श्रीमद्‌देवीभागवत महापुराण
सप्तमः स्कन्धः
षड्‌विंशोऽध्यायः


हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम्

सूत उवाच -
ततोऽथ भूपतिः प्राह राज्ञीं स्थित्वा ह्यधोमुखः ।
अत्रोपविश्यतां बाले पापस्य पुरतो मम ॥ १ ॥
शिरस्ते छेदयिष्यामि हन्तुं शक्नोति चेत्करः ।
एवमुक्त्वा समुद्यम्य खड्गं हन्तुं गतो नृपः ॥ २ ॥
न जानाति नृपः पत्‍नीं सा न जानाति भूपतिम् ।
अब्रवीद्‌ भृशदुःखार्ता स्वमृत्युमभिकाङ्क्षति ॥ ३ ॥
स्त्र्युवाच -
चाण्डाल शृणु मे वाक्यं किञ्चित्त्वं यदि मन्यसे ।
मृतस्तिष्ठति मे पुत्रो नातिदूरे बहिः पुरात् ॥ ४ ॥
तं दहामि हतं यावदानयित्वा तवान्तिकम् ।
तावत्प्रतीक्ष्यतां पश्चादसिना घातयस्व माम् ॥ ५ ॥
तेनाथ बाढमित्युक्त्वा प्रेषिता बालकं प्रति ।
सा जगामातिदुःखार्ता विपलन्ती सुदारुणम् ॥ ६ ॥
भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि बालकम् ।
हा पुत्र हा वत्स शिशो इत्येवं वदती मुहुः ॥ ७ ॥
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा ।
श्मशानभूमिमागत्य बालं स्थाप्याविशद्‌भुवि ॥ ८ ॥
(राजन्नद्य स्वबालं तं पश्यसीह महीतले ।
रममाणं स्वसखिभिर्दष्टं दुष्टाहिना मृतम् ॥)
तस्या विलापशब्दं तमाकर्ण्य स नराधिपः ।
शवसन्निधिमागत्य वस्त्रमस्याक्षिपत्तदा ॥ ९ ॥
तां तथा रुदतीं भार्यां नाभिजानाति भूमिपः ।
चिरप्रवाससन्तप्तां पुनर्जातामिवाबलाम् ॥ १० ॥
सापि तं चारुकेशान्तं पुरो दृष्ट्वा जटालकम् ।
नाभ्यजानान्नृपवरं शुष्कवृक्षत्वचोपमम् ॥ ११ ॥
भूमौ निपतितं बालं दृष्ट्वाशीविषपीडितम् ।
नरेन्द्रलक्षणोपेतमचिन्तयदसौ नृपः ॥ १२ ॥
अस्य पूर्णेन्दुवद्वक्त्रं शुभमुन्नसमव्रणम् ।
दर्पणप्रतिमोत्तुङ्गकपोलयुगशोभितम् ॥ १३ ॥
नीलान्केशान्कुञ्चिताग्रान् सान्द्रान्दीर्घांस्तरङ्‌गिणः ।
राजीवसदृशे नेत्रे ओष्ठौ बिम्बफलोपमौ ॥ १४ ॥
विशालवक्षा दीर्घाक्षो दीर्घबाहून्नतांसकः ।
विशालपादो गम्भीरःसूक्ष्माङ्गुल्यवनीधरः ॥ १५ ॥
मृणालपादो गम्भीरनाभिरुद्धतकन्धरः ।
अहो कष्टं नरेन्द्रस्य कस्याप्येष कुले शिशुः ॥ १६ ॥
जातो नीतः कृतान्तेन कालपाशाद्दुरात्मना ।
सूत उवाच -
एवं दृष्ट्वाथ तं बालं मातुरङ्के प्रसारितम् ॥ १७ ॥
स्मृतिमभ्यागतो राजा हाहेत्यश्रूण्यपातयत् ।
सोऽप्युवाच च वत्सो मे दशामेतामुपागतः ॥ १८ ॥
नीतो यदि च घोरेण कृतान्तेनात्मनो वशम् ।
विचारयित्वा राजासौ हरिश्चन्द्रस्तथा स्थितः ॥ १९ ॥
ततो राज्ञी महादुःखावेशादिदमभाषत ।
राज्ञ्युवाच -
हा वत्स कस्य पापस्य त्वपध्यानादिदं महत् ॥ २० ॥
दुःखमापतितं घोरं तद्‌रूपं नोपलभ्यते ।
हा नाथ राजन् भवता मामपास्य सुदुःखिताम् ॥ २१ ॥
कस्मिन्संस्थीयते स्थाने विश्रब्धं केन हेतुना ।
राज्यनाशं सुहृत्त्यागो भार्यातनयविक्रयः ॥ २२ ॥
हरिश्चन्द्रस्य राजर्षेः किं विधातः कृतं त्वया ।
इति तस्या वचः श्रुत्वा राजा स्थानच्युतस्तदा ॥ २३ ॥
प्रत्यभिज्ञाय देवीं तां पुत्रं च निधनं गतम् ।
कष्टं ममैव पत्‍नीयं बालकश्चापि मे सुतः ॥ २४ ॥
ज्ञात्वा पपात सन्तप्तो मूर्च्छामतिजगाम ह ।
सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम् ॥ २५ ॥
मूर्च्छिता निपपातार्ता निश्चेष्टा धरणीतले ।
चेतनां प्राप्य राजेन्द्रो राजपत्‍नी च तौ समम् ॥ २६ ॥
विलेपतुः सुसन्तप्तौ शोकभारेण पीडितौ ।
राजोवाच -
हा वत्स सुकुमारं ते वदनं कुञ्चितालकम् ॥ २७ ॥
पश्यतो मे मुखं दीनं हृदयं किं न दीर्यते ।
तात तातेति मधुरं ब्रुवाणं स्वयमागतम् ॥ २८ ॥
उपगुह्य कदा वक्ष्ये वत्सवत्सेति सौहृदात् ।
कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना ॥ २९ ॥
ममोत्तरीयमुत्सङ्गं तथाङ्गं मलमेष्यति ।
न वालं मम सम्भूतं मनो हृदयनन्दन ॥ ३० ॥
(मयासि पितृमान्पित्रा विक्रीतो येन वस्तुवत् ।)
गतं राज्यमशेषं मे सबान्धवधनं महत् ।
(हीनदैवान्नृशंसेन दृष्टो मे तनयस्ततः ।)
अहं महाहिदष्टस्य पुत्रस्याननपङ्कजम् ॥ ३१ ॥
निरीक्षन्नद्य घोरेण विषेणाधिकृतोऽधुना ।
एवमुक्त्वा तमादाय बालकं बाष्पगद्‌गदः ॥ ३२ ॥
परिष्वज्य च निश्चेष्टो मूर्च्छया निपपात ह ।
ततस्तं पतितं दृष्ट्वा शैव्या चैवमचिन्तयत् ॥ ३३ ॥
अयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते ।
विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः ॥ ३४ ॥
तथास्य नासिका तुङ्गा तिलपुष्पोपमा शुभा ।
दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः ॥ ३५ ॥
श्मशानमागतः कस्माद्यद्येवं स नरेश्वरः ।
विहाय पुत्रशोकं सा पश्यन्ती पतितं पतिम् ॥ ३६ ॥
प्रहृष्टा विस्मिता दीना भर्तृपुत्रार्तिपीडिता ।
वीक्षती सा तदापतन्मूर्च्छया धरणीतले ॥ ३७ ॥
प्राप्य चेतश्च शनकैः सा गद्‌गदमभाषत ।
धिक्त्वां दैव ह्यकरुण निर्मर्याद जुगुप्सित ॥ ३८ ॥
येनायममरप्रख्यो नीतो राजा श्वपाकताम् ।
राज्यनाशं सुहृत्त्यागं भार्यातनयविक्रयम् ॥ ३९ ॥
प्रापयित्वापि येनाद्य चाण्डालोऽयं कृतो नृपः ।
नाद्य पश्यामि ते छत्रं सिंहासनमथापि वा ॥ ४० ॥
चामरव्यजने वापि कोऽयं विधिविपर्ययः ।
यस्यास्य व्रजतः पूर्वं राजानो भृत्यतां गताः ॥ ४१ ॥
स्वोत्तरीयैः प्रकुर्वन्ति विरजस्कं महीतलम् ।
सोऽयं कपालसंलग्ने घटीपटनिरन्तरे ॥ ४२ ॥
मृतनिर्माल्यसूत्रान्तर्लग्नकेशसुदारुणे ।
वसानिष्पन्दसंशुष्कमहापटलमण्डिते ॥ ४३ ॥
भस्माङ्गारार्धदग्धास्थिमज्जासंघट्टभीषणे ।
गृध्रगोमायुनादार्ते पुष्टक्षुद्रविहङ्गमे ॥ ४४ ॥
चिताधूमायतपटे नीलीकृतदिगन्तरे ।
कुणपास्वादनमुदा सम्प्रकृष्टनिशाचरे ॥ ४५ ॥
चरत्यमेध्ये राजेन्द्रः श्मशाने दुःखपीडितः ।
एवमुक्त्वाथ संश्लिष्य कण्ठे राज्ञो नृपात्मजा ॥ ४६ ॥
कष्टं शोकसमाविष्टा विललापार्तया गिरा ।
राजन् स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान् ॥ ४७ ॥
तत्कथ्यतां महाभाग मनो वै मुह्यते मम ।
यद्येतदेव धर्मज्ञ नास्ति धर्मे सहायता ॥ ४८ ॥
तथैव विप्रदेवादिपूजने सत्यपालने ।
नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता ॥ ४९ ॥
यत्र त्वं धर्मपरमः स्वराज्यादवरोपितः ।
सूत उवाच -
इति तस्या वचः श्रुत्वा निःश्वस्योष्णं सगद्‌गदः ॥ ५० ॥
कथयामास तन्वङ्ग्यै यथा प्राप्तः श्वपाकताम् ।
रुदित्वा सा तु सुचिरं निःश्वस्योष्णं सुदुःखिता ॥ ५१ ॥
स्वपुत्रमरणं भीरुर्यथावत्तं न्यवेदयत् ।
श्रुत्वा राजा तथा वाक्यं निपपात महीतले ॥ ५२ ॥
मृतपुत्रं समानीय जिह्वया विलिहन्मुहुः ।
हरिश्चन्द्रमथो प्राह शैव्या गद्‌गदया गिरा ॥ ५३ ॥
कुरुष्व स्वामिनः प्रेष्यं छेदयित्वा शिरो मम ।
स्वामिद्रोहो न तेऽस्त्वद्य मासत्यो भव भूपते ॥ ५४ ॥
मासत्यं तव राजेन्द्र परद्रोहस्तु पातकम् ।
एतदाकर्ण्य राजा तु पपात भुवि मूर्च्छितः ॥ ५५ ॥
क्षणेन चेतनां प्राप्य विललापातिदुःखितः ।
राजोवाच -
कथं प्रिये त्वया प्रोक्तं वचनं त्वतिनिष्ठुरम् ॥ ५६ ॥
यदशक्यं भवेद्वक्तुं तत्कर्म क्रियते कथम् ।
पत्‍न्युवाच -
मया च पूजिता गौरी देवा विप्रास्तथैव च ॥ ५७ ॥
भविष्यसि पतिस्त्वं मे ह्यन्यस्मिञ्जन्मनि प्रभो ।
श्रुत्वा राजा तदा वाक्यं निपपात महीतले ॥ ५८ ॥
मृतस्य पुत्रस्य तदा चुचुम्ब दुःखितो मुखम् ।
राजोवाच -
प्रिये न रोचते दीर्घं कालं क्लेशं मयाशितुम् ॥ ५९ ॥
नात्मायत्तोऽहं तन्वङ्‌गि पश्य मे मन्दभाग्यताम् ।
चाण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि ॥ ६० ॥
चाण्डालदासतां यास्ये पुनरप्यन्यजन्मनि ।
नरकं च वरं प्राप्य खेदं प्राप्स्यामि दारुणम् ॥ ६१ ॥
तापं प्राप्स्यामि सम्प्राप्य महारौरवरौरवे ।
मग्नस्य दुःखजलधौ वरं प्राणैर्वियोजनम् ॥ ६३ ॥
एकोऽपि बालको योऽयमासीद्वंशकरः सुतः ।
मम दैवानुयोगेन मृतो सोऽपि बलीयसा ॥ ६३ ॥
कथं प्राणान्विमुञ्चामि परायत्तोऽस्मि दुर्गतः ।
तथापि दुःखबाहुल्यात्त्यक्ष्यामि तु निजां तनुम् ॥ ६४ ॥
त्रैलोक्ये नास्ति तद्दुःखं नासिपत्रवने तथा ।
वैतरण्यां कुतस्तद्वद्यादृशं पुत्रविप्लवे ॥ ६५ ॥
सोऽहं सुतशरीरेण दीप्यमाने हुताशने ।
निपतिष्यामि तन्वङ्‌गि क्षन्तव्यं तन्ममाधुना ॥ ६६ ॥
न वक्तव्य त्वया किञ्चिदतः कमललोचने ।
मम वाक्यं च तन्वङ्‌गि निबोधाहतमानसा ॥ ६७ ॥
अनुज्ञाताथ गच्छ त्वं विप्रवेश्म शुचिस्मिते ।
यदि दत्तं यदि हुतं गुरवो यदि तोषिताः ॥ ६८ ॥
सङ्गमः परलोके मे निजपुत्रेण चेत्त्वया ।
इहलोके कुतस्त्वेतद्‌भविष्यति समीप्सितम् ॥ ६९ ॥
यन्मया हसता किञ्चिद्‌रहसि त्वां शुचिस्मिते ।
अशेषमुक्तं तत्सर्वं क्षन्तव्यं मम यास्यतः ॥ ७० ॥
राजपत्‍नीति गर्वेण नावज्ञेयः स मे द्विजः ।
सर्वयत्‍नेन तोष्यं स्यात्स्वामी दैवतवच्छुभे ॥ ७१ ॥
राज्ञ्युवाच
अहमप्यत्र राजर्षे निपतिष्ये हुताशने ।
दुःखभारासहा देव सह यास्यामि वै त्वया ॥ ७२ ॥
त्वया सह मम श्रेयो गमनं नान्यथा भवेत् ।
सह स्वर्गं च नरकं त्वया भोक्ष्यामि मानद ।
श्रुत्वा राजा तदोवाच एवमस्तु पतिव्रते ॥ ७३ ॥


-





इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनं नाम षड्‌विंशोऽध्यायः ॥ २६ ॥
अध्याय सव्विसावा समाप्त

GO TOP