श्रीमद्‌देवीभागवत महापुराण
नवमः स्कन्धः
पञ्चाशत्तमोऽध्यायः


देव्या आवरणपूजाविधिवर्णनम्

नारद उवाच
श्रुतं सर्वमुपाख्यानं प्रकृतीनां यथातथम् ।
यच्छ्रुत्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ १ ॥
अधुना श्रोतुमिच्छामि रहस्यं वेदगोपितम् ।
राधायाश्चैव दुर्गाया विधानं श्रुतिचोदितम् ॥ २ ॥
महिमा वर्णितोऽतीव भवता परयोर्द्वयोः ।
श्रुत्वा तं तद्‌गतं चेतो न कस्य स्यान्मुनीश्वर ॥ ३ ॥
ययोरंशो जगत्सर्वं यन्नियम्यं चराचरम् ।
ययोर्भक्त्या भवेन्मुक्तिस्तद्विधानं वदाधुना ॥ ४ ॥
श्रीनारायण उवाच
शृणु नारद वक्ष्यामि रहस्यं श्रुतिचोदितम् ।
यन्न कस्यापि चाख्यातं सारात्सारं परात्परम् ॥ ५ ॥
श्रुत्वा परस्मै नो वाच्यं यतोऽतीव रहस्यकम् ।
मूलप्रकृतिरूपिण्याः संविदो जगदुद्‍भवे ॥ ६ ॥
प्रादुर्भूतं शक्तियुग्मं प्राणबुद्ध्यधिदैवतम् ।
जीवानां चैव सर्वेषां नियन्तृप्रेरकं सदा ॥ ७ ॥
तदधीनं जगत्सर्वं विराडादिचराचरम् ।
यावत्तयोः प्रसादो न तावन्मोक्षो हि दुर्लभः ॥ ८ ॥
ततस्तयोः प्रसादार्थं नित्यं सेवेत तद्द्वयम् ।
तत्रादौ राधिकामन्त्रं शृणु नारद भक्तितः ॥ ९ ॥
ब्रह्मविष्ण्वादिभिर्नित्यं सेवितो यः परात्परः ।
श्रीराधेति चतुर्थ्यन्तं वह्नेर्जाया ततः परम् ॥ १० ॥
षडक्षरो महामन्त्रो धर्माद्यर्थप्रकाशकः ।
मायाबीजादिकश्चायं वाञ्छाचिन्तामणिः स्मृतः ॥ ११ ॥
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ।
एतन्मन्त्रस्य माहात्म्यं वर्णितुं नैव शक्यते ॥ १२ ॥
जग्राह प्रथमं मन्त्रं श्रीकृष्णो भक्तितत्परः ।
उपदेशान्मूलदेव्या गोलोके रासमण्डले ॥ १३ ॥
विष्णुस्तेनोपदिष्टस्तु तेन ब्रह्मा विराट् तथा ।
तेन धर्मस्तेन चाहमित्येषा हि परम्परा ॥ १४ ॥
अहं जपामि तं मन्त्रं तेनाहमृषिरीडितः ।
ब्रह्माद्याः सकला देवा नित्यं ध्यायन्ति तां मुदा ॥ १५ ॥
कृष्णार्चायां नाधिकारो यतो राधार्चनं विना ।
वैष्णवैः सकलैस्तस्मात्कर्तव्यं राधिकार्चनम् ॥ १६ ॥
कृष्णप्राणाधिदेवी सा तदधीनो विभुर्यतः ।
रासेश्वरी तस्य नित्यं तया हीनो न तिष्ठति ॥ १७ ॥
राध्नोति सकलान्कामांस्तस्माद्‌राधेति कीर्तिता ।
अत्रोक्तानां मनूनां च ऋषिरस्म्यहमेव च ॥ १८ ॥
छन्दश्च देवी गायत्री देवतात्र च राधिका ।
तारो बीजं शक्तिबीजं शक्तिस्तु परिकीर्तिता ॥ १९ ॥
मूलावृत्त्या षडङ्‌गानि कर्तव्यानीतरत्र च ।
अथ ध्यायेन्महादेवीं राधिकां रासनायिकाम् ॥ २० ॥
पूर्वोक्तरीत्या तु मुने सामवेदे विगीतया ।
श्वेतचम्पकवर्णाभां शरदिन्दुसमाननाम् ॥ २१ ॥
कोटिचन्द्रप्रतीकाशां शरदम्भोजलोचनाम् ।
बिम्बाधरां पृथुश्रोणीं काञ्चीयुतनितम्बिनीम् ॥ २२ ॥
कुन्दपङ्‌क्तिसमानाभदन्तपङ्‌क्तिविराजिताम् ।
क्षौमाम्बरपरीधानां वह्निशुद्धांशुकान्विताम् ॥ २३ ॥
ईषद्धास्यप्रसन्नास्यां करिकुम्भयुगस्तनीम् ।
सदा द्वादशवर्षीयां रत्‍नभूषणभूषिताम् ॥ २४ ॥
शृङ्‌गारसिन्धुलहरीं भक्तानुग्रहकातराम् ।
मल्लिकामालतीमालाकेशपाशविराजिताम् ॥ २५ ॥
सुकुमाराङ्‌गलतिकां रासमण्डलमध्यगाम् ।
वराभयकरां शान्तां शश्वत्सुस्थिरयौवनाम् ॥ २६ ॥
रत्‍नसिंहासनासीनां गोपीमण्डलनायिकाम् ।
कृष्णप्राणाधिकां वेदबोधितां परमेश्वरीम् ॥ २७ ॥
एवं ध्यात्वा ततो बाह्ये शालग्रामे घटेऽथवा ।
यन्त्रे वाष्टदले देवीं पूजयेत्तु विधानतः ॥ २८ ॥
आवाह्य देवीं तत्पश्चादासनादि प्रदीयताम् ।
मूलमन्त्रं समुच्चार्य चासनादीनि कल्पयेत् ॥ २९ ॥
पाद्यं तु पादयोर्दद्यान्मस्तकेऽर्घ्यं समीरितम् ।
मुखे त्वाचमनीयं स्यात्त्रिवारं मूलविद्यया ॥ ३० ॥
मधुपर्कं ततो दद्यादेकां गां च पयस्विनीम् ।
ततो नयेत्स्नानशालां तां च तत्रैव भावयेत् ॥ ३१ ॥
अभ्यङ्‌गादिस्नानविधिं कल्पयित्वाथ वाससी ।
ततश्च चन्दनं दद्यान्नानालङ्‌कारपूर्वकम् ॥ ३२ ॥
पुष्पमाला बहुविधास्तुलसीमञ्जरीयुताः ।
पारिजातप्रसूनानि शतपत्रादिकानि च ॥ ३३ ॥
ततः कुर्यात्पवित्रं तत्परिवारार्चनं विभोः ।
अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्‌गपूजनम् ॥ ३४ ॥
कृत्वा पश्चादष्टदले दक्षिणावर्ततोऽग्रतः ।
मालावतीमग्रदले वह्निकोणे च माधवीम् ॥ ३५ ॥
रत्‍नमालां दक्षिणे च नैर्ऋत्ये तु सुशीलकाम् ।
पश्चाद्दले शशिकलां पूजयेन्मतिमान्नरः ॥ ३६ ॥
मारुते पारिजातां चाप्युत्तरे च परावतीम् ।
ईशानकोणे सम्पूज्या सुन्दरी प्रियकारिणी ॥ ३७ ॥
ब्राह्म्यादयस्तु तद्बाह्येऽप्याशापालांस्तु भूपुरे ।
वज्रादिकान्यायुधानि देवीमित्थं प्रपूजयेत् ॥ ३८ ॥
ततो देवीं सावरणां गन्धाद्यैरुपचारकैः ।
राजोपचारसहितैः पूजयेन्मतिमान्नरः ॥ ३९ ॥
ततः स्तुवीत देवेशीं स्तोत्रैर्नामसहस्रकैः ।
सहस्रसंख्यं च जपं नित्यं कुर्यात्प्रयत्‍नतः ॥ ४० ॥
य एवं पूजयेद्देवीं राधां रासेश्वरीं पराम् ।
स भवेद्विष्णुतुल्यस्तु गोलोकं याति सन्ततम् ॥ ४१ ॥
यः कार्तिक्यां पौर्णमास्यां राधाजन्मोत्सव बुधः ।
कुरुते तस्य सान्निध्यं दद्याद्‌रासेश्वरी परा ॥ ४२ ॥
केनचित्कारणेनैव राधा वृन्दावने वने ।
वृषभानुसुता जाता गोलोकस्थायिनी सदा ॥ ४३ ॥
अत्रोक्तानां तु मन्त्राणां वर्णसंख्याविधानतः ।
पुरश्चरणकर्मोक्तं दशांशं होममाचरेत् ॥ ४४ ॥
तिलैस्त्रिस्वादुसंयुक्तैर्जुहुयाद्‍भक्तिभावतः ।
नारद उवाच
स्तोत्रं वद मुने सम्यग्येन देवी प्रसीदति ॥ ४५ ॥
श्रीनारायण उवाच
नमस्ते परमेशानि रासमण्डलवासिनि ।
रासेश्वरि नमस्तेऽस्तु कृष्णप्राणाधिकप्रिये ॥ ४६ ॥
नमस्त्रैलोक्यजननि प्रसीद करुणार्णवे ।
ब्रह्मविष्ण्वादिभिर्देवैर्वन्द्यमानपदाम्बुजे ॥ ४७ ॥
नमः सरस्वतीरूपे नमः सावित्रि शङ्‌करि ।
गङ्‌गापद्मावतीरूपे षष्ठि मङ्‌गलचण्डिके ॥ ४८ ॥
नमस्ते तुलसीरूपे नमो लक्ष्मीस्वरूपिणि ।
नमो दुर्गे भगवति नमस्ते सर्वरूपिणि ॥ ४९ ॥
मूलप्रकृतिरूपां त्वां भजामः करुणार्णवाम् ।
संसारसागरादस्मानुद्धराम्ब दयां कुरु ॥ ५० ॥
इदं स्तोत्रं त्रिसन्ध्यं यः पठेद्‌राधां स्मरन्नरः ।
न तस्य दुर्लभं किञ्चित्कदाचिच्च भविष्यति ॥ ५१ ॥
देहान्ते च वसेन्नित्यं गोलोके रासमण्डले ।
इदं रहस्यं परमं न चाख्येयं तु कस्यचित् ॥ ५२ ॥
अधुना शृणु विप्रेन्द्र दुर्गादेव्या विधानकम् ।
यस्याः स्मरणमात्रेण पलायन्ते महापदः ॥ ५३ ॥
एनां न भजते यो हि तादृङ्‌नास्त्येव कुत्रचित् ।
सर्वोपास्या सर्वमाता शैवी शक्तिर्महाद्‌भुता ॥ ५४ ॥
सर्वबुद्ध्याधिदेवीयमन्तर्यामिस्वरूपिणी ।
दुर्गसङ्‌कटहन्त्रीति दुर्गेति प्रथिता भुवि ॥ ५५ ॥
वैष्णवानां च शैवानामुपास्येयं च नित्यशः ।
मूलप्रकृतिरूपा सा सृष्टिस्थित्यन्तकारिणी ॥ ५६ ॥
तस्या नवाक्षरं मन्त्रं वक्ष्ये मन्त्रोत्तमोत्तमम् ।
वाग्भवं शम्भुवनिता कामबीजं ततः परम् ॥ ५७ ॥
चामुण्डायै पदं पश्चाद्विच्चे इत्यक्षरद्वयम् ।
नवाक्षरो मनुः प्रोक्तो भजतां कल्पपादपः ॥ ५८ ॥
ब्रह्मविष्णुमहेशाना ऋषयोऽस्य प्रकीर्तिताः ।
छन्दांस्युक्तानि सततं गायत्र्युष्णिगनुष्टुभः ॥ ५९ ॥
महाकाली महालक्ष्मीः सरस्वत्यपि देवताः ।
स्याद्‌रक्तदन्तिकाबीजं दुर्गा च भ्रामरी तथा ॥ ६० ॥
नन्दाशाकम्भरीदेव्यौ भीमा च शक्तयः स्मृताः ।
धर्मार्थकाममोक्षेषु विनियोग उदाहृतः ॥ ६१ ॥
ऋषिच्छन्दो दैवतानि मौलौ वक्त्रे हृदि न्यसेत् ।
स्तनयोः शक्तिबीजानि न्यसेत्सर्वार्थसिद्धये ॥ ६२ ॥
बीजत्रयैश्चतुर्भिश्च द्वाभ्यां सर्वेण चैव हि ।
षडङ्‌गानि मनोः कुर्याज्जातियुक्तानि देशिकः ॥ ६३ ॥
शिखायां लोचनद्वन्द्वे श्रुतिनासाननेषु च ।
गुदे न्यसेन्मन्त्रवर्णान्सर्वेण व्यापकं चरेत् ॥ ६४ ॥
खड्गचक्रगदाबाणचापानि परिघं तथा ।
शूलं भुशुण्डीं च शिरः शङ्‌खं सन्दधतीं करैः ॥ ६५ ॥
महाकालीं त्रिनयनां नानाभूषणभूषिताम् ।
नीलाञ्जनसमप्रख्यां दशपादाननां भजे ॥ ६६ ॥
मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः ।
एवं ध्यायेन्महाकालीं कामबीजस्वरूपिणीम् ॥ ६७ ॥
अक्षमालां च परशुं गदेषुकुलिशानि च ।
पद्मं धनुष्कुण्डिकां च दण्डं शक्तिमसिं तथा ॥ ६८ ॥
चर्माम्बुजं तथा घण्टां सुरापात्रं च शूलकम् ।
पाशं सुदर्शनं चैव दधतीमरुणप्रभाम् ॥ ६९ ॥
रक्ताम्बुजासनगतां मायाबीजस्वरूपिणीम् ।
महालक्ष्मीं भजेदेवं महिषासुरमर्दिनीम् ॥ ७० ॥
घण्टाशूले हलं शङ्‌खं मुसलं च सुदर्शनम् ।
धनुर्बाणान् हस्तपद्मैर्दधानां कुन्दसन्निभाम् ॥ ७१ ॥
शुम्भादिदैत्यसंहर्त्रीं वाणीबीजस्वरूपिणीम् ।
महासरस्वतीं ध्यायेत्सच्चिदानन्दविग्रहाम् ॥ ७२ ॥
यन्त्रमस्याः शृणु प्राज्ञ त्र्यस्रं षट्कोणसंयुतम् ।
ततोऽष्टदलपद्मं च चतुर्विंशतिपत्रकम् ॥ ७३ ॥
भूगृहेण समायुक्तं यन्त्रमेवं विचिन्तयेत् ।
शालग्रामे घटे वापि यन्त्रे वा प्रतिमासु वा ॥ ७४ ॥
बाणलिङ्‌गेऽथवा सूर्ये यजेद्देवीमनन्यधीः ।
जयादिशक्तिसंयुक्ते पीठे देवीं प्रपूजयेत् ॥ ७५ ॥
पूर्वकोणे सरस्वत्या सहितं पद्मजं यजेत् ।
श्रिया सह हरिं तत्र नैर्ऋते कोणके यजेत् ॥ ७६ ॥
पार्वत्या सहितं शम्भुं वायुकोणे समर्चयेत् ।
देव्या उत्तरतः पूज्यः सिंहो वामे महासुरम् ॥ ७७ ॥
महिषं पूजयेदन्ते षट्कोणेषु यजेत्क्रमात् ।
नन्दजां रक्तदन्तां च तथा शाकम्भरीं शिवाम् ॥ ७८ ॥
दुर्गां भीमां भ्रामरीं च ततो वसुदलेषु च ।
ब्राह्मीं माहेश्वरीं चैव कौमारीं वैष्णवीं तथा ॥ ७९ ॥
वाराहीं नारसिंहीं च ऐन्द्रीं चामुण्डकां तथा ।
पूजयेच्च ततः पश्चात्तत्त्वपत्रेषु पूर्वतः ॥ ८० ॥
विष्णुमायां चेतनां च बुद्धिं निद्रां क्षुधां तथा ।
छायां शक्तिं परां तृष्णां शान्तिं जातिं च लज्जया ॥ ८१ ॥
क्षान्तिं श्रद्धां कीर्तिलक्ष्म्यौ धृतिं वृत्तिं श्रुतिं स्मृतिम् ।
दयां तुष्टिं ततः पुष्टिं मातृभ्रान्ती इति क्रमात् ॥ ८२ ॥
ततो भूपुरकोणेषु गणेशं क्षेत्रपालकम् ।
वटुकं योगिनीश्चापि पूजयेन्मतिमान्नरः ॥ ८३ ॥
इन्द्राद्यानपि तद्‌बाह्ये वज्राद्यायुधसंयुतान् ।
पूजयेदनया रीत्या देवीं सावरणां ततः ॥ ८४ ॥
राजोपचारान्विविधान्दद्यादम्बाप्रतुष्टये ।
ततो जपेन्नवार्णं च मन्त्रं मन्त्रार्थपूर्वकम् ॥ ८५ ॥
ततः सप्तशतीस्तोत्रं देव्या अग्रे तु सम्पठेत् ।
नानेन सदृशं स्तोत्रं विद्यते भुवनत्रये ॥ ८६ ॥
ततश्चानेन देवेशीं तोषयेत् प्रत्यहं नरः ।
धर्मार्थकाममोक्षाणामालयं जायते नरः ॥ ८७ ॥
इति ते कथितं विप्र श्रीदुर्गाया विधानकम् ।
कृतार्थता येन भवेत्तदेतत्कथितं तव ॥ ८८ ॥
सर्वे देवा हरिब्रह्मप्रमुखा मनवस्तथा ।
मुनयो ज्ञाननिष्ठाश्च योगिनश्चाश्रमास्तथा ॥ ८९ ॥
लक्ष्म्यादयस्तथा देव्यः सर्वे ध्यायन्ति तां शिवाम् ।
तदैव जन्मसाफल्यं दुर्गास्मरणमस्ति चेत् ॥ ९० ॥
चतुर्दशापि मनवो ध्यात्वा चरणपङ्‌कजम् ।
मनुत्वं प्राप्तवन्तश्च देवाः स्वं स्वं पदं तथा ॥ ९१ ॥
तदेतत्सर्वमाख्यातं रहस्यातिरहस्यकम् ।
प्रकृतीनां पञ्चकस्य तदंशानां च वर्णनम् ॥ ९२ ॥
श्रुत्वैतन्मनुजो नित्यं पुरुषार्थचतुष्टयम् ।
लभते नात्र सन्देहः सत्यं सत्यं मयोदितम् ॥ ९३ ॥
अपुत्रो लभते पुत्रं विद्यार्थी प्राप्नुयाच्च ताम् ।
यं यं कामं स्मरेद्वापि तं तं श्रुत्वा समाप्नुयात् ॥ ९४ ॥
नवरात्रे पठेदेतद्देव्यग्रे तु समाहितः ।
परितुष्टा जगद्धात्री भवत्येव हि निश्चितम् ॥ ९५ ॥
नित्यमेकैकमध्यायं पठेद्यः प्रत्यहं नरः ।
तस्य वश्या भवेद्देवी देवीप्रियकरो हि सः ॥ ९६ ॥
शकुनांश्च परीक्षेत नित्यमस्मिन्यथाविधि ।
कुमारीदिव्यहस्तेन यद्वा बटुकराम्बुजात् ॥ ९७ ॥
मनोरथं तु सङ्‌कल्प्य पुस्तकं पूजयेत्ततः ।
देवीं च जगदीशानीं प्रणमेच्च पुनः पुनः ॥ ९८ ॥
सुस्नातां कन्यकां तत्रानीयाभ्यर्च्य यथाविधि ।
शलाकां रोपयेन्मध्ये तथा स्वर्णेन निर्मिताम् ॥ ९९ ॥
शुभं वाप्यशुभं तत्र यदायाति च तद्‍भवेत् ।
उदासीनेऽप्युदासीनं कार्यं भवति निश्चितम् ॥ १०० ॥


आराधनेचे प्रकार व सप्तशती पाठविधी -

नारद म्हणाले, "हे मुनिश्रेष्ठा, प्राण्यांना संसारबंधनातून मुक्त करणारे प्रकृतीचे आख्यान मी ऐकले. आता मला वेदातील गुप्त रहस्य सांगा. राधा, दुर्गा व देवींचे विधानही सांगा."

श्री नारायणमुनी म्हणाले, "हे नारदा, हे वेदांत सार गुप्त ठेवणेच इष्ट होय. मूलप्रकृती आणि संविद्रूप ज्ञानशक्ती यांच्यापासून सर्व सृष्टी उत्पन्न होते. प्रथम तिच्यापासून प्राण व बुद्धी यांच्या अधिदेवता निर्माण झाल्या. त्या सर्व जीवांचे नियमन करतात. हे विराटादि व चराचर जगत् त्यांच्या आधीन आहे. त्यांच्या प्रसादाशिवाय मोक्षप्राप्ती नाही. म्हणून त्यांची सेवा करावी. आता राधिकेचे मंत्र सांगतो. कारण ब्रह्मा, विष्णु, महेशही तेच मंत्र जपत असतात. प्रथम "श्री राधा" हे चतुर्थ्यात पद घ्यावे. त्याच्यापुढे अग्निजाया 'स्वाहा' म्हणून देवीची पूजा करावी.

"श्री राधायै स्वाहा" हा षडाक्षरी मंत्र धर्म, अर्थ, काम यांचा प्रकाशक आहे. त्या पूर्वी "र्‍हीं" या मायाबीजाची योजना करावी. या मंत्राचे महात्म्य कितीही प्रयत्नांनी वर्णन करता येणार नाही. प्रथम रासमंडळात श्रीकृष्णाने हा मंत्र ग्रहण केला. नंतर त्याने हा मंत्र विष्णूस दिला. विष्णूने ब्रह्मदेवास व त्याने विराटास या मंत्राचा उपदेश केला. नंतर धर्माने मला हा मंत्र सांगितला. त्याच मंत्राचा मी सतत जप करतो.

ब्रह्मदेव वगैरे सर्वजण तो मंत्र जपत असतात. कारण राधेच्या पूजेशिवाय श्रीकृष्णाची पूजा करण्याचा अधिकार नाही. म्हणून विष्णूभक्तांनीही राधेचेच पूजन करावे. कारण तो तिच्या आधीन आहे. ती कृष्णाच्या प्राणाची देवता आहे. सर्व कामनापूर्ण करणारी म्हणून तिला राधा म्हणतात. "राध्नेति सकलानकामांस्तस्माद्राधेति कीर्तिता" अशी राधा शब्दाची व्युत्पत्ती आहे. नवम स्कंधात सांगितलेल्या सर्व मंत्रांचा मीच ऋषी आहे. देवी गायत्री छंद असून राधा ही देवता आहे. प्रणव हे बीज व भुवनेश्वरी ही शक्ती आहे. या मूलमंत्राची आवृत्ती करून षड्‍न्यास करावा. नंतर रासांची नायिका राधा हिचे सामवेदोक्त ध्यान करावे.

जिचे मुख चंद्राप्रमाणे आहे. कोटीसूर्याप्रमाणे जिची कांती आहे, कमलाप्रमाणे नेत्र आहे, श्रोणी विस्तृत आहे, कुंदकळ्यांप्रमाणे दंतपंक्ती आहेत, जिने रेशमी वस्त्र परिधान केले आहे, स्तनद्वय हत्तीच्या मस्तकावरील कुंभद्वयाप्रमाणे आहेत, जी शृंगार समुद्राची लाट आहे, जाईजुईची वेणी गुंफल्यामुळे जी फारच सुंदर दिसते, अशा नाजुक बांध्यांच्या, रासमंडलात रहाणार्‍या, चिरयौवनसंपन्न असलेल्या त्या श्रेष्ठ देवीचे वेदसुद्धा वर्णन करतात.

अशा त्या देवीचे ध्यान करून तिचे विधीपूर्वक पूजन करावे. मूलविद्येचे आचमन तीन वेळा तिच्या मुखात घालावे. तिला मधुपवी व दुभती गाय अर्पण करावी. तिची भावना करून तिला स्नानगृहात अभ्यंगस्नान घालावे. विविध वस्त्रे अर्पण करून चंदनाची उटी लावावी. तुलसीच्या मंजिर्‍यांची माला अर्पण करावी. सहस्र पाकळ्यांचे कमळ द्यावे.

नंतर त्या प्रभावी देवीच्या पवित्र परिवाराचीही पूजा करावी. अग्नेय, ईशान्य, नैॠत्य, वायव्य या दिशात तिच्या अंगदेवतांचे पूजन करावे. पूर्व दळावर मालतीची, आग्नेय दळावर माधवीची, दक्षिण कोणात रत्नमालेची, नैॠत्येत सुशीलेची, पश्चिमेस शशिकलेची पूजा करावी. वायव्येस पारिजात, उत्तरेस परावती, ईशान्येस त्या सुंदरी प्रियकरणीची पूजा करावी. नंतर ब्राह्मी वगैरे शक्तींची पूजा करावी. भूमीवर दिक्पालाची व वज्रादि आयुधांची पूजा करावी.

नंतर देवीचे सहस्रनाम स्तोत्र पठण करावे. मूलमंत्राचा एक हजार जप करावा.

अशारीतीने जो त्या राधेची पूजा करतो, तो विष्णुतुल्य होऊन गोलोकी जातो. कार्तिकी पौर्णिमेस राधेचा जन्मोत्सव करावा. कारण पूर्वी ती राधा वृषभानूची कन्या होऊन जन्मास आली.

जितके मंत्रवर्ण आहेत तितके लक्ष जपाची संख्या असावी म्हणजे मंत्राचे पुरश्चरण होते. त्याच्या दशांश होम करावा. धृत, मध, दूध यांनी तीलासह हवन करावे." नारद म्हणाले, "हे मुने, मला ते स्तोत्र सांगा." श्रीनारायण म्हणाले, "हे परमेश्वरी, रासमंडलनिवासिनी, कृष्णप्रिये, रासेश्वरी, तुला नमस्कार असो. हे त्रैलोक्यमाते, करुणाकर देवी तुला नमस्कार असो. हे सरस्वती देवी, हे सावित्री, हे शांकरी, हे गंगे, पद्मावती, हे षष्ठीदेवी, हे मंगलचंडिके, मी तुला वंदन करतो.

हे तुलसी देवी, हे लक्ष्मी, हे दुर्गे, तू मूलप्रकृती आहेस. तू आम्हावर कृपा कर."

असे हे राधेचे स्तोत्र त्रिकाळ म्हणणार्‍यास काहीही दुर्लभ नाही. तो गोलोकी रासमंडळात राहतो. हे गूढ रहस्य गुप्त ठेवावे.

आता हे ब्राह्मणश्रेष्ठा, तुला दुर्गादेवीचे पूजाविधान सांगतो. तिच्या केवळ स्मरणाने
विपत्तींचा नाश होतो. सर्वांना उपासना करण्यास योग्य, संकटनाश करणारी, अशा तिला भूलोकी दुर्गा म्हणतात.

ही विष्णुभक्त व शिवभक्तांना नित्य पूज्य असते. तिचा नवाक्षरी मंत्र सर्वोत्तम आहे. वाणीपासून उत्पन्न होणारे शंभुस्री व काम यांचे बीज प्रथम घ्यावे. नंतर चामुंडायै हे पद ठेवून विच्चे ही अक्षरे जोडावीत. असा नवाक्षरी मंत्र होतो. ब्रह्मा, विष्णु व महेश्वर हे या मंत्राचे ऋषी आहेत. गायत्री, उष्णिक, अनुष्टुप हे त्याचे तीन छंद आहेत. महाकाली, महालक्ष्मी, महासरस्वती ह्या देवता आहेत.

रक्तदंतिका, दुर्गा, भ्रामरी यांचे बीज होय. नंदा, शाकंभरी, भीमा ह्या शक्ती व धर्म, अर्थ, काम, मोक्ष ह्या ठिकाणी या मंत्राचा विनियोग आहे.

ऋषी, छंद, देवता यांच्या मस्तक, मुख व हृदय या ठिकाणी न्यास करावा. कामनांची सिद्धी व्हावी म्हणून स्तनांच्या ठिकाणी शक्ती, बीज यांचा न्यास करावा. तीन बिजांनी, चामुंडायै या चतुराक्षरांनी, विच्चे या अक्षरांनी व सर्व मंत्राला नमः, स्वाहा, वषट्‍, हुं, वौषट व फट् ही पदे सोडून त्यायोगे षडंग न्यास करावा. शिखेचे ठिकाणी, दोन नेत्र, कर्ण, नासिका, मुख, गुद या ठिकाणी त्या मंत्राचे वर्ण योजावेत. नंतर व्यापक न्यास करावा, "खड्‌ग, चक्र, गदा, बाण, धनुष्ये, परिघ, शूल, भृशुंगी, शिर, शंख या आयुधांनी युक्त; त्रिनेत्र, भूषणांनी विभूषित, निलांजल पर्वताप्रमाणे नीलकांती बसलेले, दहा पाय, दहा मुखे अशा त्या देवीचे पूजन करतो."

असे तिचे ध्यान करावे. "नंतर कामबीज असून अक्षमाला, परशू गदा, बाण, कुलिश, कमल, धनुष्यबाण, दंड, शक्ती, तलवार, ढाल, पुंडरीक, घंटा, सुरापात्र, शूल, पाश, सुदर्शन इत्यादी धारण केलेली, ताम्रवर्णासनावर बसलेली, अशा देवीची मी पूजा करतो. घंटा, शूल, नांगर, शंख, मुसल, सुदर्शन, धनुष्यबाण धारण करणारी, शुंभदैत्यनाशिनी, वाणीबीजरूप, सच्चिदानंदरूप महासरस्वतीचे मी ध्यान करतो."

या देवीचे सहा कोणांनी युक्त असे त्रिकोणी यंत्र करावे. प्रथम त्रिकोण काढून त्यावर अष्टदलांचे चोवीस पत्रांचे कमल काढावे. ते भूस्थ गृहाने युक्त करावे. या यंत्रात अथवा शालग्रामाचे ठिकाणी, घटामध्ये, प्रतिमेमध्ये, बाण-लिंग यांच्या ठिकाणी किंवा सूर्याचे ठिकाणी तिची कल्पना करावी व शक्तीयुक्त पीठावर तिची भक्तीने पूजा करावी.

पूर्वेकडील कोणात सरस्वतीसह ब्रह्मदेव, नैॠत्य कोणात लक्ष्मीसह विष्णू, वायव्यात पार्वतीसह शंकर, उत्तरेस सिंह, डाव्या बाजूस महिषासुर व सहा कोणात नंदजा, रक्तदंता, शाकंभरी, दुर्गा, भीमा, भ्रामरी यांची अष्टदलात ब्राह्मी, माहेश्वरी, कौमारी, वैष्णवी, वाराही, नारसिंही, ऐंद्री, चामुंडा यांची पूजा करावी.

त्यानंतर चोवीस पत्रांवर विष्णुमाया, चेतना, बुद्धी, निद्रा, क्षुधा, छायाशक्ती, परा, तृष्णा, सामान्य शांती, जाती, लज्जा, विशेष शांती, श्रद्धा, कीर्ती, लक्ष्मी, वृत्ती, श्रुती, स्मृती, दया, तुष्टी, माता, भ्रांती या क्रमाने पूर्वेकडून पूजा करावी.

भूमीवर पुरोगामी, कोणात क्षेत्ररक्षक, गणपती आणि बटूभैरव देवांचे तसेच योगिनीचेही पूजन करावे. नंतर बाहेर असलेल्या इंद्रादि दिक्पालांचे पूजन करावे. अशारीतीने देवीचे पूजन झाल्यावर राजोपचार अर्पण करावेत. नंतर देवीपुढे सप्तशतीचा पाठ करावा. त्यायोगे चारही पुरुषार्थ प्राप्त होतात.

हे विप्रा, याप्रमाणे मी तुला दुर्गेचे पूजाविधी सांगितले. कारण सर्व देवश्रेष्ठही तिचेच ध्यान करतात. तिच्या स्मरणानेच जन्माचे सार्थक होते. चवदा मनूही तिचीच आराधना करतात.

हे नारदा, हे अत्यंत गुप्त रहस्य मी तुला निवेदन केले. देवानांही त्यांची स्थाने देवीच्या स्तवनानेच प्राप्त झाली आहेत. तसेच पंचप्रकृती, त्यांचे अंश यांचेही वर्णन मी केले. हे ऐकून चारीही पुरुषार्थप्राप्ती होते हे निश्चित होय.

याच्या श्रवणाने निपुत्रिकास पुत्र, विद्यार्थ्यास विद्या प्राप्त होते. तसेच मनोकामना पूर्ण होतात. नवरात्रात याचा पाठ केल्यास जगन्माता प्रसन्न होते. जो पुरुष रोज एक अध्याय वाचतो तो देवीस प्रिय होतो.

कुमारी किंवा ब्रह्मचारी यांच्या हातून या ग्रंथात शकून पहावेत. संकल्प करून पुस्तकाची पूजा करावी. जगदीश्वरी देवीला नित्य नमस्कार करावा.

सुस्नात झालेल्या कन्येची यथाविधी पूजा करावी. तिच्याकडून पुस्तकात सुवर्णाची काडी घालावी. तेथे शुभ किंवा अशुभ फल समजेल. काही भाग उदासीन निघाल्यास कार्यही उदासीन होईल.


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे
देव्या आवरणपूजाविधिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥

अध्याय पन्नासावा समाप्त
नवमः स्कन्धः समाप्तः

GO TOP