श्रीमद्‌देवीभागवत महापुराण
एकादशः स्कन्धः
चतुर्दशोऽध्यायः


विभूतिधारणमाहात्म्यवर्णनम्

श्रीनारायण उवाच
भस्मदिग्धशरीराय यो ददाति धनं मुदा ।
तस्य सर्वाणि पापानि विनश्यन्ति न संशयः ॥ १ ॥
श्रुतयः स्मृतयः सर्वाः पुराणान्यखिलान्यपि ।
वदन्ति भूतिमाहाम्यं तत्तस्माद्धारयेद्‌द्विजः ॥ २ ॥
सितेन भस्मना कुर्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ३ ॥
योगी सर्वाङ्‌गकं स्तानमापादतलमस्तकम् ।
त्रिसन्ध्यमाचरेन्नित्यमाशु योगमवाप्नुयात् ॥ ४ ॥
भस्मस्नानेन पुरुषः कुलस्योद्धारको भवेत् ।
भस्मस्नानं जलस्नानादसंख्येयगुणान्वितम् ॥ ५ ॥
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं लभते सर्वं भस्मस्नानान्न संशयः ॥ ६ ॥
महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।
भस्मस्नानेन तत्सर्वं दहत्यग्निरिवेन्धनम् ॥ ७ ॥
भस्मस्नानात्परं स्नानं पवित्रं नैव विद्यते ।
एवमुक्तं शिवेनादौ तदा स्नातः स्वयं शिवः ॥ ८ ॥
तदाप्रभृति ब्रह्माद्या मुनयश्च शिवार्थिनः ।
सर्वकर्मसु यत्‍नेन भस्मस्नानं प्रचक्रिरे ॥ ९ ॥
तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् ।
अनेनैव शरीरेण स हि रुद्रो न संशयः ॥ १० ॥
ये भस्मधारिणं दृष्ट्वा परितृप्ता भवन्ति ते ।
देवासुरमुनीन्द्रैश्च पूज्या नित्यं न संशयः ॥ ११ ॥
भस्मसञ्छन्नसर्वाङ्‌गं दृष्ट्वोत्तिष्ठति यः पुमान् ।
तं दृष्ट्वा देवराजोऽपि दण्डवत्प्रणमिष्यति ॥ १२ ॥
अभक्ष्यभक्षणं येषां भस्मधारणपूर्वकम् ।
तेषां तद्‍भक्ष्यमेव स्यान्मुने नात्र विचारणा ॥ १३ ॥
यः स्नाति भस्मना नित्यं जले स्नात्वा ततः परम् ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽऽथवादरात् ॥ १४ ॥
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ।
आग्नेयं भस्मना स्नानं यतीनां च विशिष्यते ॥ १५ ॥
आर्द्रस्नानाद्वरं भस्मस्नानमार्द्रवधो ध्रुवः ।
आर्द्रं तु प्रकृतिं विद्यात्प्रकृतिं बन्धनं विदुः ॥ १६ ॥
प्रकृतेस्तु प्रहाणाय भस्मना स्नानमिष्यते ।
भस्मना सदृशं ब्रह्यन्नास्ति लोकत्रयेष्वपि ॥ १७ ॥
रक्षार्थं मङ्‌गलार्थं च पवित्रार्थं पुरा सुरैः ।
भस्म दृष्ट्वा मुने पूर्वं दत्तं देव्यै प्रियेण तु ॥ १८ ॥
तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् ।
भवपाशैर्विनिर्मुक्तः शिवलोके महीयते ॥ १९ ॥
ज्वररक्षःपिशाचाश्च पूतनाकुष्ठगुल्मकाः ।
भगन्दराणि सर्वाणि चाशीतिर्वातरोगकाः ॥ २० ॥
चतुःषष्टिः पित्तरोगाः श्लेष्मा सप्तत्रिपञ्चकाः ।
व्याघ्रचौरभयं चैवाप्यन्ये दुष्टग्रहा अपि ॥ २१ ॥
भस्मस्नानेन नश्यन्ति सिंहेनैव यथा गजाः ।
शुद्धशीतजलेनैव भस्मना च त्रिपुण्ड्रकम् ॥ २२ ॥
यो धारयेत्परं ब्रह्म स प्राप्नोति न संशयः ।
(भस्मना च त्रिपुण्ड्रं च यः कोऽपि धारयेत्परम् ।
स ब्रह्मलोकमाप्नोति मुक्तपापो न संशयः ॥)
यथाविधि ललाटे वै वह्निवीर्यप्रधारणात् ॥ २३ ॥
नाशयेल्लिखितां यामीं ललाटस्थां लिपिं ध्रुवम् ।
कण्ठोपरिकृतं पापं नाशयेत्तत्प्रधारणात् ॥ २४ ॥
कण्ठे च धारणात्कण्ठभोगादिकृतपातकम् ।
बाह्वोर्बाहुकृतं पापं वक्षसा मनसा कृतम् ॥ २५ ॥
नाभ्यां शिश्नकृतं पापं गुदे गुदकृतं हरेत् ।
पार्श्वयोर्धारणाद्‌ब्रह्मन् परस्त्र्यालिङ्‌गनादिकम् ॥ २६ ॥
तद्‍भस्मधारणं शस्तं सर्वत्रैव त्रिलिङ्‌गकम् ।
ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् ॥ २७ ॥
गुणलोकत्रयाणां च धारणं तेन वै कृतम् ।
भस्मच्छन्नो द्विजो विद्वान्महापातकसम्भवैः ॥ २८ ॥
दोषैर्वियुज्यते सद्यो मुच्यते च न संशयः ।
भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्‌गमात् ॥ २९ ॥
भस्मस्नानविशुद्धात्मा आत्मनिष्ठ इति स्मृतः ।
भस्मना दिग्धसर्वाङ्‌गो भस्मदीप्तत्रिपुण्ड्रकः ॥ ३० ॥
भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः ।
भूतप्रेतपिशाचाद्या रोगाश्चातीव दुःसहाः ॥ ३१ ॥
भस्मनिष्ठस्य सान्निध्याद्विद्रवन्ति न संशयः ।
भासनाद्‍भसितं प्रोक्तं भस्म कल्मषभक्षणात् ॥ ३२ ॥
भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी पुरा ।
त्रिपुण्ड्रधारिणं दृष्ट्वा भूतप्रेतपुरःसराः ॥ ३३ ॥
भीताः प्रकम्पिताः शीघ्रं नश्यन्त्येव न संशयः ।
स्मरणादेव रुद्रस्य यथा पापं प्रणश्यति ॥ ३४ ॥
अप्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना ।
तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम् ॥ ३५ ॥
कृत्वापि चातुलं पापं मृत्युकालेऽपि यो द्विजः ।
भस्मस्नायी भवेत्कश्चित्क्षिप्रं पापैः प्रमुच्यते ॥ ३६ ॥
भस्मस्नानाद्धि शुद्धात्मा जितक्रोधो जितेन्द्रियः ।
मत्समीपं समागम्य न स भूयोऽभिवर्तते ॥ ३७ ॥
वनस्पतिगते सोमे भस्मोद्धूलितविग्रहः ।
अर्चितं शङ्‌करं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥ ३८ ॥
आयुष्कामोऽथवा विद्वान्भूतिकामोऽथवा नरः ।
नित्यं वै धारयेद्‍भस्म मोक्षकामी च वै द्विजः ॥ ३९ ॥
त्रिपुण्ड्रं परमं पुण्यं ब्रह्मविष्णुशिवात्मकम् ।
ये घोरा राक्षसाः प्रेता ये चान्ये क्षुद्रजन्तवः ॥ ४० ॥
त्रिपुण्ड्रधारणं दृष्ट्वा पलायन्ते न संशयः ।
कृत्वा शौचादिकं कर्म स्नात्वा तु विमले जले ॥ ४१ ॥
भस्मनोद्धूलनं कार्यमापादतलमस्तकम् ।
केवलं वारुणं स्नानं देहे बाह्यमलापहम् ॥ ४२ ॥
विभूतिस्तानमनघं बाह्यान्तरमलापहम् ।
त्यक्त्वापि वारुणं स्नानं तत्परः स्यान्न संशयः ॥ ४३ ॥
कृतमप्यकृतं सत्यं भस्मस्नानं विना मुने ।
भस्मस्नानं श्रुतिप्रोक्तमाग्नेयं स्नानमुच्यते ॥ ४४ ॥
अन्तर्बहिश्च संशुद्धं शिवपूजाफलं लभेत् ।
यद्‌बाह्यमलमात्रस्य नाशकं स्तानमस्ति तत् ॥ ४५ ॥
तन्नाशयति तीव्रेण प्राणिबाह्यान्तरं मलम् ।
कृत्वापि कोटिशो नित्यं वारुणं स्नानमादरात् ॥ ४६ ॥
न भवत्येव पूतात्मा भस्मस्नानं विना मुने ।
यद्‍भस्मस्नानमाहाम्यं तद्वेदो वेद तत्त्वतः ॥ ४७ ॥
यद्वा वेद महादेवः सर्वदेवशिखामणिः ।
भस्मस्नानमकृत्वैव यः कुर्यात्कर्म वैदिकम् ॥ ४८ ॥
स तत्कर्मकलार्धार्धमपि नाप्नोति वस्तुतः ।
यः करिष्यति यत्‍नेन भस्मस्नानं यथाविधि ॥ ४९ ॥
स एवैकः सर्वकर्मस्वधिकारी श्रुतिश्रुतः ।
पावनं पावनानां च भस्मस्नानं श्रुतिश्रुतम् ॥ ५० ॥
न करिष्यति यो मोहात्स महापातकी भवेत् ।
अनन्तैर्वारुणैः स्नानैर्यत्पुण्यं प्राप्यते द्विजैः ॥ ५१ ॥
ततोऽनन्तगुणं पुण्यं भस्मस्नानादवाप्यते ।
कालत्रयेऽपि कर्तव्यं भस्मस्नानं प्रयत्‍नतः ॥ ५२ ॥
भस्मस्नानं स्मृतं श्रौतं तत्त्यागी पतितो भवेत् ।
मूत्राद्युत्सर्जनान्ते तु भस्मस्नानं प्रयत्‍नतः ॥ ५३ ॥
कर्तव्यमन्यथा पूता न भविष्यन्ति मानवाः ।
विधिवत्कृतशौचोऽपि भस्मस्नानं विना द्विजः ॥ ५४ ॥
न भविष्यति पूतात्मा नाधिकार्यपि कर्मणि ।
अपानवायुनिर्याते जृम्भणे स्कन्दने क्षुते ॥ ५५ ॥
श्लेष्मोद्‌गारेऽपि कर्तव्यं भस्मस्नानं प्रयत्‍नतः ।
श्रीभस्मस्नानमाहात्म्यस्यैकदेशोऽत्र वर्णितः ॥ ५६ ॥
पुनश्च सम्प्रवक्ष्यामि भस्मस्नानोत्थितं फलम् ।
सावधानेन मनसा श्रोतव्यं मुनिपुङ्‌गव ॥ ५७ ॥


भस्मधारणाचे फल

नारायण म्हणाले, ''भस्मांकित पुरुषास दान दिल्याने सर्व पापे नष्ट होतात. श्रुती- स्मृती पुराणे भस्माचे महात्म्य सांगतात. त्रिकाल भस्माचा पुंड्र लावणारा शिवलोकी जातो. नखशिखांत त्रिकाल स्नान केल्याने योगसिद्धी सत्वर होते. भस्मस्नानाने कुलाचा उद्धार होतो. त्यामुळे सर्व तीर्थांचे पुण्य व फल प्राप्त होते. अग्नी जसा इंधन जाळतो तसे भस्म पातकांना दग्ध करते. भस्माहून श्रेष्ठ स्नान दुसरे नाही. शंकरानेही भस्मस्नान केल्यामुळेच तो शिवरूप झाला, त्यामुळे कल्याणाची इच्छा करणारे सर्व देव देवता भस्मस्नान करू लागले. अग्नेयशिरस्नान करणारा शरीरानेच रुद्र होतो. भस्मचर्चित मनुष्याला पाहून जो आदराने उठून उभा राहतो, त्याला इंद्रादिदेवही दंडवत प्रणाम करतात. आर्द्रस्नानापेक्षा भस्मस्नान श्रेष्ठ होय. उदक ही प्रकृती असल्याने बंधन होय. म्हणून भस्मस्नानाने बंधनाचा नाश करावा. पूर्वी देवांनी रक्षणार्थ, मंगलार्थ, पवित्रतेसाठी भस्म स्वीकारले. ते शंकराने देवीस स्वतः दिले. सर्व रोग व सर्व भये या भस्मलेपनामुळे नष्ट होतात. कंठावर भस्म धारण केल्यामुळे सर्व पातके नाहीशी होतात. वक्षस्थलीच्या भस्मामुळे मानसिक पाप, नाभीस भस्म लावल्याने शिश्नकृत पाप, गुदाचे ठायी लावल्यास गुदकृत पाप नष्ट होते. दोन्ही कुशीस भस्म लावल्यास परस्त्री- आलिंगनाचे पाप नाहीसे होते. हे भस्मधारण सर्वकाळी सर्वस्थळी प्रशस्त आहे.
भस्मनिष्ठ पुरुषाचे दोष सत्वर दग्ध होतात. भस्मस्नानाने पवित्र झालेलाच खरा आत्मनिष्ठ होय. सर्व पापांचे यामुळे भस्म होते म्हणून त्याला भस्म असे म्हणतात. हे पुरुषांना ऐश्वर्य देते म्हणून याला भूती, तसेच ते रक्षण करते म्हणून रक्षा या नावांनी संबोधतात. त्रिपुंड्रिकास पाहून भुते, प्रेते कंपायमान होतात. अतुल पातके करूनही मृत्युसमयी द्विजाने भस्म लावल्यास तो पापमुक्त होतो. भस्मस्नानामुळे ज्याने क्रोध वगैरे जिंकले आहेत तो माझ्याजवळ येतो. त्यास पुन्हा जन्म नाही. दीर्घायुष्याची इच्छा करणाराने मोक्षेच्छु पुरुषाचे भस्म धारण करावे. उदकाचे स्नान हे केवळ देहावरील मल नष्ट करते, पण भस्मस्नानाने अंतर्बाह्य मल नाहीसा होतो. कोटी वेळा केलेल्या उदकस्नानापेक्षा एकदा केलेल्या भस्मस्नानाचे महात्म्य श्रेष्ठ आहे. भस्माविना वैदिक कर्म केल्यास अर्धेही फल प्राप्त होत नाही. यथाशास्त्र भस्मधारण करणारास कर्माचा खरा अधिकारी होतो. भस्मस्नान श्रुतिप्रोक्त असल्याने तीन वेळा भस्मस्नान करावे. भस्माचा त्याग करणारा पतित होय. मूत्रादि मलाचा त्याग केल्यावर भस्मस्नान करावे. अपानवायु सुटला असता, जांभई दिली असता, शिंक, उचकी, खोकला यांची बाधा झाल्यास भस्मस्नान करावे. हा भस्मस्नानाच्या महात्म्याचा एक भाग आहे. आता त्याचे फल सांगतो.



इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे
विभूतिधारणमाहात्म्यवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥

अध्याय चवदावा समाप्त

GO TOP