श्रीमद्‌देवीभागवत महापुराण
नवमः स्कन्धः
सप्तत्रिंशोऽध्यायः


नानानरककुण्डवर्णनम्

धर्मराज उवाच
पूर्णेन्दुमण्डलाकारं सर्वं कुण्डं च वर्तुलम् ।
निम्नं पाषाणभेदैश्च पाचितं बहुभिः सति ॥ १ ॥
न नश्वरं चाप्रलयं निर्मितं चेश्वरेच्छया ।
क्लेशदं पातकानां च नानारूपं तदालयम् ॥ २ ॥
ज्वलदङ्‌गाररूपं च शतहस्तशिखान्वितम् ।
परितः क्रोशमानं च वह्निकुण्डं प्रकीर्तितम् ॥ ३ ॥
महाशब्दं प्रकुर्वद्‌‍भिः पापिभिः परिपूरितम् ।
रक्षितं मम दूतैश्च ताडितैश्चापि सन्ततम् ॥ ४ ॥
प्रतप्तोदकपूर्णं च हिंस्रजन्तुसमन्वितम् ।
महाघोरं काकुशब्दं प्रहारेण दृढेन च ॥ ५ ॥
क्रोशार्धमानं तद्दूतैस्ताडितैर्मम पार्षदैः ।
तप्तक्षारोदकैः पूर्णं पुनः काकैश्च सङ्‌कुलम् ॥ ६ ॥
सङ्‌कुलं पापिभिश्चैव क्रोशमानं भयानकम् ।
त्राहीति शब्दं कुर्वद्‌‍भिर्मम दूतैश्च ताडितैः ॥ ७ ॥
प्रचलद्‌भिरनाहारैः शुष्ककण्ठोष्ठतालुकैः ।
विड्‌भिरेव कृतं पूर्णं क्रोशमानं च कुत्सितम् ॥ ८ ॥
अतिदुर्गन्धिसंसक्तं व्याप्तं पापिभिरन्वहम् ।
ताडितैर्मम दूतैश्च तदाहारैः सुदारुणैः ॥ ९ ॥
रक्षेति शब्दं कुर्वद्‌भिस्तत्कीटैरेव भक्षितैः ।
तप्तमूत्रद्रवैः पूर्णं मूत्रकीटैश्च सङ्‌कुलम् ॥ १० ॥
युक्तं महापातकिभिस्तत्कीटैर्भक्षितैः सदा ।
गव्यूतिमानं ध्वान्ताक्तं शब्दकृद्‌भिश्च सन्ततम् ॥ ११ ॥
मद्दूतैस्ताडितैर्घोरैः शुष्ककण्ठोष्ठतालुकैः ।
श्लेष्मपूर्णं प्रशमितं तत्कीटैः पूरितं सदा ॥ १२ ॥
तद्‍भोजिभिः पापिभिश्च वेष्टितं वेष्टितैः सदा ।
क्रोशार्धं गरकुण्डं च गरभोजिभिरन्वितम् ॥ १३ ॥
गरकीटैर्भक्षितैश्च पापिभिः पूर्णमेव च ।
ताडितैर्मम दूतैश्च शब्दकृद्‌भिश्च कम्पितैः ॥ १४ ॥
सर्पाकारेर्वज्रदंष्ट्रै शुष्ककण्ठैः सुदारुणैः ।
नेत्रयोर्मलपूर्णं च क्रोशार्धं कीटसंयुतम् ॥ १५ ॥
पापिभिः सङ्‌कुलं शश्वद्‌भ्रमद्‌भिः कीटभक्षितैः ।
वसारसेन सम्पूर्णं क्रोशतुर्यं सुदुःसहम् ॥ १६ ॥
तद्‍भोजिभिः पातकिभिर्मम दूतैश्च ताडितैः ।
शुक्रकुण्डं क्रोशमितं शुक्रकीटैश्च संयुतम् ॥ १७ ॥
पापिभिः सङ्‌कुलं शश्वद्‌ द्रवद्‌भिः कीटभक्षितैः ।
दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम् ॥ १८ ॥
तद्‍भोजिभिः पापिभिश्च सङ्‌कुलं कीटभक्षितम् ।
पूर्णं नेत्राश्रुभिस्तप्तं बहुपापिभिरन्वितम् ॥ १९ ॥
वापीतुर्यप्रमाणं च रुदद्‌भिः कीटभक्षितैः ।
नृणां गात्रमलैर्युक्तं तद्‍भक्षैः पापिभिर्युतम् ॥ २० ॥
ताडितैर्मम दूतैश्च व्यग्रैश्च कीटभक्षितैः ।
कर्णविट्परिपूर्णं च तद्‍भक्षैः पापिभिर्वृतम् ॥ २१ ॥
वापीतुर्यप्रमाणं च ब्रुवद्‌भिः कीटभक्षितैः ।
मज्जापूर्णं नराणां च महादुर्गन्धिसंयुतम् ॥ २२ ॥
महापातकिभिर्युक्तं वापीतुर्यप्रमाणकम् ।
परिपूर्णं सिग्धमांसैर्मम दूतैश्च ताडितैः ॥ २३ ॥
पापिभिः सङ्‌कुलं चैव वापीमानं भयानकम् ।
कन्याविक्रयिभिश्चैव तद्‍भक्ष्यैः कीटभक्षितैः ॥ २४ ॥
पाहीति शब्दं कुर्वद्‌भिस्त्रासितैश्च भयानकैः ।
वापीतुर्यप्रमाणं च नखादिकचतुष्टयम् ॥ २५ ॥
पापिभिः संयुतं शश्वन्मम दूतैश्च ताडितैः ।
प्रतप्तताम्रकुण्डं च ताम्रोपर्युल्मुकान्वितम् ॥ २६ ॥
ताम्राणां प्रतिमालक्षैः प्रतप्तैर्व्यापृतं सदा ।
प्रत्येकं प्रतिमाश्लिष्टैः रुदद्‌भिः पापिभिर्युतम् ॥ २७ ॥
गव्यूतिमानं विस्तीर्णं मम दूतैश्च ताडितैः ।
प्रतप्तलोहधारं च ज्ववलदङ्‌गारसंयुतम् ॥ २८ ॥
लोहानां प्रतिमाश्लिष्टैः रुदद्‌भिः पापिभिर्युतम् ।
प्रत्येकं प्रतिमाश्लिष्टैः शश्वत्प्रज्वलितैर्भिया ॥ २९ ॥
रक्ष रक्षेति शब्दं च कुर्वद्‌भिर्दूतताडितैः ।
महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ॥ ३० ॥
भयानकं ध्वान्तयुक्तं लोहकुण्डं प्रकीर्तितम् ।
चर्मकुण्डं तप्तसुराकुण्डं वाप्यर्धमेव च ॥ ३१ ॥
तद्‍भोजिपापिभिर्व्याप्तं मम दूतैश्च ताडितैः ।
अतः शाल्मलिकुण्डं च वृक्षकण्टकशोभितम् ॥ ३२ ॥
लक्षपौरुषमानं च क्रोशमानं च दुःखदम् ।
धनुर्मानैः कण्टकैश्च सुतीक्ष्णैः परिवेष्टितम् ॥ ३३ ॥
प्रत्येकं विद्धगात्रैश्च महापातकिभिर्युतम् ।
वृक्षाग्रान्निपतद्‌भिश्च मम दूतैश्च पातितैः ॥ ३४ ॥
जलं देहीति शब्दं च कुर्वद्‌भिः शुष्कतालुकैः ।
महाभियातिव्यग्रैश्च दण्डैः सम्भग्नमस्तकैः ॥ ३५ ॥
प्रचलद्‌भिर्यथा तप्ततैलजीविभिरेव च ।
विषोदैस्तक्षकाणां च पूर्वं च क्रोशमानकम् ॥ ३६ ॥
तद्‍भक्षैः पापिभिर्युक्तं मम दूतैश्च ताडिते ।
प्रतप्ततैलपूर्णं च कीटादिपरिवर्जितम् ॥ ३७ ॥
महापातकिभिर्युक्तं दग्धाङ्‌गारैश्च वेष्टितम् ।
काकुशब्दं प्रकुर्वद्‌भिश्चलद्‌भिर्दूतपीडितैः ॥ ३८ ॥
ध्वान्तयुक्तं क्रोशमानं क्लेशदं च भयानकम् ।
शूलाकारैः सुतीक्ष्णाग्रैर्लोहशस्त्रैश्च वेष्टितम् ॥ ३९ ॥
शस्त्रतल्पस्वरूपञ्च कोशतुर्यप्रमाणकम् ।
वेष्टितं तत्पातकिभिः कुन्तविद्धैश्च वेष्टितैः ॥ ४० ॥
ताडितैर्मम दूतैश्च शुष्ककण्ठोष्ठतालुकैः ।
कीटैश्च शङ्‌कुप्रमितैः सर्पमानैर्भयङ्‌करैः ॥ ४१ ॥
तीक्ष्णदन्तैश्च विकृतैर्व्याप्तं ध्वान्तयुतं सति ।
महापातकिभिर्युक्तं मम दूतैश्च ताडिते ॥ ४२ ॥
द्विगव्यूतिप्रमाणं च पूयकुण्डं प्रचक्षते ।
तद्‍भक्ष्यैः प्राणिभिर्युक्तं मम दूतैश्च ताडितैः ॥ ४३ ॥
तालवृक्षप्रमाणैश्च सर्पकोटिभिरावृतम् ।
सर्पवेष्टितगात्रैश्च पापिभिः सर्पभक्षितैः ॥ ४४ ॥
सङ्‌कुलं शब्दकृद्‌भिश्च मम दूतैश्च ताडितैः ।
कुण्डत्रयं मशादीनां पूर्णं च मशकादिभिः ॥ ४५ ॥
सर्वं कोशार्धमानं च महापातकिभिर्युतम् ।
हस्तपादादिबद्धैश्च क्षतजौघेन लोहितैः ॥ ४६ ॥
हाहेति शब्दं कुर्वद्‌भिस्ताडितैर्मम पार्षदैः ।
वज्रवृश्चिकयोः कुण्डं ताभ्यां च परिपूरितम् ॥ ४७ ॥
वाप्यर्धं पापिभिर्युक्तं वज्रवृश्चिकदंशितैः ।
कुण्डत्रयं शरादीनां तैरेव परिपूरितम् ॥ ४८ ॥
तैर्विद्धैः पापिभिर्युक्तं वाप्यर्धं रक्तलोहितैः ।
तप्ततोयोदकैः पूर्णं सध्वान्तं गोलकुण्डकम् ॥ ४९ ॥
कीटैः शङ्‌कुसमानैश्च भक्षितैः पापिभिर्युतम् ।
वाप्यर्थमानं भीतैश्च पापिभिः कीटभक्षितैः ॥ ५० ॥
रुदद्‌भिः क्रोशमानैश्च मम दूतैश्च ताडितैः ।
अतिदुर्गन्धिसंयुक्तं दुःखदं पापिनां सदा ॥ ५१ ॥
दारुणैर्विकृताकारैर्भक्षितं पापिभिर्युतम् ।
वाप्यर्धं परिपूर्णं च जलस्थैर्नक्रकोटिभिः ॥ ५२ ॥
विण्मूत्रश्लेष्मभक्षैश्च संयुतं शतकोटिभिः ।
काकैश्च विकृताकारैर्भक्षितैः पापिभिर्युतम् ॥ ५३ ॥
मन्थानकुण्डं बीजकुण्डं ताभ्यां पूर्णं धनुःशतम् ।
भक्षितैः पापिभिर्युक्तं शब्दकृद्‌भिश्च सन्ततम् ॥ ५४ ॥
धनुःशतं जीवयुक्तं पापिभिः सङ्‌कुलं सदा ।
शब्दकृद्‌भिर्वज्रदंष्ट्रैः सान्द्रध्वान्तमयं परम् ॥ ५५ ॥
वापीद्विगुणमानं च तप्तप्रस्तरनिर्मितम् ।
ज्वलदङ्‌गारसदृशं चलद्‌भिः पापिभिर्युतम् ॥ ५६ ॥
क्षुरधारोपमैस्तीक्ष्णैः पाषाणैर्निर्मितं परम् ।
महापातकिभिर्युक्तं लालाकुण्डं च लोहितैः ॥ ५७ ॥
क्रोशमात्रं च गम्भीरं मम दूतैश्च ताडितैः ।
तप्ताञ्जनाचलाकारैः परिपूर्णं धनुःशतम् ॥ ५८ ॥
चलद्‌भिः पापिभिर्युक्तं मम दूतैश्च ताडितैः ।
पूर्णं चूर्णद्रवैः क्रोशमानं पापिभिरन्वितम् ॥ ५९ ॥
तद्‍भोजिभिः प्रदग्धैश्च मम दूतैश्च ताडितैः ।
कुण्डं कुलालचक्रं च घूर्णमानञ्च सन्ततम् ॥ ६० ॥
सुतीक्ष्णं षोडशारं च चूर्णितैः पापिभिर्युतम् ।
अतीव वक्रं निम्नं च द्विगव्यूतिप्रमाणकम् ॥ ६१ ॥
कन्दराकारनिर्माणं तप्तोदैश्च समन्वितम् ।
महापातकिभिर्युक्तं भक्षितैर्जलजन्तुभिः ॥ ६२ ॥
ज्वलद्‌भिः शब्दकृद्‌भिश्च ध्वान्तयुक्तं भयानकम् ।
कोटिभिर्विकृताकारैः कच्छपैश्च सुदारुणैः ॥ ६३ ॥
जलस्थैः संयुतं तैश्च भक्षितैः पापिभिर्युतम् ।
ज्वालाकलापैस्तेजोभिर्निर्मितैः क्रोशमानकम् ॥ ६४ ॥
शब्दकृद्‌भिः पातकिभिः संयुतं क्लेशदं सदा ।
क्रोशमानञ्च गम्भीरं तप्तभस्मभिरन्वितम् ॥ ६५ ॥
शश्वज्ज्वलद्‌भिः संयुक्तं पापिभिर्भस्मभक्षितैः ।
तप्तपाषाणलोहानां समूहैः परिपूरितैः ॥ ६६ ॥
पापिभिर्दग्धगात्रैश्च युक्तञ्च शुष्कतालुकैः ।
क्रोशमानं ध्वान्तयुक्तं गम्भीरमतिदारुणम् ॥ ६७ ॥
ताडितैश्च प्रदग्धैश्च दग्धकुण्डं प्रकीर्तितम् ।
अतीवोर्मियुतं तोयं प्रतप्तक्षारसंयुतम् ॥ ६८ ॥
नानाप्रकारैर्विरुतैर्जलजन्तुभिरन्वितम् ।
द्विगव्यूतिप्रमाणं च गम्भीरं ध्वान्तसंयुतम् ॥ ६९ ॥
तद्‍भक्ष्यैः पापिभिर्युक्तं दंशितैर्जलजन्तुभिः ।
ज्वलद्‌भिः शब्दकृद्‌भिश्च न पश्यद्‌भिः परस्परम् ॥ ७० ॥
प्रतप्तसूचीकुण्डञ्च कीर्तितं च भयानकम् ।
असीव धारापत्रस्याऽप्युच्चैस्तालतरोरधः ॥ ७१ ॥
क्रोशार्धमानं कुण्डं च पतत्पत्रसमन्वितम् ।
पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां ध्रुवम् । ७२
परित्राहीति शब्दं च कुर्वतामसतामपि ।
गम्भीरं ध्वान्तयुक्तं च रक्तकीटसमन्वितम् ॥ ७३ ॥
तदसीपत्रकुण्डं च कीर्तितं च भयानकम् ।
धनुःशतप्रमाणं च क्षुरधारास्त्रसंयुतम् ॥ ७४ ॥
पापिनां रक्तपूर्णं च क्षुरधारं भयानकम् ।
सूचीमुखास्त्रसंयुक्तं पापिरक्तौघपूरतम् ॥ ७५ ॥
पञ्चाशद्धनुरायामं क्लेशदं सूचिकामुखम् ।
कस्यचिज्जन्तुभेदस्य गोकाख्यस्य मुखाकृति ॥ ७६ ॥
कूपरूपं गभीरं च धनुर्विंशत्प्रमाणकम् ।
महापातकिनां चैव महत्क्लेशप्रदं परम् ॥ ७७ ॥
तत्कीटभक्षितानां च नम्रास्यानां च सन्ततम् ।
कुण्डं नक्रमुखाकारं धनुःषोडशमानकम् ॥ ७८ ॥
गम्भीरं कूपरूपं च पापिनां सङ्‌कुलं सदा ।
धनुःशतप्रमाणं च कीर्तितं गजदंशनम् ॥ ७९ ॥
धनुस्त्रिंशत्प्रमाणं च कुण्डं च गोमुखाकृति ।
पापिनां क्लेशदं शश्वद्‌ गोमुखं परिकीर्तितम् ॥ ८० ॥
कालचक्रेण संयुक्तं भ्रममाणं भयानकम् ।
कुम्भाकारं ध्वान्तयुक्तं द्विगव्यूतिप्रमाणकम् ॥ ८१ ॥
लक्षपौरुषमानं च गम्भीरं विस्मृतं सति ।
कुत्रचित्तप्ततैलं च ताम्रादिकुण्डमेव च ॥ ८२ ॥
पापिनां च प्रधानैश्च मूर्च्छितैः कृमिभिर्युतम् ।
परस्परं च नश्यद्‌भिः शब्दकृद्‌भिश्च सन्ततम् ॥ ८३ ॥
ताडितैर्यमदूतैश्च मुसलैर्मुद्‌गरैस्तथा ।
घूर्णमानैः पतद्‌भिश्च मूर्च्छितैश्च क्षणं क्षणम् ॥ ८४ ॥
पातितैर्यमदूतैश्च रुदन्त्यस्मात्क्षणं पुनः ।
यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि ॥ ८५ ॥
ततश्चतुर्गुणाः सन्ति कुम्भीपाके च दुःखदे ।
सुचिरं वध्यमानास्ते भोगदेहा न नश्वराः ॥ ८६ ॥
सर्वकुण्डप्रधानं च कुम्भीपाकं प्रकीर्तितम् ।
कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः ॥ ८७ ॥
उत्थापिताश्च दूतैश्च क्षणमेव निमज्जिताः ।
निःश्वासबद्धाः सुचिरं तथा मोहं गताः पुनः ॥ ८८ ॥
अतीव क्लेशसंयुक्ता देहभोगेन सुन्दरि ।
प्रतप्ततोययुक्तं च कालसूत्रं प्रकीर्तितम् ॥ ८९ ॥
अवटः कूपभेदश्च मत्स्योदः स उदाहृतः ।
प्रतप्ततोयपूर्णं च चतुर्विंशत्प्रमाणकम् ॥ ९० ॥
व्याप्तं महापातकिभिर्व्यादग्धाङ्‌गैश्च सन्ततम् ।
मद्दूतैस्ताडितैः शश्वदवटोदं प्रकीर्तितम् ॥ ९१ ॥
यत्रोदस्पर्शमात्रेण सर्वव्याधिश्च पापिनाम् ।
भवेदकस्मात्पततां यस्मिन्कुण्डे धनुःशते ॥ ९२ ॥
अरुन्तुदैर्भक्षितैस्तु प्राणिभिर्यच्च सङ्‌कुलम् ।
हाहेति शब्दं कुर्वद्‌भिस्तदेवारुन्तुदं विदुः ॥ ९३ ॥
तप्तपांसुभिराकीर्णं ज्वलद्‌भिस्तुषदग्धकैः ।
तद्‍भक्षैः पापिभिर्युक्तं पांसुभोजैर्धनुःशतम् ॥ ९४ ॥
पातमात्रेण पापी च पाशेन वेष्टितो भवेत् ।
क्रोशमात्रेण कुण्डं च तत्पाशवेष्टनं विदुः ॥ ९५ ॥
पातमात्रेण पापी च शूलेन वेष्टितो भवेत् ।
धनुर्विंशत्प्रमाणं च शूलप्रोतं प्रकीर्तितम् ॥ ९६ ॥
पततां पापिनां यत्र भवेदेव प्रकम्पनम् ।
अतीव हिमतोयाक्तं क्रोशार्धं च प्रकम्पनम् ॥ ९७ ॥
ददत्येव हि मे दूता यत्रोल्काः पापिनां मुखे ।
धनुर्विंशत्प्रमाणं तदुल्काभिश्च सुसङ्‌कुलम् ॥ ९८ ॥
लक्षपौरुषमानं च गम्भीरं च धनुःशतम् ।
नानाप्रकारकृमिभिः संयुक्तं च भयानकम् ॥ ९९ ॥
अत्यन्धकारव्याप्तं च कूपाकारं च वर्तुलम् ।
तद्‍भक्ष्यैः पापिभिर्युक्तं प्रणश्यद्‌भिः परस्परम् ॥ १०० ॥
तप्ततोयप्रदग्धैश्च ज्वलद्‌भिः कीटभक्षितैः ।
ध्वान्तेन चक्षुषा चान्धैरन्धकूपः प्रकीर्तितः ॥ १०१ ॥
नानाप्रकारशस्त्रौघैर्यत्र विद्धाश्च पापिनः ।
धनुर्विंशत्प्रमाणं च वेधनं तत्प्रकीर्तितम् ॥ १०२ ॥
दण्डेन ताडिता यत्र मम दूतैश्च पापिनः ।
धनुःषोडशमानं च तत्कुण्डं दण्डताडनम् ॥ १०३ ॥
निरुद्धाश्च महाजालैर्यथा मीनाश्च पापिनः ।
धनुर्विंशत्प्रमाणं च जालरन्ध्रं प्रकीर्तितम् ॥ १०४ ॥
पततां पापिनां कुण्डे देहश्चूर्णो भवेदिह ।
लोहबन्दीनिबद्धानां कोटिपौरुषमानकम् ॥ १०५ ॥
गम्भीरं ध्वान्तसंयुक्तं धनुर्विंशत्प्रमाणकम् ।
मूर्च्छितानां जडानां च देहचूर्णं प्रकीर्तितम् ॥ १०६ ॥
दलिताः पापिनो यत्र मम दूतैश्च ताडिताः ।
धनुःषोडशमानं च तत्कुण्डं दलनं स्मृतम् ॥ १०७ ॥
पतनेनैव पापी च शुष्ककण्ठोष्ठतालुकः ।
बालुकासु च तप्तासु धनुस्त्रिंशत्प्रमाणकम् ॥ १०८ ॥
शतपौरुषमानं च गम्भीरं ध्वान्तसंयुतम् ।
शोषणं कुण्डमेतद्धि पापिनां परदुःखदम् ॥ १०९ ॥
नानाचर्मकषायोदपरिपूर्णं धनुःशतम् ।
दुर्गन्धियुक्ततद्‍भक्ष्यैः प्राणिभिः सङ्‌कुलं कषम् ॥ ११० ॥
शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम् ।
तप्तलोहबालुकाभिः पूर्णं पातकिसंयुतम् ॥ १११ ॥
दुर्गन्धियुक्तं तद्‍भक्ष्यैः पापिभिः सङ्‌कुलं सति ।
शूर्पाकारमुखं कुण्डं धनुर्द्वादशमात्रकम् ॥ ११२ ॥
प्रतप्तबालुकापूर्णं महापातकिभिर्युतम् ।
अन्तरग्निशिखानां च ज्वालाव्याप्तमुखं सदा ॥ ११३ ॥
धनुर्विंशतिमात्रं च प्रमाणं यस्य सुन्दरि ।
ज्वालाभिर्दग्धगात्रैश्च पापिभिर्व्याप्तमेव च ॥ ११४ ॥
तन्महाक्लेशदं शश्वत्कुण्डं ज्वालामुखं स्मृतम् ।
पातमात्राद्यत्र पापी मूर्च्छितो वै नरो भवेत् ॥ ११५ ॥
तप्तेष्टकाभ्यन्तरितं वाप्यर्धं जिह्मकुण्डकम् ।
धूमान्धकारसंयुक्तं धूम्रान्धैः पापिभिर्युतम् ॥ ११६ ॥
धनुःशतं श्वासरन्ध्रैर्धूम्रान्धं परिकीर्तितम् ।
पातमात्राद्यत्र पापी नागैश्च वेष्टितो भवेत् ॥ ११७ ॥
धनुःशतं नागपूर्णं तन्नागैर्वेष्टितं भवेत् ।
षडशीति च कुण्डानि मयोक्तानि निशामय ।
लक्षणं चापि तेषां च किं भूयः श्रोतुमिच्छसि ॥ ११८ ॥


मुख्य कर्मांचे वर्णन -

धर्मराज म्हणाला, "हे सती, सर्व कुंडे पूर्ण चंद्राच्या आकाराची असतात. प्रलयकालापर्यंत ती नष्ट होत नाहीत. पापी लोकांना शिक्षा देण्यासाठी ती पेटलेल्या निखार्‍यासारखी केलेली असतात. बहिःकुंड जास्त क्लेश देणारे आहे. ते अर्धा कोस लांबीचे, तप्त उदकाने भरलेले, हिंस्र प्राण्यांनी युक्त असे आहे. तेथे प्राण्यांचा नित्य आक्रोश चाललेला असतो. ते 'त्राही, त्राही' असे ओरडत असतात. ते विष्ठेने भरलेले असते. त्यातील किडेही पाप्यांना चावत असतात. तसेच दुसरेही कुंड प्रचंड लांब-रुंदीचे असतात. त्यात अनेक किडे असतात. ती श्लेष्मकुंडे म्हणून प्रसिद्ध आहेत.

गरकुंड विस्तृत लांबीचे असून त्यात विषारी किडे आहेत. तेथे ओरडून ओरडून प्राण्यांचा कंठ सुकून जातो. तसेच भयभीत होऊन सैरावैरा पळणार्‍या पाप्यांचे दूषित कुंड आहे. वसारसाने व्याप्त असलेले वसाकुंड, शुक्रातील किडा असलेले शुक्रकुंड, तसेच पूर्ण दुर्गंधी व किडे यांनी भरलेले वक्रकुंड आहे. नेत्राश्रूंचे नेत्राश्रूकुंड, मानवशरीराच्या मलाने भरलेले गात्रमलकुंड, कानातील मळाचे कर्णविटकुंड अशी आणखीही कुंडे आहेत.

मज्जा व घाणीने भरलेले मज्जाकुंड, स्निग्ध मांसाचे मांसकुंड, कन्येची विक्री करणार्‍या पाप्यासाठी नखकुंडासारखी चार कुंडे आहेत. अत्यंत तप्त असे तांब्याचे कुंड आहे. तसेच लोखंडाचे तप्त खांब असलेले ते अतिभयंकर लोहकुंड, ते अंधःकाराने व्याप्त आहे. चर्मकुंड, तप्त सुरेचे कुंड, शाल्मली कुंड अशीही कुंडे आहेत. शाल्मली कुंडात काटे असतात.

सर्पाच्या विषाने भरलेले विषकुंड, तप्त तेलाचे तैलकुंड ही आणखी भयंकर व असह्य कुंडे आहेत. शूलाप्रमाणे असलेले, अस्त्रांनी युक्त असे कुतकुंड, सर्पाकाराचे तीक्ष्ण असे कृमीकुंड, पूय सेवन करणार्‍यासाठी पूयकुंड अशी भयंकर कुंडे आहेत.

तालवृक्षाच्या आकाराचे कोटयावधी सर्पांनी युक्त अशी व अत्यंत पापी लोकांसाठी मशकादी तीन कुंडे आहेत. त्यानंतर हातपाय बांधून यमदूत मारत असतात, अशी वज्र व वृश्चिक कुंडे आहेत. तप्त उदकाने भरलेले गोलकुंड, नंतर दुर्गंधीयुक्त, पाप्यांना अत्यंत त्रस्त करणारे, ओबडधोबड आकाराचे, विष्ठा, मूत्र, श्लेष्म यांनी भरलेले काककुंडही अत्यंत भयंकर आहे.

मंथान कुंड, बीज कुंड ही कुंडेही भयंकर आहेत. मंथान व बीज प्राण्यांनी ती पूर्ण आहेत. तीक्ष्ण पाषाणांनी तयार केलेले असे तीक्ष्ण पाषाणकुंड महापातक्यांसाठी केलेले आहे. रक्तमय असे लाल कुंड आहे. अंजन पर्वतासारख्या पाषाणांचे असे मसीकुंड आहे. चूर्ण द्रव्याने भरलेले चूर्णकुंड, चक्राप्रमाणे वेगाने ज्या ठिकाणी फिरविले जाते ते चक्रकुंड व वक्र, खोल, लांबरूंद प्रमाणाचे, तप्त उदकांचे, जंतूंनी भरलेले, जाळणार असे वक्रकुंड महापातक्यांसाठी केलेले आहे.

अत्यंत भयंकर कासवे असलेले, जलचर प्राण्यांनी भरलेले ज्वालाकुंड, तापलेल्या
राखेचे, भस्म खायला लावणारे तप्त पाषाण व लोहांनी युक्त असे, दग्ध करणारा दग्ध कुंड आहे. तापलेल्या खार्‍या पाण्याचे, उग्र जलचर असलेले, भयंकर तप्त असे सूचीकुंड अशी आणखीही भयंकर कुंडे आहेत. दोन्ही बाजूला धार असलेल्या पत्र्यांनी युक्त, खोल दरीप्रमाणे असलेले, पाप्यांचे रक्ताने भरलेले, अंधःकारमय, सर्वात भयंकर असे असितपत्रकुंड अतिशय त्रासदायक आहे. पाप्यांच्या रक्ताने माखलेले भयानक असे क्षुरधार कुंड आहे. सूचीपूर्ण अस्त्रांचे सूचीमुख कुंड आहे.

गोका नावाच्या प्राण्याच्या मुखासारखा आकार असलेले, कूपाप्रमाणे दिसणारे, महापाप्यांना असह्य असे गोखामुखकुंड आहे. नक्रमुखाच्या आकाराचे अत्यंत विस्तीर्ण असे कूपरूप नक्रकुंड प्रसिद्ध आहे. तसे ते प्रचंड जगदंशकुंड आहे. कालचक्राप्रमाणे फिरविणारे, कुंभाकाराचे, अंधःकारमय असे अत्यंत विस्तृत ताम्रकुंड आहे. जेथे पापीही मूर्च्छित होतात. आक्रोश करतात, मृदगलांनी ताडण करतात असे ते सर्वात चौपट कुंभीपाक कुंड होत. सर्वात कुंभीपाक कुंड महाभयंकर आहे.

ही सर्व कुंडे देहाचे सर्व क्लेशदायक भोग भोगायला लावण्यासाठी केलेली आहेत. अवट म्हणून प्रसिद्ध असलेले मत्स्योद कुंड आहे. ते तप्त उदकाने भरलेले आहे. ज्या कुंडातील पापी व्याधीग्रस्त होतात ते अरूंतुद कुंड आहे. तुषदग्ध असे तप्त कणांचे पासुभोज्य कुंड आहे. देहपतनानंतर शूलाने वेष्टित करणारे शूलप्रोत कुंड आहे. पतितांना कंप सुटतो असे बर्फमय उदकाचे कुंड आहे. ज्या कुंडातील पाप्यांना यमदूत तोंडात कोलीत धरायला लावतात, उल्कांनी व्याप्त असे उल्कामुख कुंड आहे.

एक लाख पुरुष खोल असलेले, कृमींनी भरलेले भीतीदायक, उकळणार्‍या उदकाचे, अंधकारमय असे अंधकूप कुंड होय. विविध शस्त्रांचे प्रहार पाप्यांवर जेथे करतात ते वेधनकुंड होय. दंडाने पाप्यांना ताडण जेथे करतात ते दंडताडन कुंड आहे. पाप्यांना जाळ्यात अडकविणारे जलरंध्र कुंड होय. जड लोखंडी बेडयांनी बद्ध करणारे, प्राण्यांच्या देहाचे चूर्ण करणारे देहचूर्ण कुंड आहे. जेथे यमदूत पाप्यांना फाडतात ते दलनकुंड म्हणून प्रसिद्ध आहे. तप्त वाळू असलेले पाप्यांचा कंठ शुष्क करायला लावणारे शोषण कुंड आहे.

पाप्यांना अधिक दुःखदायक, दुर्गंधीयुक्त कषकुंड सांगितले आहे. शूर्पाकाराचे तप्त लोखंडाचे दुर्गंधीयुक्त शूपाकार कुंड आहे. तप्त वाळूने भरलेले अग्नीज्वालांनी युक्त पाप्यांना भयंकर असे ज्वालाव्याप्त मुखकुंड आहे. तापलेल्या विटांनी देहाला भाजणारे जिह्मकुंड आहे. धूमाने भरल्यामुळे अंधार असलेले पापी प्राण्यांनी व्याप्त असे धूमांध कुंड आहे. देहपतनानंतर ज्या ठिकाणी प्राणी सर्पानी वेढला जातो ते नागवेष्टित कुंड होय.

हे सावित्री, अशाप्रकारची ही कुंडांची माहिती मी तुला सांगितली. त्यांची लक्षणे सांगितली. आता तुला आणखी काय ऐकायचे आहे ?"


इति श्रीमद्देवीभागवते महापुराणेऽष्टादप्तसाहस्र्यां संहितायां नवमस्कन्धे
नारायणनारदसंवादे नानानरककुण्डवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥

अध्याय सदतिसावा समाप्त

GO TOP