श्रीमद्‌देवीभागवत महापुराण
सप्तमः स्कन्धः
एकत्रिंशोऽध्यायः


हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम्

जनमेजय उवाच
धराधराधीशमौलावाविरासीत्परं महः ।
यदुक्तं भवता पूर्वं विस्तरात्तद्वदस्व मे ॥ १ ॥
को विरज्येत मतिमान् पिबञ्छक्तिकथामृतम् ।
सुधां तु पिबतां मृत्युः स नैतच्छृण्वतो भवेत् ॥ २ ॥
व्यास उवाच
धन्योऽसि कृतकृत्योऽसि शिक्षितोऽसि महात्मभिः ।
भाग्यवानसि यद्देव्यां निर्व्याजा भक्तिरस्ति ते ॥ ३ ॥
शृणु राजन्पुरा वृत्तं सतीदेहेऽग्निभर्जिते ।
भ्रान्तः शिवस्तु बभ्राम क्वचिद्देशे स्थिरोऽभवत् ॥ ४ ॥
प्रपञ्चभानरहितः समाधिगतमानसः ।
ध्यायन्देवीस्वरूपं तु कालं निन्ये स आत्मवान् ॥ ५ ॥
सौभाग्यरहितं जातं त्रैलोक्यं सचराचरम् ।
शक्तिहीनं जगत्सर्वं साब्धिद्वीपं सपर्वतम् ॥ ६ ॥
आनन्दः शुष्कतां यातः सर्वेषां हृदयान्तरे ।
उदासीनाः सर्वलोकाश्चिन्ताजर्जरचेतसः ॥ ७ ॥
सदा दुःखोदधौ मग्ना रोगग्रस्तास्तदाभवन् ।
ग्रहाणां देवतानां च वैपरीत्येन वर्तनम् ॥ ८ ॥
अधिभूताधिदैवानां सत्यभावान्नृपाभवन् ।
अथाऽस्मिन्नेव काले तु तारकाख्यो महसुरः ॥ ९ ॥
ब्रह्मदत्तवरो दैत्योऽभवत्त्रैलोक्यनायकः ।
शिवौरसस्तु यः पुत्रः स ते हन्ता भविष्यति ॥ १० ॥
इति कल्पितमृत्युः स देवदेवैर्महासुरः ।
शिवौरससुताभावाज्जगर्ज च ननन्द च ॥ ११ ॥
तेन चोपद्रुताः सर्वे स्वस्थानात्प्रच्युताः सुराः ।
शिवौरससुताभावाच्चिन्तामापुर्दुरत्ययाम् ॥ १२ ॥
नाङ्गना शङ्करस्यास्ति कथं तत्सुतसम्भवः ।
अस्माकं भाग्यहीनानां कथं कार्यं भविष्यति ॥ १३ ॥
इति चिन्तातुराः सर्वे जग्मुर्वैकुण्ठमण्डले ।
शशंसुर्हरिमेकान्ते स चोपायं जगाद ह ॥ १४ ॥
कुतश्चिन्तातुराः सर्वे कामकल्पद्रुमा शिवा ।
जागर्ति भूवनेशानी मणिद्वीपाधिवासिनी ॥ १५ ॥
अस्माकमनया देव तदुपेक्षास्ति नान्यथा ।
शिक्षैवेयं जगन्मात्रा कृतास्मच्छिक्षणाय च ॥ १६ ॥
लालने ताडने मातुर्नाकारुण्यं यथार्भके ।
तद्वदेव जगन्मातुर्नियन्त्र्या गुणदोषयोः ॥ १७ ॥
अपराधो भवत्येव तनयस्य पदे पदे ।
कोऽपरः सहते लोके केवलं मातरं विना ॥ १८ ॥
तस्माद्यूयं पराम्बां तां शरणं यात मा चिरम् ।
निर्व्याजया चित्तवृत्त्या सा वः कार्यं विधास्यति ॥ १९ ॥
इत्यादिश्य सुरान्सर्वान्महाविष्णुः स्वजायया ।
संयुतो निर्जगामाशु देवैः सह सुराधिपः ॥ २० ॥
आजगाम महाशैलं हिमवन्तं नगाधिपम् ।
अभवंश्च सुराः सर्वे पुरश्चरणकर्मिणः ॥ २१ ॥
अम्बायज्ञविधानज्ञा अम्बायज्ञं च चक्रिरे ।
तृतीयादिव्रतान्याशु चक्रुः सर्वे सुरा नृप ॥ २२ ॥
केचित्समाधिनिष्णाताः केचिन्नामपरायणाः ।
केचित्सूक्तपराः केचिन्नामपारायणोत्सुकाः ॥ २३ ॥
मन्त्रपारायणपराः केचित्कृच्छ्रादिकारिणः ।
अन्तर्यागपराः केचित्केचिन्न्यासपरायणाः ॥ २४ ॥
हृल्लेखया पराशक्तेः पूजां चक्रुरतन्द्रिताः ।
इत्येवं बहुवर्षाणि कालोऽगाज्जनमेजय ॥ २५ ॥
अकस्माच्चैत्रमासीयनवम्यां च भृगोर्दिने ।
प्रादुर्बभूव पुरतस्तन्महः श्रुतिबोधितम् ॥ २६ ॥
चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्‌भिरभिष्टुतम् ।
कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ २७ ॥
विद्युत्कोटिसमानाभमरुणं तत्परं महः ।
नैव चोर्ध्वं न तिर्यक्च न मध्ये परिजग्रभत् ॥ २८ ॥
आद्यन्तरहितं तत्तु न हस्ताद्यङ्गसंयुतम् ।
न च स्त्रीरूपमथवा न पुंरूपमथोभयम् ॥ २९ ॥
दीप्त्या पिधानं नेत्राणां तेषामासीन्महीपते ।
पुनश्च धैर्यमालम्ब्य यावत्ते ददृशुः सुराः ॥ ३० ॥
तावत्तदेव स्त्रीरूपेणाभाद्दिव्यं मनोहरम् ।
अतीव रमणीयाङ्गीं कुमारीं नवयौवनाम् ॥ ३१ ॥
उद्यत्पीनकुचद्वन्द्वनिन्दिताम्भोजकुड्मलाम् ।
रणत्किङ्‌किणिकाजालसिञ्जन्मञ्जीरमेखलाम् ॥ ३२ ॥
कनकाङ्गदकेयूरग्रैवेयकविभूषिताम् ।
अनर्घ्यमणिसम्भिन्नगलबन्धविराजिताम् ॥ ३३ ॥
तनुकेतकसंराजन्नीलभ्रमरकुन्तलाम् ।
नितम्बबिम्बसुभगां रोमराजिविराजिताम् ॥ ३४ ॥
कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् ।
कनत्कनकताटङ्कविटङ्कवदनाम्बुजाम् ॥ ३५ ॥
अष्टमीचन्द्रबिम्बाभललाटामायतभ्रुवम् ।
रक्तारविन्दनयनामुन्नसां मधुराधराम् ॥ ३६ ॥
कुन्दकुड्मलदन्ताग्रां मुक्ताहारविराजिताम् ।
रत्‍नसम्भिन्नमुकुटां चन्द्ररेखावतंसिनीम् ॥ ३७ ॥
मल्लिकामालतीमालाकेशपाशविराजिताम् ।
काश्मीरबिन्दुनिटिलां नेत्रत्रयविलासिनीम् ॥ ३८ ॥
पाशाङ्कुशवराभीतिचतुर्बाहुं त्रिलोचनाम् ।
रक्तवस्त्रपरीधानां दाडिमीकुसुमप्रभाम् ॥ ३९ ॥
सर्वशृङ्गारवेषाढ्यां सर्वदेवनमस्कृताम् ।
सर्वाशापूरिकां सर्वमातरं सर्वमोहिनीम् ॥ ४० ॥
प्रसादसुमुखीमम्बां मन्दस्मितमुखाम्बुजाम् ।
अव्याजकरुणामूर्तिं ददृशुः पुरतः सुराः ॥ ४१ ॥
दृष्ट्वा तां करुणामुर्तिं प्रणेमुः सकलाः सुराः ।
वक्तुं नाशक्नुवन् किञ्चिद्वाष्पसंरुद्धनिःस्वनाः ॥ ४२ ॥
कथञ्चित्स्थैर्यमालम्ब्य भक्त्या चानतकन्धराः ।
प्रेमाश्रुपूर्णनयनास्तुष्टुवुर्जगदम्बिकाम् ॥ ४३ ॥
देवा ऊचुः
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ४४ ॥
तामग्निवर्णां तपसा ज्वलन्तीं
     वैरोचनीं कर्मफलेषु जुष्टाम् ।
दुर्गां देवीं शरणमहं प्रपद्ये
     सुतरसि तरसे नमः ॥ ४५ ॥
देवीं वाचमजनयन्त देवा-
     स्तां विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना
     धेनुर्वागस्मानुपसुष्टुतैतु ॥ ४६ ॥
कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।
सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ ४७ ॥
महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात् ॥ ४८ ॥
नमो विराट्स्वरूपिण्यै नमः सूत्रात्ममूर्तये ।
नमोऽव्याकृतरूपिण्यै नमः श्रीब्रह्ममूर्तये ॥ ४९ ॥
यदज्ञानाज्जगद्‌भाति रज्जुसर्पस्रगादिवत् ।
यज्ज्ञानाल्लयमाप्नोति नुमस्तां भुवनेश्वरीम् ॥ ५० ॥
नुमस्तत्पदलक्ष्यार्थां चिदेकरसरूपिणीम् ।
अखण्डानन्दरूपां तां वेदतात्पर्यभूमिकाम् ॥ ५१ ॥
पञ्चकोशातिरिक्तां तामवस्थात्रयसाक्षिणीम् ।
नुमस्त्वंपदलक्ष्यार्थां प्रत्यगात्मस्वरूपिणीम् ॥ ५२ ॥
नमः प्रणवरूपायै नमो ह्रीङ्कारमूर्तये ।
नानामन्त्रात्मिकायै ते करुणायै नमो नमः ॥ ५३ ॥
इति स्तुता तदा देवैर्मणिद्वीपाधिवासिनी ।
प्राह वाचा मधुरया मत्तकोकिलनिःस्वना ॥ ५४ ॥
श्रीदेव्युवाच
वदन्तु विबुधाः कार्यं यदर्थमिह सङ्गताः ।
वरदाहं सदा भक्तकामकल्पद्रुमास्मि च ॥ ५५ ॥
तिष्ठन्त्यां मयि का चिन्ता युष्माकं भक्तिशालिनाम् ।
समुद्धरामि मद्‌भक्तान्दुःखसंसारसागरात् ॥ ५६ ॥
इति प्रतिज्ञां मे सत्यां जानीथ विबुधोत्तमाः ।
इति प्रेमाकुलां वाणीं श्रुत्वा सन्तुष्टमानसाः ॥ ५७ ॥
निर्भया निर्जरा राजन्नूचुर्दुःखं स्वकीयकम् ।
देवा ऊचुः
नाज्ञातं किञ्चिदप्यत्र भवत्यास्ति जगत्त्रये ॥ ५८ ॥
सर्वज्ञया सर्वसाक्षिरूपिण्या परमेश्वरि ।
तारकेणासुरेन्द्रेण पीडिताः स्मो दिवानिशम् ॥ ५९ ॥
शिवाङ्गजाद्वधस्तस्य निर्मितो ब्रह्मणा शिवे ।
शिवाङ्गना तु नैवास्ति जानासि त्वं महेश्वरि ॥ ६० ॥
सर्वज्ञपुरतः किं वा वक्तव्यं पामरैर्जनैः ।
एतदुद्देशतः प्रोक्तमपरं तर्कयाम्बिके ॥ ६१ ॥
सर्वदा चरणाम्भोजे भक्तिः स्यात्तव निश्चला ।
प्रार्थनीयमिदं मुख्यमपरं देहहेतवे ॥ ६२ ॥
इति तेषां वचः श्रुत्वा प्रोवाच परमेश्वरी ।
मम शक्तिस्तु या गौरी भविष्यति हिमालये ॥ ६३ ॥
शिवाय सा प्रदेया स्यात्सा वः कार्यं विधास्यति ।
भक्तिर्यच्चरणाम्भोजे भूयाद्युष्माकमादरात् ॥ ६४ ॥
हिमालयो हि मनसा मामुपास्तेऽतिभक्तितः ।
ततस्तस्य गृहे जन्म मम प्रियकरं मतम् ॥ ६५ ॥
व्यास उवाच
हिमालयोऽपि तच्छ्रुत्वात्यनुग्रहकरं वचः ।
बाष्पैः संरुद्धकण्ठाक्षो महाराज्ञीं वचोऽब्रवीत् ॥ ६६ ॥
महत्तरं तं कुरुषे यस्यानुग्रहमिच्छसि ।
नोचेत्क्वाहं जडः स्थाणुः क्व त्वं सच्चित्स्वरूपिणी ॥ ६७ ॥
असम्भाव्यं जन्मशतैस्त्वत्पितृत्वं ममानघे ।
अश्वमेधादिपुण्यैर्वा पुण्यैर्वा तत्समाधिजैः ॥ ६८ ॥
अद्य प्रपञ्चे कीर्तिः स्याज्जगन्माता सुताभवत् ।
अहो हिमालयस्यास्य धन्योऽसौ भाग्यवानिति ॥ ६९ ॥
यस्यास्तु जठरे सन्ति ब्रह्माण्डानां च कोटयः ।
सैव यस्य सुता जाता को वा स्यात्तत्समो भुवि ॥ ७० ॥
न जानेऽस्मत्पितॄणां किं स्थानं स्यान्निर्मितं परम् ।
एतादृशानां वासाय येषां वंशेऽस्ति मादृशः ॥ ७१ ॥
इदं यथा च दत्तं मे कृपया प्रेमपूर्णया ।
सर्ववेदान्तसिद्धं च त्वद्‌रूपं ब्रूहि मे तथा ॥ ७२ ॥
योगं च भक्तिसहितं ज्ञानं च श्रुतिसम्मतम् ।
वदस्व परमेशानि त्वमेवाहं यतो भवेः ॥ ७३ ॥
व्यास उवाच
इति तस्य वचः श्रुत्वा प्रसन्नमुखपङ्कजा ।
वक्तुमारभताम्बा सा रहस्यं श्रुतिगूहितम् ॥ ७४ ॥


-





इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां सप्तमस्कन्धे हिमालयगृहे
पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
अध्याय एकतिसावा समाप्त

GO TOP