श्रीमद्‌देवीभागवत महापुराण
सप्तमः स्कन्धः
त्रयस्त्रिंशोऽध्यायः


श्रीदेवीविराड्‌रूपदर्शनसहितं देवकृततत्स्तववर्णनम्

देव्युवाच
मन्मायाशक्तिसंक्लृप्तं जगत्सर्वं चराचरम् ।
सापि मत्तः पृथङ्‌माया नास्त्येव परमार्थतः ॥ १ ॥
व्यवहारदृशा सेयं विद्या मायेति विश्रुता ।
तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ॥ २ ॥
साहं सर्वं जगत्सृष्ट्वा तदन्तः प्रविशाम्यहम् ।
मायाकर्मादिसहिता गिरे प्राणपुरःसरा ॥ ३ ॥
लोकान्तरगतिर्नोचेत्कथं स्यादिति हेतुना ।
यथा यथा भवन्त्येव मायाभेदास्तथा तथा ॥ ४ ॥
उपाधिभेदाद्‌भिन्नाहं घटाकाशादयो यथा ।
उच्चनीचादिवस्तूनि भासयन्भास्करः सदा ॥ ५ ॥
न दुष्यति तथैवाहं दोषैर्लिप्ता कदापि न ।
मयि बुद्ध्यादिकर्तृत्वमध्यस्यैवापरे जनाः ॥ ६ ॥
वदन्ति चात्मा कर्मेति विमूढा न सुबुद्धयः ।
अज्ञानभेदतस्तद्वन्मायाया भेदतस्तथा ॥ ७ ॥
जीवेश्वरविभागश्च कल्पितो माययैव तु ।
घटाकाशमहाकाशविभागः कल्पितो यथा ॥ ८ ॥
तथैव कल्पितो भेदो जीवात्मपरमात्मनोः ।
यथा जीवबहूत्वं च माययैव न च स्वतः ॥ ९ ॥
तथेश्वरबहुत्वं च मायया न स्वभावतः ।
देहेन्द्रियादिसङ्घातवासनाभेदभेदिता ॥ १० ॥
अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः ।
गुणानां वासनाभेदभेदिता या धराधर ॥ ११ ॥
माया सा परभेदस्य हेतुर्नान्यः कदाचन ।
मयि सर्वमिदं प्रोतमोतं च धरणीधर ॥ १२ ॥
ईश्वरोऽहं च सूत्रात्मा विराडात्माहमस्मि च ।
ब्रह्माहं विष्णुरुद्रौ च गौरी ब्राह्मी च वैष्णावी ॥ १३ ॥
सूर्योऽहं तारकाश्चाहं तारकेशस्तथास्म्यहम् ।
पशुपक्षिस्वरूपाहं चाण्डालोऽहं च तस्करः ॥ १४ ॥
व्याधोऽहं क्रूरकर्माहं सत्कर्माहं महाजनः ।
स्त्रीपुन्नपुंसकाकारोऽप्यहमेव न संशयः ॥ १५ ॥
यच्च किञ्चित्क्वचिद्वस्तु दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्याहं सर्वदा स्थिता ॥ १६ ॥
न तदस्ति मया त्यक्तं वस्तु किञ्चिच्चराचरम् ।
यद्यस्ति चेत्तच्छून्यं स्याद्वन्ध्यापुत्रोपमं हि तत् ॥ १७ ॥
रज्जुर्यथा सर्पमालाभेदैरेका विभाति हि ।
तथैवेशादिरूपेण भाम्यहं नात्र संशयः ॥ १८ ॥
अधिष्ठानातिरेकेण कल्पितं तन्न भासते ।
तस्मान्मत्सत्तयैवैतत्सत्तावान्नान्यथा भवेत् ॥ १९ ॥
हिमालय उवाच
यथा वदसि देवेशि समष्ट्याऽऽत्मवपुस्त्विदम् ।
तथैव द्रष्टुमिच्छामि यदि देवि कृपा मयि ॥ २० ॥
व्यास उवाच
इति तस्य वचः श्रुत्वा सर्वे देवाः सविष्णवः ।
ननन्दुर्मुदितात्मानः पूजयन्तश्च तद्वचः ॥ २१ ॥
अथ देवमतं ज्ञात्वा भक्तकामदुघा शिवा ।
अदर्शयन्निजं रूपं भक्तकामप्रपूरिणी ॥ २२ ॥
अपश्यंस्ते महादेव्या विराड्‌रूपं परात्परम् ।
द्यौर्मस्तकं भवेद्यस्य चन्द्रसूर्यौ च चक्षुषी ॥ २३ ॥
दिशः श्रोत्रे वचो देवाः प्राणो वायुः प्रकीर्तितः ।
विश्वं हृदयमित्याहुः पृथिवी जघनं स्मृतम् ॥ २४ ॥
नभस्तलं नाभिसरो ज्योतिश्चक्रमुरःस्थलम् ।
महर्लोकस्तु ग्रीवा स्याज्जनोलोको मुखं स्मृतम् ॥ २५ ॥
तपोलोको रराटिस्तु सत्यलोकादधः स्थितः ।
इन्द्रादयो बाहवः स्युः शब्दः श्रोत्रं महेशितुः ॥ २६ ॥
नासत्यदस्रौ नासे स्तो गन्धो घ्राणं स्मृतो बुधैः ।
मुखमग्निः समाख्यातो दिवारात्री च पक्ष्मणी ॥ २७ ॥
ब्रह्मस्थानं भ्रूविजृम्भोऽप्यापस्तालुः प्र्कीर्तिताः ।
रसो जिह्वा समाख्याता यमो दंष्ट्राः प्रकीर्तिताः ॥ २८ ॥
दन्ताः स्नेहकला यस्य हासो माया प्रकीर्तिता ।
सर्गस्त्वपाङ्गमोक्षः स्याद् व्रीडोर्ध्वोष्ठो महेशितुः ॥ २९ ॥
लोभः स्यादधरोष्ठोऽस्याधर्ममार्गस्तु पृष्ठभूः ।
प्रजापतिश्च मेढ्रं स्याद्यः स्रष्टा जगतीतले ॥ ३० ॥
कुक्षिः समुद्रा गिरयोऽस्थीनि देव्या महेशितुः ।
नद्यो नाड्यः समाख्याता वृक्षाः केशाः प्रकीर्तिताः ॥ ३१ ॥
कौमारयौवनजरा वयोऽस्य गतिरुत्तमा ।
बलाहकास्तु केशाः स्युः सन्ध्ये ते वाससी विभो ॥ ३२ ॥
राजञ्छ्रीजगदम्बायाश्चन्द्रमास्तु मनः स्मृतः ।
विज्ञानशक्तिस्तु हरी रुद्रोऽन्तःकरणं स्मृतम् ॥ ३३ ॥
अश्वा हि जातयः सर्वाः श्रोणिदेशे स्थिता विभोः ।
अतलादिमहालोकाः कट्यधोभागतां गताः ॥ ३४ ॥
एतादृशं महारूपं ददृशुः सुरपुङ्गवाः ।
ज्वालामालासहस्राढ्यं लेलिहानं च जिह्वया ॥ ३५ ॥
दंष्ट्राकटकटारावं वमन्तं वह्निमक्षिभिः ।
नानायुधधरं वीरं ब्रह्मक्षत्रौदनं च यत् ॥ ३६ ॥
सहस्रशीर्षनयनं सहस्रचरणं तथा ।
कोटिसूर्यप्रतीकाशं विद्युत्कोटिसमप्रभम् ॥ ३७ ॥
भयङ्करं महाघोरं हृदक्ष्णोस्त्रासकारकम् ।
ददृशुस्ते सुराः सर्वे हाहाकारं च चक्रिरे ॥ ३८ ॥
विकम्पमानहृदया मूर्च्छामापुर्दुरत्ययाम् ।
स्मरणं च गतं तेषां जगदम्बेयमित्यपि ॥ ३९ ॥
अथ ते ये स्थिता वेदाश्चतुर्दिक्षु महाविभोः ।
बोधयामासुरत्युग्रं मूर्छातो मूर्च्छितान्सुरान् ॥ ४० ॥
अथ ते धैर्यमालम्ब्य लब्ध्वा च श्रुतिमुत्तमाम् ।
प्रेमाश्रुपूर्णनयना रुद्धकण्ठास्तु निर्जराः ॥ ४१ ॥
बाष्पगद्‌गदया वाचा स्तोतुं समुपचक्रिरे ।
देवा ऊचुः
अपराधं क्षमस्वाम्ब पाहि दीनांस्त्वदुद्‌भवान् ॥ ४२ ॥
कोपं संहर देवेशि सभया रूपदर्शनात् ।
का ते स्तुतिः प्रकर्तव्या पामरैर्निर्जरैरिह ॥ ४३ ॥
स्वस्याप्यज्ञेय एवासौ यावान्यश्च स्वविक्रमः ।
तदर्वाग्जायमानानां कथं स विषयो भवेत् ॥ ४४ ॥
नमस्ते भुवनेशानि नमस्ते प्रणवात्मिके ।
सर्ववेदान्तसंसिद्धे नमो ह्रीङ्कारमूर्तये ॥ ४५ ॥
यस्मादग्निः समुत्पन्नो यस्मात्सूर्यश्च चन्द्रमाः ।
यस्मादोषधयः सर्वास्तस्मै सर्वात्मने नमः ॥ ४६ ॥
यस्माच्च देवाः सम्भूताः साध्याः पक्षिण एव च ।
पशवश्च मनुष्याश्च तस्मै सर्वात्मने नमः ॥ ४७ ॥
प्राणापानौ व्रीहियवौ तपः श्रद्धा ऋतं तथा ।
ब्रह्मचर्यं विधिश्चैव यस्मात्तस्मै नमो नमः ॥ ४८ ॥
सप्त प्राणार्चिषो यस्मात्समिधः सप्त एव च ।
होमाः सप्त तथा लोकास्तस्मै सर्वात्मने नमः ॥ ४९ ॥
यस्मात्समुद्रा गिरयः सिन्धवः प्रचरन्ति च ।
यस्मादोषधयः सर्वा रसास्तस्मै नमो नमः ॥ ५० ॥
यस्माद्यज्ञः समुद्‌भूतो दीक्षा यूपश्च दक्षिणाः ।
ऋचो यजूंषि सामानि तस्मै सर्वात्मने नमः ॥ ५१ ॥
नमः पुरस्तात्पृष्ठे च नमस्ते पार्श्वयोर्द्वयोः ।
अध ऊर्ध्वं चतुर्दिक्षु मातर्भूयो नमो नमः ॥ ५२ ॥
उपसंहर देवेशि रूपमेतदलौकिकम् ।
तदेव दर्शयास्माकं रूपं सुन्दरसुन्दरम् ॥ ५३ ॥
व्यास उवाच
इति भीतान्सुरान्दृष्ट्वा जगदम्बा कृपार्णवा ।
संहृत्य रूपं घोरं तद्दर्शयामास सुन्दरम् ॥ ५४ ॥
पाशाङ्कुशवराभीतिधरं सर्वाङ्गकोमलम् ।
करुणापूर्णनयनं मन्दस्मितमुखाम्बुजम् ॥ ५५ ॥
दृष्ट्वा तत्सुन्दरं रूपं तदा भीतिविवर्जिताः ।
शान्तचित्ताः प्रणेमुस्ते हर्षगद्‌गदनिःस्वनाः ॥ ५६ ॥


-





इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
श्रीदेवीविराड्‌रूपदर्शनसहितं देवकृततत्स्तववर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
अध्याय तेहतिसावा समाप्त

GO TOP