिं यथाविधि ।
स्थापयामासुरमराः पूजयामासुरन्वहम् ॥ ७३ ॥
तत्र ये प्राणिनोऽभूवन्पापभोगार्थमास्थिताः ।
ते विमानं समारुह्य गताः कैलासमण्डलम् ॥ ७४ ॥
नाम्ना भद्रगणास्ते तु वसन्त्यद्यापि तत्र हि ।
पुनश्च दूरदेशे तु कुम्भीपाको विनिर्मितः ॥ ७५ ॥
निरुद्धं शैवगमनं देवैस्तत्र तु तद्दिनात् ।
इति ते सर्वमाख्यातं भस्ममाहात्म्यमुत्तमम् ॥ ७६ ॥
नातः परतरं किञ्चिदधिकं विद्यते मुने ।
ऊर्ध्वपुण्ड्रविधिं चैवाप्यधिकारिविभेदतः ॥ ७७ ॥
प्रवक्ष्ये मुनिशार्दूल वैष्णवागमलोकनात् ।
ऊर्ध्वपुण्ड्रप्रमाणानि दिव्यान्यङ्‌गुलिभेदतः ॥ ७८ ॥
वर्णाभिमन्त्रदेवांश्च प्रवक्ष्यामि फलानि च ।
पर्वताग्रे नदीतीरे शिवक्षेत्रे विशेषतः ॥ ७९ ॥
सिन्धुतीरे च वल्मीके तुलसीमूलमाश्रिते ।
मृद एतास्तु सङ्‌ग्राह्या वर्जयेदन्यमृत्तिकाः ॥ ८० ॥
श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं भवेत् ।
श्रीकरं पीतमित्याहुर्धर्मदं श्वेतमुच्यते ॥ ८१ ॥
अङ्‌गुष्ठः पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत् ।
अनामिकान्नदा नित्यं मुक्तिदा च प्रदेशिनी ॥ ८२ ॥
एतैरङ्‌गुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् ।
वर्तिदीपावलिकृतिं वेणपत्राकृतिं तथा ॥ ८३ ॥
पद्मस्य मुकुलाकारं तथा कुर्यात्प्रयत्‍नतः ।
मत्स्यकूर्माकृतिं वापि शङ्‌खाकारं ततः परम् ॥ ८४ ॥
दशाङ्‌गुलिप्रमाणं तु उत्तमोत्तममुच्यते ।
नवाङ्‌गुलं मध्यमं स्यादष्टाङ्‌गुलमतः परम् ॥ ८५ ॥
सप्तषट्पञ्चभिः पुण्ड्रं मध्यमं त्रिविधं स्मृतम् ।
चतुस्त्रिद्व्यङ्गुलैः पुण्ड्रं कनिष्ठं त्रिविधं भवेत् ॥ ८६ ॥
ललाटे केशवं विद्यान्नारायणमथोदरे ।
माधवं हृदि विन्यस्य गोविन्दं कण्ठकूपके ॥ ८७ ॥
उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते ।
तत्पार्श्वबाहुमध्ये च मधुसूदनमेव च ॥ ८८ ॥
त्रिविक्रमं कर्णदेशे वामकुक्षौ तु वामनम् ।
श्रीधरं बाहुके वामे हृषीकेशं तु कर्णके ॥ ८९ ॥
पृष्ठे च पद्मनाभं तु ककुद्दामोदरं स्मरेत् ।
द्वादशैतानि नामानि वासुदेवेति मूर्धनि ॥ ९० ॥
पूजाकाले च होमे च सायं प्रातः समाहितः ।
नामान्युच्चार्य विधिना धारयेदूर्ध्वपुण्ड्रकम् ॥ ९१ ॥
अशुचिर्वाप्यनाचारो मनसा पापमाचरेत् ।
शुचिरेव भवेन्नित्यं मूर्ध्नि पुण्ड्राङ्‌कितो नरः ॥ ९२ ॥
ऊर्ध्वपुण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् ।
श्वपाकोऽपि विमानस्थो मम लोके महीयते ॥ ९३ ॥
एकान्तिनो महाभागा मत्स्वरूपविदोऽमलाः ।
सान्तरालान्प्रकुर्वन्ति पुण्ड्रान्विष्णुपदाकृतीन् ॥ ९४ ॥
परमैकान्तिनोऽप्येवं मत्पादैकपरायणाः ।
हरिद्राचूर्णसंयुक्ताञ्छूलाकारांस्तु वामलान् ॥ ९५ ॥
अन्ये तु वैष्णवाः पुण्ड्रानच्छिद्रानपि भक्तितः ।
प्रकुर्वीरन्दीपपद्मवेणुपत्रोपमाकृतीन् ॥ ९६ ॥
अच्छिद्रानपि सच्छिद्रान् कुर्युः केवलवैष्णवाः ।
अच्छिद्रकरणे तेषां प्रत्यवायो न विद्यते ॥ ९७ ॥
एकान्तिनां प्रपन्नानां परमैकान्तिनामपि ।
अच्छिद्रपुण्ड्राकरणे प्रत्यवायो महान्भवेत् ॥ ९८ ॥
ऊर्ध्वपुण्ड्रं तु यः कुर्याद्दण्डाकारं तु शोभनम् ।
मध्ये छिद्रं वैष्णवाश्च नमोऽन्तैः केशवादिभिः ॥ ९९ ॥
विमलान्यूर्ध्वपुण्ड्राणि सान्तरालानि यो नरः ।
करोति विपुलं तत्र मन्दिरं मे करोति सः ॥ १०० ॥
ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे ।
लक्ष्म्या साकं सहासीनो रमते विष्णुरव्ययः ॥ १०१ ॥
निरन्तरालं यः कुर्यादूर्ध्वपुण्ड्रं द्विजाधमः ।
स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति ॥ १०२ ॥
अच्छिद्रमूर्ध्वपुण्ड्रं तु यः करोति विमूढधीः ।
स पर्यायेण तानेति नरकानेकविंशतिम् ॥ १०३ ॥
ऋजूनि स्फुटपार्श्वानि सान्तरालानि विन्यसेत् ।
ऊर्ध्वपुण्ड्राणि दण्डाब्जदीपमत्स्यनिभानि च ॥ १०४ ॥
शिखोपवीतवद्धार्यमूर्ध्वपुण्ड्रं द्विजेन च ।
विना कृताश्चेद्विफलाः क्रियाः सर्वा महामुने ॥ १०५ ॥
तस्मात्सर्वेषु कार्येषु कार्यं विप्रस्य धीमतः ।
ऊर्ध्वपुण्ड्रं त्रिशूलं च वर्तुलं चतुरस्रकम् ॥ १०६ ॥
अर्धचन्द्रादिकं लिङ्‌गं वेदनिष्ठो न धारयेत् ।
जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः ॥ १०७ ॥
पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत् ।
ख्यातिकान्त्यादिसिद्ध्यर्थं चापि विष्ण्वागमादिषु ॥ १०८ ॥
स्थितं पुण्ड्रान्तरं नैव धारयेद्वैदिको जनः ।
तिर्यक्त्रिपुण्ड्रं सन्त्यज्य श्रौतं कथमपि भ्रमात् ॥ १०९ ॥
ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम् ।
विना पुण्ड्रान्तरं मोहाद्धारयन्नारकी भवेत् ॥ ११० ॥
वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्‌कितो यदि ।
पतत्येव न सन्देहस्तथा पुण्ड्रान्तरादपि ॥ १११ ॥
नाङ्‌कनं विग्रहे कुर्याद्वेदमार्गं समाश्रितः ।
श्रौतधर्मैकनिष्ठानां लिङ्‌गं तु श्रौतमेव हि ॥ ११२ ॥
अश्रौतधर्मनिष्ठानामश्रौत लिङ्‌गमीरितम् ।
देवता वेदसिद्धा यास्तासां लिङ्‌गं तु वैदिकम् ॥ ११३ ॥
अश्रौततन्त्रनिष्ठा यास्तासामश्रौतमेव हि ।
वेदसिद्धो महादेवः साक्षात्संसारमोचकः ॥ ११४ ॥
भक्तानामुपकाराय श्रौतं लिङ्‌गं दधाति च ।
वेदसिद्धस्य विष्णोश्च श्रौतं लिङ्‌गं न चेतरत् ॥ ११५ ॥
प्रादुर्भावविशेषाणामपि तस्य तदेव हि ।
श्रौतं लिङ्‌गं तु विज्ञेयं त्रिपुण्ड्रोद्धूलनादिकम् ॥ ११६ ॥
अश्रौतमूर्ध्वपुण्ड्रादि नैव तिर्यक्त्रिपुण्ड्रकम् ।
वेदमार्गैकनिष्ठानां वेदोक्तेनैव वर्त्मना ॥ ११७ ॥
ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं धार्यमेव हि ।
यस्तु नारायणं देवं प्रपन्नः परमं पदम् ।
धारयेत्सर्वदा शूलं ललाटे गन्धवारिणा ॥ ११८ ॥


त्रिपुंड्र व ऊर्ध्वपुंड्र याविषयी माहिती

नारायण म्हणाले, ''अग्निरितिभस्म या मंत्राने भस्म शुद्ध करावे. नंतर त्रिपुंड्र धारण करावे. ब्राह्मण, क्षत्रिय, वैश्य हे द्विज असल्याने त्यांनी त्रिपुंड्र धारण करावे. ज्याचे उपनयन झाले आहे त्यालाच द्विज म्हणतात. भस्मधारणावाचून कर्म निष्फल होते. गायत्रीचा उपदेश प्राप्त होत नाही. भस्मलेपनानंतर गायत्री जप करावा. जोवर अग्निजन्य भस्म धारण केले नाही तोवर गायत्री मंत्राचा अधिकार नाही. म्हणून भस्म हा पुण्य देणारा उपाय आहे. मस्तकावर भस्म असलेला द्विज विद्वान होय. भस्मसंग्रहाची आवड असलेला ब्राह्मण होय. भस्मसंग्रहाविषयी आदर नसलेला चांडाल होय. भस्मधारणावाचून फलादि भक्षण करणारे घोर नरकात जातात. विभूतीधारण सोडून कोणी सुवर्णतुला केली तरी फलप्राप्ती होत नाही. उपवीतरहित द्विज संध्या करीत नाही. तसेच विभूतीवाचून संध्या करू नये. विभूती धारणावाचून कुठलाही मंत्र जपू नये कारण त्याविना केलेले कर्म अनधिकृत होय. श्रौत अथवा स्मार्त भस्म शांत पुरुषांनी संपादन करावे. नित्य कर्माचे फळ भस्मलेपन करावे. सहा अंगुलांच्या प्रमाणाचा त्रिपुंड्र लावावा. अनामिका हा आकार, मधले बोट हुकार, तर्जनी मकार म्हणून मध्यमा तर्जनी व अनामिका त्यांच्या योगाने त्रिपुंड्र लावावा. पूर्वी एकदा दुर्वासऋषी स्वर्गलोकी गेले होते. त्यांनी रूद्राक्ष व भस्म धारण केले होते. 'हे शिव, हे शंकर, हे सर्वात्मन् हे श्रीपते, जगन्नाथ' असे शब्द ते मोठमोठ्याने उच्चारीत होते. तेव्हा कण्वादि पितृगणांनी त्यांना उत्थान देऊन सन्मान केला. त्याचवेळी, ''हाय, हाय, मेलो, मेलो' ' असा कुंभिपाकमधल्या प्राण्यांचा घोर शब्द ऐकू आला.'' आम्ही मेलो, आमचे तुकडे झाले, आम्ही दग्ध झालो'' असे ते ओरडत होते. तेव्हा ते करुणाकर मुनी म्हणाले, ''हे कोण ओरडत आहेत ?'' तेव्हा पितृनाथ म्हणाले, ''येथे जवळच संयमिनी नगरी आहे. तेथे पापी लोक नरकात आपली पापे भोगत आहेत. कुंभिपाक नरकाचे वर्णन करणे अशक्य आहे. विष्णूचा द्वेष करणारे त्या नरकात पडतात. तसेच वेद, चंद्र, सूर्य, ब्राह्मण इत्यादींचा द्वेष करणारेही त्याच नरकात पडतात. माता, पिता, गुरु यांचे निंदकही तेथेच जातात. तेव्हा त्यांचा हा घोर शब्द आहे. हा शब्द सतत आम्ही ऐकतो. त्यामुळे विरक्ती उत्पन्न होते.'' हे ऐकून तो मुनिश्रेष्ठ सत्वर या कुंडाजवळ गेला. त्याने सहज कुंडात डोकावून पाहिले. तेव्हा त्यातील प्राणी एकाएकी स्वर्गाहून अधिक सुखी झाले. ते गाऊ लागले, हसू लागले, नाचू लागले. तो भाग एकदम सुस्वर स्वरांनी भरून गेला. सुगंधित वायु वाहू लागले. तेव्हा दूत यमाला जाऊन म्हणाले, '' अहो महाराज, आज आश्चर्य घडले. कुंभीपाक कुंडातले प्राणी सुखे भोगीत आहेत.'' हे ऐकून यम रेड्यावर बसून तेथे आला. त्या दूताकडून हे वृत्त अमरावतीला कळविले. ब्रह्मदेव विष्णूसह सर्व दिक्‌पाल तेथे आले. सर्वजण कुंभिपाक कुंडाच्या भोवती उभे राहून तो प्रकार पाहू लागले. सर्वच विस्मित झाले, असे जर घडू लागले. तर लोकांना पापाची भीती वाटणार नाही. असा सर्व विचार करीत होते. इतक्यात भगवान विष्णु शंकराकडे गेला व सर्व वृत्तांत त्याने शंकरास सांगितला. नंतर 'त्याचे कारण काय असावे' असे त्याने शंकरास विचारले. शंकर म्हणाले, ''हे विष्णो, शिवभक्तांना मान्य असा दुर्वास भस्म व रुद्राक्ष लावून तेथे गेला.
त्याने सहज खाली वाकून पाहिले. तेव्हा वार्‍यामुळे त्याच्या ललाटावरील भस्माचे कण खाली कुंभिपाक कुंडात पडले. त्यामुळे असा प्रकार घडला. हा सर्व भस्माचा महिमा आहे. यामुळे हे कुंड पितृलोकामध्ये रहाणार्‍यांचे तीर्थ होईल. तेथे आता माझे लिंग व देवीची स्थापना करावी. त्रैलोक्यात हे श्रेष्ठ तीर्थक्षेत्र होईल.'' तेव्हा त्याची आज्ञा घेऊन हरी परत आला. त्याने देवांना सर्व प्रकार समजावून सांगितला. तेव्हा सर्व देवांनी 'ठीक' म्हणून होकार दिला. तेव्हा हरी व ब्रह्मा यांना भस्माचे महात्म्य सांगितले. नंतर सर्व देवांनी तेथे लिंग व देवीची स्थापना केली. तेथील पापी लोक विमानात बसून वैकुंठी गेले. ते भद्रगण या नावाने प्रसिद्ध झाले. नंतर यमाने दूर प्रदेशी दुसरा कुंभीपाक निर्माण केला. सारांश, भस्मासारखे श्रेष्ठ काही नाही. पर्वताचा भाग, नदीचे तीर, शिवक्षेत्र, सिंधूतीर, वारूळ, तुलसीचे मूळ येथील मृत्तिका घ्यावी. काळा ऊर्ध्वपुंड्र शांती करतो. लाल वश करतो. पिवळा संपत्तीदायी व पांढरा धर्म देतो. अंगठा पुष्टी देतो. मधले बोट आयुष्य व अनामिका अन्न देते. पुंड्र लावताना नखांनी स्पर्श करू नये. दीपज्योतीच्या पंक्तीप्रमाणे अथवा वेळूच्या पानाच्या आकाराचा किंवा कमलकवीसारखा ऊर्ध्व पुंड्र असावा. दहा अंगुले लांबीचा पुंड्र उत्तम होय. ललाटावर केशव, उदरात नारायण, हृदयात माधव, कंठात गोविंद, उदराच्या उजव्या बाजूस विष्णू, त्यामागे व बाहूच्यामध्ये मधुसूदन, कर्णप्रदेशी त्रिविक्रम, डाव्या बाजूस क्षीधर, कानावर हृषिकेश, पीठावर पद्मनाभ, कण्यावर दामोदर हा देवता आहेत अशी कल्पना करावी. वासुदेव म्हणून मस्तकावर न्यास करावा. पूजासमयी व होमाचे वेळी मन शांत करावे. यथाशास्त्र या नावांचा उच्चार करून ऊर्ध्वपुंड्र धारण करावा. अशुद्ध, आचारशून्य, पापी यांनी जरी ऊर्ध्वपुंड्र मस्तकावर धारण केला तरी शुद्धी होते. हे धारण करणारा चांडाल जरी कोठेही मृत्यू पावला तरी माझ्या लोकी येतो. माझे स्वरूप जाणणारे भाग्यवान विष्णूच्या पायांच्या आकाराचा त्रिपुंड्र दोन रेघात धारण करतात. हरिद्राचूर्ण असे निर्मल व शूलाच्या आकाराचे पुंड्र लावावे. वैष्णव छिद्ररहित पुंड्र लावतात. वीर वैष्णवांनी छिद्ररहित पुंड्र धारण केल्यास महादोष लागतो. दंडाच्या आकाराचा, सच्छिद्र असा ऊर्ध्वपुंड्र वैष्णवाने लावावा. अंतर राखून ऊर्ध्वपुंड्र लावणार्‍याने माझे मंदिरच केल्यासारखे आहे. अशा ठिकाणी विस्तृत पुंड्रात विष्णु लक्ष्मीसह रममाण होतो. अंतर न ठेवता ऊर्ध्वपुंड्र लावणारा ब्राह्मण अधम होय. तो क्रमाने एकवीस नरकात पडतो. म्हणून ब्राह्मणाने, त्रिशूलाकार, वर्तुळ, चौकोनी असे ऊर्ध्वपुंड्र लावावे. वेदनिष्ठ ब्राह्मणाने अर्धचंद्रादि चिन्हे धारण करू नयेत. वैदिक पुरुषाने श्रुतीप्रोक्त आडवा पुंड्र सोडून इतर पुंड्र धारण करू नयेत. असे केल्यास ते पतित होत. तसेच त्याने शरीरावर मुद्रा धारण करू नयेत. त्याने श्रौतचिन्ह धारण करावे. ज्या श्रुतिबाहेर तंत्रात सांगितलेल्या देवता आहेत त्यांचे चिन्ह अश्रौत असते. कारण वेदसिद्ध महादेवच संसारातून सोडवतो. तो भक्तावर अनुग्रह करण्यासाठी श्रौत लिंग धारण करतो. तसेच वेदसिद्ध विष्णूचे लिंगही श्रुतिप्रोक्तच आहे. ऊर्ध्वपुंड्रादी चिन्हे श्रुतिबाह्य आहे. आडवा पुंड्र श्रुतिबाह्य नाही. म्हणून वेदोक्त मार्गाने ललाटावर भस्माचा आडवा पुंड्र धारण करावा. जो नारायणास शरण जातो त्याने नित्य ललाटावर गंधोदकाने शूल धारण करावा.



इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे
त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥

अध्याय पंधरावा समाप्त

GO TOP