श्रीमद्‌देवीभागवत महापुराण
सप्तमः स्कन्धः
द्वात्रिंशोऽध्यायः


देव्या व्यष्टिसमष्टिर्पवर्णनम्

श्रीदेव्युवाच
शृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम ।
यस्य श्रवणमात्रेण मद्‌रूपत्वं प्रपद्यते ॥ १ ॥
अहमेवास पूर्वं तु नान्यत्किञ्चिन्नगाधिप ।
तदात्मरूपं चित्संवित्परब्रह्मैकनामकम् ॥ २ ॥
अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् ।
तस्य काचित्स्वतः सिद्धा शक्तिर्मायेति विश्रुता ॥ ३ ॥
न सती सा नासती सा नोभयात्मा विरोधतः ।
एतद्विलक्षणा काचिद्वस्तुभूतास्ति सर्वदा ॥ ४ ॥
पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः ।
चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा ॥ ५ ॥
तस्यां कर्माणि जीवानां जीवाः कालाश्च सञ्चरे ।
अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत् ॥ ६ ॥
स्वशक्तेश्च समायोगादहं बीजात्मतां गता ।
स्वाधारावरणात्तस्या दोषत्वं च समागतम् ॥ ७ ॥
चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते ।
प्रपञ्चपरिणामाच्च समवायित्वमुच्यते ॥ ८ ॥
केचित्तां तप इत्याहुस्तमः केचिज्जडं परे ।
ज्ञानं मायां प्रधानं च प्रकृतिं शक्तिमप्यजाम् ॥ ९ ॥
विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः ।
अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः ॥ १० ॥
एवं नानाविधानि स्युर्नामानि निगमादिषु ।
तस्या जडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती ॥ ११ ॥
चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव तत् ।
स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम् ॥ १२ ॥
अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् ।
कर्मकर्त्रीविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम् ॥ १३ ॥
प्रकाशमानमन्येषां भासकं विद्धि पर्वत ।
अत एव च नित्यत्वं सिद्धसंवित्तनोर्मम ॥ १४ ॥
जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः ।
संविदो व्यभिचारश्च नानुभूतोऽस्ति कर्हिचित् ॥ १५ ॥
यदि तस्याप्यनुभवस्तर्ह्ययं येन साक्षिणा ।
अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा ॥ १६ ॥
अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदैः ।
आनन्दरूपता चास्याः परप्रेमास्पदत्वतः ॥ १७ ॥
मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् ।
सर्वस्यान्यस्य मिथ्यात्वादसङ्गत्वं स्फुटं मम ॥ १८ ॥
अपरिच्छिन्नताप्येवमत एव मता मम ।
तच्च ज्ञानं नात्मधर्मो धर्मत्वे जडताऽऽत्मनः ॥ १९ ॥
ज्ञानस्य जडशेषत्वं न दृष्टं न च संभवि ।
चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते ॥ २० ॥
तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा ।
सत्यः पूर्णोऽप्यसङ्गश्च द्वैतजालविवर्जितः ॥ २१ ॥
स पुनः कामकर्मादियुक्तया स्वीयमायया ।
पूर्वानुभूतसंस्कारात् कालकर्मविपाकतः ॥ २२ ॥
अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते ।
अबुद्धिपूर्वः सर्गोऽयं कथितस्ते नगाधिप ॥ २३ ॥
एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् ।
अव्याकृतं तदव्यक्तं मायाशबलमित्यपि ॥ २४ ॥
प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् ।
तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम् ॥ २५ ॥
सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् ।
ह्रीङ्कारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते ॥ २६ ॥
तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः ।
भवेत्स्पर्शात्मको वायुस्तेजोरूपात्मकं पुनः ॥ २७ ॥
जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा ।
शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः ॥ २८ ॥
शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः ।
शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः ॥ २९ ॥
शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा धरा ।
तेभ्योऽभवन्महत्सूत्रं यल्लिङ्गं परिचक्षते ॥ ३० ॥
सर्वात्मकं तत्सम्प्रोक्तं सूक्ष्मदेहोऽयमात्मनः ।
अव्यक्तं कारणो देहः स चोक्तः पूर्वमेव हि ॥ ३१ ॥
यस्मिञ्जगद्‌बीजरूपं स्थितं लिङ्गोद्‌भवो यतः ।
ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः ॥ ३२ ॥
पञ्चसंख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते ।
पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद्‌ द्विधा ॥ ३३ ॥
एकैकं भागमेकस्य चतुर्धा विभजेद्‌ गिरे ।
स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते ॥ ३४ ॥
तत्कार्यं च विराड्देहः स्थूलदेहोऽयमात्मनः ।
पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्‌भवः ॥ ३५ ॥
ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः ।
अन्तःकरणमेकं स्याद्‌ वृत्तिभेदाच्चतुर्विधम् ॥ ३६ ॥
यदा तु सङ्कल्पविकल्पकृत्यं
     तदा भवेत्तन्मन इत्यभिख्यम् ।
स्याद्‌ बुद्धिसंज्ञं च यदा प्रवेत्ति
     सुनिश्चितं संशयहीनरूपम् ॥ ३७ ॥
अनुसन्धानरूपं तच्चित्तं च परिकीर्तितम् ।
अहङ्कृत्यात्मवृत्त्या तु तदहङ्कारतां गतम् ॥ ३८ ॥
तेषां रजोंशैर्जातानि क्रमात्कर्मेन्द्रियाणि च ।
प्रत्येकं मिलितैस्तैतु प्राणो भवति पञ्चधा ॥ ३९ ॥
हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः ।
कण्ठदेशेऽप्युदानः स्याद्‌ व्यानः सर्वशरीरगः ॥ ४० ॥
ज्ञानेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च ।
प्राणादिपञ्चकं चैव धिया च सहितं मनः ॥ ४१ ॥
एतत्सूक्ष्मशरीरं स्यान्मम लिङ्गं यदुच्यते ।
तत्र या प्रकृतिः प्रोक्ता सा राजन्द्विविधा स्मृता ॥ ४२ ॥
सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता ।
स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते ॥ ४३ ॥
तस्यां यत्प्रतिबिम्बं स्याद्‌बिम्बभूतस्य चेशितुः ।
स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान्परः ॥ ४४ ॥
सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः ।
अविद्यायां तु यत्किञ्चित्प्रतिबिम्बं नगाधिप ॥ ४५ ॥
तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः ।
द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया ॥ ४६ ॥
देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः ।
प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मदेही तु तैजसः ॥ ४७ ॥
स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः ।
एवमीशोऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः ॥ ४८ ॥
प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः ।
स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया ॥ ४९ ॥
करोति विविधं विश्वं नानाभोगाश्रयं पुनः ।
मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः ॥ ५० ॥


-





इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां सप्तमस्कन्धे
देवीगीतायां देव्या व्यष्टिसमष्टिर्पवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
अध्याय बत्तिसावा समाप्त

GO TOP