श्रीमद्‌देवीभागवत महापुराण
नवमः स्कन्धः
अष्टत्रिंशोऽध्यायः


सावित्र्युपाख्यानवर्णनम्

सावित्र्युवाच
देवीभक्तिं देहि मह्यं साराणां चैव सारकम् ।
पुंसां मुक्तिद्वारबीजं नरकार्णवतारकम् ॥ १ ॥
कारणं मुक्तिसाराणां सर्वाशुभविनाशनम् ।
दारकं कर्मवृक्षाणां कृतपापौघहारणम् ॥ २ ॥
मुक्तिश्च कतिथाप्यस्ति किं वा तासां च लक्षणम् ।
देवीभक्तिं भक्तिभेदं निषेकस्यापि खण्डनम् ॥ ३ ॥
तत्त्वज्ञानविहीना च स्त्रीजातिर्विधिनिर्मिता ।
किञ्चिञ्ज्ञानं सारभूतं वद वेदविदां वर ॥ ४ ॥
सर्वं दानं च यज्ञश्च तीर्थस्नानं व्रतं तपः ।
अज्ञानिज्ञानदानस्य कलां नार्हन्ति षोडशीम् ॥ ५ ॥
पितुः शतगुणा माता गौरवे चेति निश्चितम् ।
मातुः शतगुणः पूज्यो ज्ञानदाता गुरुः प्रभो ॥ ६ ॥
धर्मराज उवाच
पूर्वं सर्वो वरो दत्तो यस्ते मनसि वाञ्छितः ।
अधुना शक्तिभक्तिस्ते वत्से भवतु मद्वरात् ॥ ७ ॥
श्रोतुमिच्छसि कल्याणि श्रीदेवीगुणकीर्तनम्।
वक्तॄणां पृच्छकानां च श्रोतॄणां कुलतारणम् ॥ ८ ॥
शेषो वक्त्रसहस्रेण नहि यद्वक्तुमीश्वरः ।
मृत्युञ्जयो न क्षमश्च वक्तुं पञ्चमुखेन च ॥ ९ ॥
धाता चतुर्णां वेदानां विधाता जगतामपि ।
ब्रह्मा चतुर्मुखेनैव नालं विष्णुश्च सर्ववित् ॥ १० ॥
कार्तिकेयः षण्मुखेन नापि वक्तुमलं ध्रुवम् ।
न गणेशः समर्थश्च योगीन्द्राणां गुरोर्गुरुः ॥ ११ ॥
सारभूताश्च शास्त्राणां वेदाश्चत्वार एव च ।
कलामात्रं यद्‌गुणानां न विदन्ति बुधाश्च ये ॥ १२ ॥
सरस्वती जडीभूता नालं तद्‌गुणवर्णने ।
सनत्कुमारो धर्मश्च सनन्दनः सनातनः ॥ १३ ॥
सनकः कपिलः सूर्यो येऽन्ये च ब्रह्मणः सुताः ।
विचक्षणा न यद्वक्तुं किञ्चान्ये जडबुद्धयः ॥ १४ ॥
न यद्वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा ।
के चान्ये च वयं के वा श्रीदेव्या गुणवर्णने ॥ १५ ॥
ध्यायन्ते यत्पदाम्भोजं ब्रह्मविष्णुशिवादयः ।
अतिसाध्यं स्वभक्तानां तदन्येषां सुदुर्लभम् ॥ १६ ॥
कश्चित्किञ्चिद्विजानाति तद्‌गुणोत्कीर्तनं शुभम् ।
अतिरिक्तं विजानाति ब्रह्मा ब्रह्मविशारदः ॥ १७ ॥
ततोऽतिरिक्तं जानाति गणेशो ज्ञानिनां गुरुः ।
सर्वातिरिक्तं जानाति सर्वज्ञः शम्भुरेव सः ॥ १८ ॥
तस्मै दत्तं पुरा ज्ञानं कृष्णेन परमात्मना ।
अतीव निर्जनेऽरण्ये गोलोके रासमण्डले ॥ १९ ॥
तत्रैव कथितं किञ्चित्तद्‌गुणोत्कीर्तनं शुभम् ।
धर्मं च कथयामास शिवलोके शिवः स्वयम् ॥ २० ॥
धर्मस्तु कथयामास भास्वते पृच्छते तथा ।
यामाराध्य मत्पितापि सम्प्राप तपसा सति ॥ २१ ॥
पूर्वं स्वं विषयं चाहं न गृह्णामि प्रयत्‍नतः ।
वैराग्ययुक्तस्तपसे गन्तुमिच्छामि सुव्रते ॥ २२ ॥
तदा मां कथयामास पिता तद्‌गुणकीर्तनम् ।
यथागमं तद्वदामि निबोधातीव दुर्गमम् ॥ २३ ॥
तद्‌गुणं सा न जानाति तदन्यस्य च का कथा ।
यथाकाशो न जानाति स्वान्तमेव वरानने ॥ २४ ॥
सर्वात्मा सर्वभगवान् सर्वकारणकारणः ।
सर्वेश्वरश्च सर्वाद्यः सर्ववित्परिपालकः । २५
नित्यरूपी नित्यदेही नित्यानन्दो निराकृतिः ।
निरङ्‌कुशो निराशङ्‌को निर्गुणश्च निरामयः ॥ २६ ॥
निर्लिप्तः सर्वसाक्षी च सर्वाधारः परात्परः ।
मायाविशिष्टः प्रकृतिस्तद्विकाराश्च प्राकृताः ॥ २७ ॥
स्वयं पुमांश्च प्रकृतिस्तावभिन्नौ परस्परम् ।
यथा वह्नेस्तस्य शक्तिर्न भिन्नास्त्येव कुत्रचित् ॥ २८ ॥
सेयं शक्तिर्महामाया सच्चिदानन्दरूपिणी ।
रूपं बिभर्त्यरूपा च भक्तानुग्रहहेतवे ॥ २९ ॥
गोपालसुन्दरीरूपं प्रथमं सा ससर्ज ह ।
अतीव कमनीयं च सुन्दरं सुमनोहरम् ॥ ३० ॥
नवीननीरदश्यामं किशोरं गोपवेषकम् ।
कन्दर्पकोटिलावण्यं लीलाधाममनोहरम् ॥ ३१ ॥
शरन्मध्याह्नपद्मानां शोभामोचनलोचनम् ।
शरत्पार्वणकोटीन्दुशोभाप्रच्छादनाननम् ॥ ३२ ॥
अमूल्यरत्‍ननिर्माणनानाभूषणभूषितम् ।
सस्मितं शोभितं शश्वदमूल्यपीतवाससा ॥ ३३ ॥
परब्रह्मस्वरूपं च ज्वलन्तं ब्रह्मतेजसा ।
सुखदृश्यं च शान्तं च राधाकान्तमनन्तकम् ॥ ३४ ॥
गोपीभिर्वीक्ष्यमाणं च सस्मिताभिश्च सन्ततम् ।
रासमण्डलमध्यस्थं रत्‍नसिंहासनस्थितम् ॥ ३५ ॥
वंशीं क्वणन्तं द्विभुजं वनमालाविभूषितम् ।
कौस्तुभेन्द्रमणीन्द्रेण शश्वद्वक्षःस्थलोज्ज्वलम् ॥ ३६ ॥
कुङ्‌कुमागुरुकस्तुरीचन्दनार्चितविग्रहम् ।
चारुचम्पकमालाक्तं मालतीमाल्यमण्डितम् ॥ ३७ ॥
चारुचन्द्रकशोभाढ्यं चूडावङ्‌क्रिमराजितम् ।
एवंभूतं च ध्यायन्ति भक्ता भक्तिपरिप्लुताः ॥ ३८ ॥
यद्‍भयाज्जगता धाता विधत्ते सृष्टिमेव च ।
कर्मानुसाराल्लिखितं करोति सर्वकर्मणाम् ॥ ३९ ॥
तपसां फलदाता च कर्मणां च यदाज्ञया ।
विष्णुः पाता च सर्वेषां यद्‍भयात्पाति सन्ततम् ॥ ४० ॥
कालाग्निरुद्रः संहर्ता सर्वविश्वेषु यद्‍भयात् ।
शिवो मृत्युञ्जयश्चैव ज्ञानिनां च गुरोर्गुरुः ॥ ४१ ॥
यज्ज्ञानाज्ज्ञानवानस्ति योगीशो ज्ञानवित्प्रभुः ।
परमानन्दयुक्तश्च भक्तिवैराग्यसंयुतः ॥ ४२ ॥
यद्‍भयाद्वाति पवनः प्रवरः शीघ्रगामिनाम् ।
तपनश्च प्रतपति यद्‍भयात्सन्ततं सति ॥ ४३ ॥
यदाज्ञया वर्षतीन्द्रो मृत्युश्चरति जन्तुषु ।
यदाज्ञया दहेद्वह्निर्जलमेवं सुशीतलम् ॥ ४४ ॥
दिशो रक्षन्ति दिक्पाला महाभीता यदाज्ञया ।
भ्रमन्ति राशिचक्राणि ग्रहाश्च यद्‍भयेन च ॥ ४५ ॥
भयात्फलन्ति वृक्षाश्च पुष्यन्त्यपि च यद्‍भयात् ।
यदाज्ञां तु पुरस्कृत्य कालः काले हरेद्‍भयात् ॥ ४६ ॥
तथा जलस्थलस्थाश्च न जीवन्ति यदाज्ञया ।
अकाले नाहरेद्विद्धं रणेषु विषमेषु च ॥ ४७ ॥
धत्ते वायुस्तोयराशिं तोयं कूर्मं तदाज्ञया ।
कूर्मोऽनन्तं स च क्षोणीं समुद्रान् सा च पर्वतान् ॥ ४८ ॥
सर्वा चैव क्षमारूपा नानारत्‍नं बिभर्ति या ।
यतः सर्वाणि भूतानि स्थीयन्ते हन्ति तत्र हि ॥ ४९ ॥
इन्द्रायुश्चैव दिव्यानां युगानामेकसप्ततिः ।
अष्टाविंशे शक्रपाते ब्रह्मणश्च दिवानिशम् ॥ ५० ॥
एवं त्रिंशद्दिनैर्मासो द्वाभ्यामाभ्यामृतुः स्मृतः ।
ऋतुभिः षड्भिरेवाब्दं ब्रह्मणो वै वयः स्मृतम् ॥ ५१ ॥
ब्रह्मणश्च निपाते च चक्षुरुन्मीलनं हरेः ।
चक्षुरुन्मीलने तस्य लयं प्राकृतिकं विदुः ॥ ५२ ॥
प्रलये प्राकृते सर्वे देवाद्याश्च चराचराः ।
लीना धाता विधाता च श्रीकृष्णनाभिपङ्‌कजे ॥ ५३ ॥
विष्णुः क्षीरोदशायी च वैकुण्ठे यश्चतुर्भुजः ।
विलीना वामपार्श्वे च कृष्णस्य परमात्मनः ॥ ५४ ॥
यस्य ज्ञाने शिवो लीनो ज्ञानाधीशः सनातनः ।
दुर्गायां विष्णुमायायां विलीनाः सर्वशक्तयः ॥ ५५ ॥
सा च कृष्णस्य बुद्धौ च बुद्ध्यधिष्ठातृदेवता ।
नारायणांशः स्कन्दश्च लीनो वक्षसि तस्य च ॥ ५६ ॥
श्रीकृष्णांशश्च तद्‌बाहौ देवाधीशो गणेश्वरः ।
पद्मांशाश्चैव पद्मायां सा राधायां च सुव्रते ॥ ५७ ॥
गोप्यश्चापि च तस्यां च सर्वाश्च देवयोषितः ।
कृष्णप्राणाधिदेवी सा तस्य प्राणेषु संस्थिता ॥ ५८ ॥
सावित्री च सरस्वत्यां वेदाः शास्त्राणि यानि च ।
स्थिता वाणी च जिह्वायां यस्य च परमात्मनः ॥ ५९ ॥
गोलोकस्य च गोपाश्च विलीनास्तस्य लोमसु ।
तत्प्राणेषु च सर्वेषां प्राणा वाता हुताशनाः ॥ ६० ॥
जठराग्नौ विलीनाश्च जलं तद्रसनाग्रतः ।
वैष्णवाश्चरणाम्भोजे परमानन्दसंयुताः ॥ ६१ ॥
सारात्सारतरा भक्तिरसपीयूषपायिनः ।
विराडंशाश्च महति लीनाः कृष्णे महाविराट् ॥ ६२ ॥
यस्यैव लोमकूपेषु विश्वानि निखिलानि च ।
यस्य चक्षुष उन्मेषे प्राकृतः प्रलयो भवेत् ॥ ६३ ॥
चक्षुरुन्मीलने सृष्टिर्यस्यैव पुनरेव सः ।
यावत्कालो निमेषेण तावदुन्मीलनेन च ॥ ६४ ॥
ब्रह्मणश्च शताब्दे च सृष्टेः सूत्रलयः पुनः ।
ब्रह्मसृष्टिलयानां च संख्या नास्त्येव सुव्रते ॥ ६५ ॥
यथा भूरजसां चैव संख्यानं नैव विद्यते ।
चक्षुर्निमेषे प्रलयो यस्य सर्वान्तरात्मनः ॥ ६६ ॥
उन्मीलने पुनः सृष्टिर्भवेदेवेश्वरेच्छया ।
स कृष्णः प्रलये तस्यां प्रकृतौ लीन एव हि ॥ ६७ ॥
एकैव च परा शक्तिर्निर्गुणः परमः पुमान् ।
सदेवेदमग्र आसीदिति वेदविदो विदुः ॥ ६८ ॥
मूलप्रकृतिरव्यक्ताप्यव्याकृतपदाभिधा ।
चिदभिन्नत्वमापन्ना प्रलये सैव तिष्ठति ॥ ६९ ॥
तद्‌गुणोत्कीर्तनं वक्तुं ब्रह्माण्डेषु च कः क्षमः ।
मुक्तयश्च चतुर्वेदैर्निरुक्ताश्च चतुर्विधाः ॥ ७० ॥
तत्प्रधाना देवभक्तिर्मुक्तेरपि गरीयसी ।
सालोक्यदा भवेदेका तथा सारूप्यदा परा ॥ ७१ ॥
सामीप्यदाथ निर्वाणप्रदा मुक्तिश्चतुर्विधा ।
भक्तास्ता न हि वाञ्छन्ति विना तत्सेवनं विभोः ॥ ७२ ॥
शिवत्वममरत्वं च ब्रह्मत्वं चावहेलया ।
जन्ममृत्युजराव्याधिभयशोकादिकं धनम् ॥ ७३ ॥
दिव्यरूपधारणं च निर्वाणं मोक्षणं विदुः ।
मुक्तिश्च सेवारहिता भक्तिः सेवाविवर्धिनी ॥ ७४ ॥
भक्तिमुक्त्योरयं भेदो निषेकखण्डनं शृणु ।
विदुर्बुधा निषेकं च भोगं च कृतकर्मणाम् ॥ ७५ ॥
तत्खण्डनं च शुभदं श्रीविभोः सेवनं परम् ।
तत्त्वज्ञानमिदं साध्वि स्थिरं च लोकवेदयोः ॥ ७६ ॥
निर्विघ्नं शुभदं चोक्तं गच्छ वत्से यथासुखम् ।
इत्युक्त्वा सूर्यपुत्रश्च जीवयित्वा च तत्पतिम् ॥ ७७ ॥
तस्यै शुभाशिषं दत्त्वा गमनं कर्तुमुद्यतः ।
दृष्ट्वा यमं च गच्छन्तं सा सावित्री प्रणम्य च ॥ ७८ ॥
रुरोद चरणौ धृत्वा साधुच्छेदेन दुःखिता ।
सावित्रीरोदनं श्रुत्वा यमश्चैव कृपानिधिः ॥ ७९ ॥
तामित्युवाच सन्तुष्टः स्वयं चैव रुरोद ह ।
धर्मराज उवाव
लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ॥ ८० ॥
अन्ते यास्यसि तल्लोकं यत्र देवी विराजते ।
गत्वा च स्वगृहं भद्रे सावित्र्याश्च व्रतं कुरु ॥ ८१ ॥
द्विसप्तवर्षपर्यन्तं नारीणां मोक्षकारणम् ।
ज्येष्ठशुक्लचतुर्दश्यां सावित्र्याश्च व्रतं शुभम् ॥ ८२ ॥
शुक्लाष्टम्यां भाद्रपदे महालक्ष्या यथा व्रतम् ।
द्व्यष्टवर्षं व्रतं चैव प्रत्यादेयं शुचिस्मिते ॥ ८३ ॥
करोति भक्त्या या नारी सा याति च विभोः पदम् ।
प्रतिमङ्‌गलवारे च देवीं मङ्‌गलदायिनीम् ॥ ८४ ॥
प्रतिमासं शुक्लषष्ठ्यां षष्ठीं मङ्‌गलदायिनीम् ।
तथा चाषाढसङ्‌क्रान्त्यां मनसां सर्वसिद्धिदाम् ॥ ८५ ॥
राधां रासे च कार्तिक्यां कृष्णप्राणाधिकप्रियाम् ।
उपोष्य शुक्लाष्टम्यां च प्रतिमासं वरप्रदाम् ॥ ८६ ॥
विष्णुमायां भगवतीं दुर्गां दुर्गतिनाशिनीम् ।
प्रकृतिं जगदम्बां च पतिपुत्रवतीषु च ॥ ८७ ॥
पतिव्रतासु शुद्धासु यन्त्रेषु प्रतिमासु च ।
या नारी पूजयेद्‍भक्त्या धनसन्तानहेतवे ॥ ८८ ॥
इहलोके सुखं भुक्त्वा यात्यन्ते श्रीविभोः पदम् ।
एवं देव्या विभूतीश्च पूजयेत्साधकोऽनिशम् ॥ ८९ ॥
सर्वकालं सर्वरूपा संसेव्या परमेश्वरी ।
नातः परतरं किञ्चित्कृतकृत्यत्वदायकम् ॥ ९० ॥
इत्युक्त्वा तां धर्मराजो जगाम निजमन्दिरम् ।
गृहीत्वा स्वामिनं सा च सावित्री च निजालयम् ॥ ९१ ॥
सावित्री सत्यवांश्चैव प्रययौ च यथागमम् ।
अन्यांश्च कथयामास स्ववृत्तान्तं हि नारद ॥ ९२ ॥
सावित्रीजनकः पुत्रान् सम्प्राप्तः प्रक्रमेण च ।
श्वशुरश्चक्षुषी राज्यं सा च पुत्रान् वरेण च ॥ ९३ ॥
लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ।
जगाम स्वामिना सार्धं देवीलोकं पतिव्रता ॥ ९४ ॥
सवितुश्चाधिदेवी या मन्त्राधिष्ठातृदेवता ।
सावित्री ह्यपि वेदानां सावित्री तेन कीर्तिता ॥ ९५ ॥
इत्येवं कथितं वत्स सावित्र्याख्यानमुत्तमम् ।
जीवकर्मविपाकं च किं पुनः श्रोतुमिच्छसि ॥ ९६ ॥


देवीभक्तीचे महात्म्य -

सावित्री म्हणाली, "मला देवीभक्ती दे. तेच मुक्तीचे कारण आहे. ती देवी अशुभांचा नाश करते, कर्माचे छेदन करते, पापाचे हरण करते. हे धर्मराजा, मुक्तीचे प्रकार किती ? भक्तीचे स्वरूप काय ? तिचे प्रकार कोणते ? हे ब्रह्मदेवाने निर्माण केलेले तत्त्वज्ञान मला सांग. दान, यज्ञ, स्नान, व्रत, तप ही पुण्याच्या सोळाव्या कलेस पात्र आहेत. पित्यापेक्षा मातेची महती शंभरपट अधिक आहे. त्याहीपेक्षा गुरू शंभरपट जास्त आहे."

धर्मराज म्हणाला, "हे देवी, तुला मी इष्ट असा वर दिलेला आहे. माझ्या वरामुळेच तुला शक्तीची भक्ती जडेल. वक्त्याच्या व श्रोत्याच्या कुलाचे रक्षण करणारी ती देवी श्रेष्ठ आहे. हजार मुखे असून शेषही तिचे वर्णन करू शकणार नाही. मृत्युंजयसुद्धा हे सांगण्यास असमर्थ आहे. चतुर्मुख ब्रह्मदेव, सर्वज्ञ विष्णु, सहा मुखांचा कार्तिकेय, योग्यांचा गुरू गणेश, प्रत्यक्ष चार वेद हे सर्वही तिची कीर्ती सांगण्यास असमर्थ आहेत.

प्रत्यक्ष सरस्वतीही तिचे वर्णन करू शकली नाही. सनत्कुमार, धर्म, सनंदन, सनक, कपिल, सूर्य असे सर्वजण तिचे चरित्र जाणण्यास असमर्थ आहेत. मी तिचे कीर्तन कसे करणार ? साक्षात् ब्रह्मदेव, विष्णु, शिव हेही तिच्या पदकमलाचे चिंतन करीत असतात. ब्रह्मदेवापेक्षा गणेश अधिक जाणकार असून सर्वज्ञ शंभु त्याच्याहीपेक्षा अधिक जाणतो. कारण पूर्वी कृष्णाने गोलोकातील रासमंडळात एकांतात त्याला उपदेश दिला होता. नंतर पुढे शिवाने ते ज्ञान धर्मास दिले. धर्माने सूर्याला सांगितले. माझ्या पित्याने तप करून तिच्या स्वरूपाची प्राप्ती करून घेतली.

हे सुव्रते, मी पूर्वी यमलोकाचे अधिपत्य घेण्याचे टाळीत होतो. मी तपाची इच्छा केली. तेव्हा पित्याने देवीचे चरित्र सांगितले. ते आता तू ऐक.

सर्वांवर नियंत्रण करणारी तसेच सर्वांचे परिपालन करणारी ती देवी नित्यरूप, देहवान्, निराकार, निरंकुश, निर्गुण, निरामय, निर्लेप अशी आहे. तिच्या विकारांना प्रकृती म्हणतात. सर्वसाक्षी, सर्वाधारभूत परात्‌पर, प्रकृतीमय, परमात्मा व प्रकृती परस्पर भिन्न नाहीत. ती सच्चिदानंदरूपिणी आहे.

प्रथम त्या देवीने गोपालसुंदरीरूप उत्पन्न केले, ते सुंदर, रमणीय, शामवर्ण असे किशोररूप अत्यंत लावण्यसंपन्न होते. मनोहर पद्मांची शोभाही त्याच्यापुढे फिकी पडेल. विविध भूषणांनी विभूषित चेहर्‍यावर स्मित असलेले, पीत वस्त्र परिधान केलेले, ब्रह्मतेजाने झळकणारे, राधेला प्रिय, रासमंडलात रत्नांच्या सिंहासनावर अधिष्ठित झालेले, हातात मुरली असलेले, द्विभुज, वनमाला धारण केलेले, वक्षस्थलावर कौस्तुभमणी विराजत असलेले, कुंकुम, अगरू, कस्तुरी, चंदन देहावर चर्चिले आहेत असे, मालतीपुष्पे ल्यालेले, भक्त ज्याचे नित्य पूजन करीत असतात असे ते रूप होते.

ज्याला जगत्कर्ताही भयभीत होऊन सृष्टी निर्माण करतो, कर्माप्रमाणे पुरुषांचा हिशोब करतो, ज्याच्यायोगे विष्णू जगताचे पालन करतो, रुद्र संहार करतो, तो योगेश्वर प्रभू ज्याच्यामुळे ज्ञानी झाला. परमानंदरूप, भक्तीवैराग्ययुक्त, शीघ्र गमन करणारे, ज्याच्या भीतीमुळे वायू वाहतो, सूर्य उष्णता देतो, इंद्र वृष्टी करतो, मृत्यु प्राण्यांमध्ये संचार करतो, अग्नी दहन करतो, दिक्पाल दिशांचे रक्षण करतात, राशीचक्रे व ग्रह फिरत असतात अशा प्रकारचे सर्वाधारभूत असे सर्वत्र संचार करणारे ते स्वरूप होते.

ज्याच्या आज्ञेने वायु जलराशींना धारण करतो, उदक कूर्माला आधार देतो, कूर्म अनंतास सावरतो, भूमी, समुद्र, पर्वत, रत्ने यांना आधार देतो, पृथ्वी क्षमारूप होते.

अठठावीस युगे हे इंद्राचे आयुष्य होय. असे अठठावीस इंद्र म्हणजे ब्रह्मदेवाची एक अहोरात्र. असे तीन दिवस झाले म्हणजे एक महिना, दोन महिन्यांचा ॠतु, असे सहा ॠतूंचे एक वर्ष, ते ब्रह्मदेवाचे आयुष्य होय. ब्रह्मदेवाचा देहत्याग होताच हरीचे नेत्र मिटतात. यालाच लय असे म्हणतात.

प्राकृतप्रलयासमयी चराचर सृष्टी वगैरे सर्व काही श्रीकृष्णाच्या नाभीकमली लीन होते. शेषशायी विष्णु कृष्णाच्या डाव्या बाजूला लीन होतो. त्याच्या ज्ञानामध्ये शिवाचा लय
होतो. दुर्गाशक्ती श्रीकृष्णाच्या बुद्धीमध्ये बुद्धीची अधिष्ठात्री देवता होते. श्रीकृष्णाचा अंश, देवांचा अधिपती जो गणपती तो त्याच्या बाहूमध्ये लीन होतो. पद्मेच्या अंशभूत देवीसहित लक्ष्मी राधेमध्ये लीन होते. गोपी वगैरे सर्व स्त्रियाही तिच्यात लीन होतात.

श्रीकृष्णाच्या प्राणांची अधिष्ठात्री देवता राधा ही कृष्णाच्या प्राणामध्ये वास करते. वेद, शास्त्रे, सरस्वतीमध्ये लय पावतात. वाणी परमात्म्याच्या जिव्हेत लीन झाली. गोपाल त्याच्या लोमात लीन झाले. प्राण वायूत, अग्नी जठराग्नीत, जल जिव्हाग्रात, विष्णूभक्त चरणकमलात लीन होतात. विराटाचे सर्व अंश महाविराटात लय पावतात. महाविराट कृष्णात लय पावतो. ज्याच्या रोमरंध्रामध्ये विश्वब्रह्मांडे असतात, त्याच्या नेत्रोन्मीलनानंतर प्राकृत प्रलय होतो. नंतर त्याचे नेत्र उघडताच पुन्हा सृष्टी निर्माण होते.

श्रीकृष्णाच्या नेत्रांच्या एका उघडझापीएवढया काळात ब्रह्मदेवाची शंभर वर्षे होतात. तेव्हा सृष्टीचा सूत्रलय होतो. ज्याप्रमाणे पृथ्वीवरील कणांची गणना करता येणार नाही त्याचप्रमाणे ब्रह्मदेवाच्या सृष्टीची व प्रलयांची गणना करता येत नाही. त्या परमात्म्याच्या नेत्रांच्या उघडण्याच्या वेळी सृष्टी होते व नेत्र मिटताच प्रलय होतो. कृष्ण प्रलयकाली प्रकृतीमध्ये लीन होतो.

पराशक्ती एकच असून निर्गुण ईश्वर परमपुरुष होय. पूर्वी सर्व जगत् सत होते. मूलप्रकृती अव्यक्त असून ती संज्ञायुक्त आहे. तिचे गुणकीर्तन करण्यास ब्रह्मांडात कोण समर्थ आहे ?

वेदाज्ञेप्रमाणे चार प्रकारच्या मुक्ती आहेत. देवभक्ती ही सर्वात श्रेष्ठ व सालोक्य मुक्ती देणारी आहे. दुसरी सारुप्यमुक्ती, तिसरी सामिप्य मुक्ती व चवथी निर्वाणमुक्ती आहे. पण भक्तसालोक्य मुक्तीची अपेक्षा धरतात. शिवत्व, अमरत्व, ब्रह्मत्व, जन्म, मृत्यू, जरा, व्याधी, भय, शोक, धन, दिव्यरूपधारण, निर्वाण, मोक्ष या सर्वांना भक्त तुच्छ लेखतो.

कर्माचा भोग भोगल्यानेच कर्मनाश होतो. कर्माचे खंडन करणे म्हणजेच श्रीविष्णूचे सेवन करणे होय. हे सावित्री, मी तुला सर्व ज्ञान सांगितले. आता तू सुखाने स्वगृही जा."

असे म्हणून सूर्यपुत्र यमाने सत्यवानास जिवंत केले. सावित्रीने त्याला नमस्कार केला. त्याने तिला आशीर्वाद दिला. पण यम जाण्यास निघाल्याने तिला साधूवियोगाचे दुःख होऊन ती रडू लागली. तेव्हा धर्मराज म्हणाला, "पुण्यमय भारतभूमीत तू लक्ष वर्षे सुख भोगशील. शेवटी देवीलोकात जाशील. तू बहात्तर वर्षे सावित्रीव्रत कर. तेच स्त्रियांना मोक्ष देणारे आहे.

भाद्रपदातील शुक्ल, अष्टमीस महालक्ष्मीचे व्रत करतात. ज्येष्ठातील शुक्ल चतुर्दशीला सावित्रीचे व्रत करावे. हे सावित्री, हे व्रत दहा वर्षे करावे. देवीस प्रत्येक मंगळवारी, प्रत्येक शुक्ल षष्ठीस, मंगल षष्ठीस, आषाढातील संक्रातीस व्रत करतात. कार्तिकी पौर्णिमेस, राधेस, प्रत्येक शुक्लाष्टमीस विष्णूमायेस, भगवतीस, दुर्गेस, जगदंबेस, यंत्रात संबोधून यंत्राची पूजा करावी. अशाप्रकारे देवीचे नित्य पूजन करावे."

असे सांगून धर्मराज स्वगृही गेला. सावित्री व सत्यवान स्वस्थानी परत आली. नंतर सावित्रीच्या पित्याला वराप्रमाणे पुत्र झाले. श्वशुरास नेत्र प्राप्त झाले. तसेच पुढे सावित्रीलाही पुत्र झाले.

नंतर पुण्यक्षेत्र भारतात एक लक्ष वर्षे सुख भोगून आपल्या पतीसह ती देवीलोकाप्रत गेली. ती सूर्याची अधिदेवता, मंत्रांची अधिष्ठात्री देवता, वेदांचीही माता असल्यामुळे तिला सावित्री असे म्हणतात."

हे नारदा, याप्रमाणे मी तुला सावित्रीचे आख्यान सविस्तर निवेदन केले.


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे
नारायणनारदसंवादे सावित्र्युपाख्यानवर्णनं नामाष्टत्रिलोऽध्यायः ॥ ३८ ॥

अध्याय अडतिसावा समाप्त

GO TOP