श्रीमद्‌देवीभागवत महापुराण
सप्तमः स्कन्धः
पञ्चविंशोऽध्यायः


चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम्

सूत उवाच -
एकदा तु गतो रन्तुं बालकैः सहितो बहिः ।
वाराणस्या नातिदूरे रोहिताख्यः कुमारकः ॥ १ ॥
क्रीडां कृत्वा ततो दर्भान् ग्रहीतुमुपचक्रमे ।
कोमलानल्पमूलांश्च साग्राञ्छक्त्यनुसारतः ॥ २ ॥
आर्यप्रीत्यर्थमित्युक्त्वा हस्तयुग्मेन यत्‍नतः ।
सलक्षणाश्च समिधो बर्हिरिध्मं सलक्षणम् ॥ ३ ॥
पलाशकाष्ठान्यादाय त्वग्निहोमार्थमादरात् ।
मस्तके भारकं कृत्वा खिद्यमानः पदे पदे ॥ ४ ॥
उदकस्थानमासाद्य तदा बालस्तृषान्वितः ।
भुवि भारं विनिक्षिप्य जलस्थाने तदा शिशुः ॥ ५ ॥
कामतः सलिलं पीत्वा विश्रम्य च मुहूर्तकम् ।
वल्मीकोपरि विन्यस्तभारो हर्तुं प्रचक्रमे ॥ ६ ॥
विश्वामित्राज्ञया तावत्कृष्णसर्पो भयावहः ।
महाविषो महाघोरो वल्मीकान्निर्गतस्तदा ॥ ७ ॥
तेनासौ बालको दष्टस्तदैव च पपात ह ।
रोहिताख्यं मृतं दृष्ट्वा ययुर्बाला द्विजालयम् ॥ ८ ॥
त्वरिता भयसंविग्नाः प्रोचुस्तन्मातुरग्रतः ।
हे विप्रदासि ते पुत्रः क्रीडां कर्तुं बहिर्गतः ॥ ९ ॥
अस्माभिः सहितस्तत्र सर्पदष्टो मृतस्ततः ।
इति सा तद्वचः श्रुत्वा वज्रपातोपमं तदा ॥ १० ॥
पपात मूर्च्छिता भूमौ छिन्नेव कदली यथा ।
अथ तां ब्राह्मणो रुष्टः पानीयेनाभ्यषिञ्चत ॥ ११ ॥
मुहूर्ताच्चेतनां प्राप्ता ब्राह्मणस्तामथाब्रवीत् ।
ब्राह्मण उवाच -
अलक्ष्मीकारकं निन्द्यं जानती त्वं निशामुखे ॥ १२ ॥
रोदनं कुरुषे दुष्टे लज्जा ते हृदये न किम् ।
ब्राह्मणेनैवमुक्ता सा न किञ्चिद्वाक्यमब्रवीत् ॥ १३ ॥
रुरोद करुणं दीना पुत्रशोकेन पीडिता ।
अश्रुपूर्णमुखी दीना धूसरा मुक्तमूर्धजा ॥ १४ ॥
अथ तां कुपितो विप्रो राजपत्‍नीमभाषत ।
धिक्त्वां दुष्टे क्रयं गृह्य मम कार्यं विलुम्पसि ॥ १५ ॥
अशक्ता चेत्कथं तर्हि गृहीतं मम तद्धनम् ।
एवं निर्भर्त्सिता तेन क्रूरवाक्यैः पुनः पुनः ॥ १६ ॥
रुदिता कारणं प्राह विप्रं गद्‌गदया गिरा ।
स्वामिन् मम सुतो बालः सर्पदष्टो मृतो बहिः ॥ १७ ॥
अनुज्ञां मे प्रयच्छस्व द्रष्टुं यास्यामि बालकम् ।
दुर्लभं दर्शनं तेन सञ्जातं मम सुव्रत ॥ १८ ॥
इत्युक्त्वा करुणं बाला पुनरेव रुरोद ह ।
पुनस्तां कुपितो विप्रो राजपत्‍नीमभाषत ॥ १९ ॥
ब्राह्मण उवाच -
शठे दुष्टसमाचारे किं न जानासि पातकम् ।
यः स्वामिवेतनं गृह्य तस्य कार्यं विलुम्पति ॥ २० ॥
नरके पच्यते सोऽथ महारौरवपूर्वके ।
उषित्वा नरके कल्पं ततोऽसौ कुक्कुटो भवेत् ॥ २१ ॥
किमनेनाथवा कार्यं धर्मसंकीर्तनेन मे ।
यस्तु पापरतो मूर्खः क्रूरो नीचोऽनृतः शठः ॥ २२ ॥
तद्वाक्यं निष्फलं तस्मिन्भवेद्‌ बीजमिवोषरे ।
एहि ते विद्यते किञ्चित्परलोकभयं यदि ॥ २३ ॥
एवमुक्ताथ सा विप्रं वेपमानाब्रवीद्वचः ।
कारुण्यं कुरु मे नाथ प्रसीद सुमुखो भव ॥ २४ ॥
प्रस्थापय मुहूर्तं मां यावद्‌ द्रक्ष्यामि बालकम् ।
एवमुक्त्वाथ सा मूर्ध्ना निपत्य द्विजपादयोः ॥ २५ ॥
रुरोद करुणं बाला पुत्रशोकेन पीडिता ।
अथाह कुपितो विप्रः क्रोधसंरक्तलोचनः ॥ २६ ॥
विप्र उवाच -
किं ते पुत्रेण मे कार्यं गृहकर्म कुरुष्व मे ।
किं न जानासि मे क्रोधं कशाघातफलप्रदम् ॥ २७ ॥
एवमुक्ता स्थिता धैर्याद्‌ गृहकर्म चकार ह ।
अर्धरात्रो गतस्तस्याः पादाभ्यङ्गादिकर्मणा ॥ २८ ॥
ब्राह्मणेनाथ सा प्रोक्ता पुत्रपार्श्वं व्रजाधुना ।
तस्य दाहादिकं कृत्वा पुनरागच्छ सत्वरम् ॥ २९ ॥
न लुप्येत यथा प्रातर्गृहकर्म ममेति च ।
ततस्त्वेकाकिनी रात्रौ विलपन्ती जगाम ह ॥ ३० ॥
दृष्ट्वा मृतं निजं पुत्रं भृशं शोकेन पीडिता ।
यूथभ्रष्टा कुरङ्गीव विवत्सा सौरभी यथा ॥ ३१ ॥
वाराणस्या बहिर्गत्वा क्षणाद्‌ दृष्ट्वा निजं सुतम् ।
शयानं रङ्कवद्‌भूमौ काष्ठदर्भतृणोपरि ॥ ३२ ॥
विललापातिदुःखार्ता शब्दं कृत्वा सुनिष्ठुरम् ।
एहि मे सम्मुखं कस्माद्‌रोषितोऽसि वदाधुना ॥ ३३ ॥
आयास्यभिमुखो नित्यमम्बेत्युक्त्वा पुनः पुनः ।
गत्वा स्खलत्पदा तस्य पपातोपरि मूर्छिता ॥ ३४ ॥
पुनः सा चेतनां प्राप्य दोर्भ्यामालिङ्ग्य बालकम् ।
तन्मुखे वदनं न्यस्य रुरोदार्तस्वनैस्तदा ॥ ३५ ॥
कराभ्यां ताडनं चक्रे मस्तकस्योदरस्य च ।
हा बाल हा शिशो वत्स हा कुमारक सुन्दर ॥ ३६ ॥
हा राजन् क्व गतोऽसि त्वं पश्येमं बालकं निजम् ।
प्राणेभ्योऽपि गरीयांसं भूतले पतितं मृतम् ॥ ३७ ॥
तथापश्यन्मुखं तस्य भूयो जीवितशङ्कया ।
निर्जीववदनं ज्ञात्वा मूर्छिता निपपात ह ॥ ३८ ॥
हस्तेन वदनं गृह्य पुनरेवमभाषत ।
शयनं त्यज हे बाल शीघ्रं जागृहि भीषणम् ॥ ३९ ॥
निशार्धं वर्धते चेदं शिवाशतनिनादितम् ।
भूतप्रेतपिशाचादिडाकिनीयूथनादितम् ॥ ४० ॥
मित्राणि ते गतान्यस्तात्त्वमेकस्तु कुतः स्थितः ।
सूत उवाच -
एवमुक्त्वा पुनस्तन्वी करुणं प्ररुरोद ह ॥ ४१ ॥
हा शिशो बाल हा वत्स रोहिताख्य कुमारक ।
रे पुत्र प्रतिशब्दं मे कस्मात्त्वं न प्रयच्छसि ॥ ४२ ॥
तवाहं जननी वत्स किं न जानासि पश्य माम् ।
देशत्यागाद्‌राज्यनाशात्पुत्र भर्त्रा स्वविक्रयात् ॥ ४३ ॥
यद्दासीत्वाच्च जीवामि त्वां दृष्ट्वा पुत्र केवलम् ।
ते जन्मसमये विप्रैरादिष्टं यत्त्वनागतम् ॥ ४४ ॥
दीर्घायुः पृथिवीराजः पुत्रपौत्रसमन्वितः ।
शौर्यदानरतिः सत्त्वो गुरुदेवद्विजार्चकः ॥ ४५ ॥
मातापित्रोस्तु प्रियकृत्सत्यवादी जितेन्द्रियः ।
इत्यादि सकलं जातमसत्यमधुना सुत ॥ ४६ ॥
चक्रमत्स्यावातपत्रश्रीवत्सस्वस्तिकध्वजाः ।
तव पाणितले पुत्र कलशश्चामरं तथा ॥ ४७ ॥
लक्षणानि तथान्यानि त्वद्धस्ते यानि सन्ति च ।
तानि सर्वाणि मोघानि सञ्जातान्यधुना सुत ॥ ४८ ॥
हा राजन्पृथिवीनाथ क्व ते राज्यं क्व मन्त्रिणः ।
क्व ते सिंहासनं छत्रं क्व ते खड्गः क्व तद्धनम् ॥ ४९ ॥
क्व सायोध्या क्व हर्म्याणि क्व गजाश्वरथप्रजाः ।
सर्वमेतत्तथा पुत्र मां त्यक्त्वा क्व गतोऽसि रे ॥ ५० ॥
हा कान्त हा नृपागच्छ पश्येमं स्वसुतं प्रियम् ।
येन ते रिङ्गता वक्षः कुंकुमेनावलेपितम् ॥ ५१ ॥
स्वशरीररजःपङ्कैर्विशालं मलिनीकृतम् ।
येन ते बालभावेन मृगनाभिविलेपितः ॥ ५२ ॥
भ्रंशितो भालतिलकस्तवाङ्कस्थेन भूपते ।
यस्य वक्त्रं मृदा लिप्तं स्नेहाद्वै चुम्बितं मया ॥ ५३ ॥
तन्मुखं मक्षिकालिङ्ग्यं पश्ये कीटैर्विदूषितम् ।
हा राजन् पश्य तं पुत्रं भुविस्थं रङ्कवन्मृतम् ॥ ५४ ॥
हा देव किं मया कृत्यं कृतं पूर्वभवान्तरे ।
तस्य कर्मफलस्येह न पारमुपलक्षये ॥ ५५ ॥
हा पुत्र हा शिशो वत्स का कुमारक सुन्दर ।
एवं तस्या विलापं ते श्रुत्वा नगरपालकाः ॥ ५६ ॥
जागृतास्त्वरितास्तस्याः पार्श्वमीयुः सुविस्मिताः ।
जना ऊचुः -
का त्वं बालस्य कस्यायं पतिस्ते कुत्र तिष्ठति ॥ ५७ ॥
एकैव निर्भया रात्रौ कस्मात्त्वमिह रोदिषि ।
एवमुक्ताथ सा तन्वी न किञ्चिद्‌वाक्यमब्रवीत् ॥ ५८ ॥
भूयोऽपि पृष्टा सा तूष्णीं स्तब्धीभूता बभूव ह ।
विललापातिदुःखार्ता शोकाश्रुप्लुतलोचना ॥ ५९ ॥
अथ ते शङ्‌कितास्तस्यां रोमाञ्चिततनूरुहाः ।
संत्रस्ताः प्राहुरन्योन्यमुद्‌धृतायुधपाणयः ॥ ६० ॥
नूनं स्त्री न भवत्येषा यतः किञ्चिन्न भाषते ।
तस्माद्वध्या भवेदेषा यत्‍नतो बालघातिनी ॥ ६१ ॥
शुभा चेत्तर्हि किं ह्यत्र निशार्धे तिष्ठते बहिः ।
भक्षार्थमनया नूनमानीतः कस्यचिच्छिशुः ॥ ६२ ॥
इत्युक्त्वा तैर्गृहिता सा गाढं केशेषु सत्वरम् ।
भुजयोरपरैश्चैव कैश्चापि गलके तथा ॥ ६३ ॥
खेचरी यास्यतीत्युक्तं बहुभिः शस्त्रपाणिभिः ।
आकृष्य पक्कणे नीता चाण्डालाय समर्पिता ॥ ६४ ॥
हे चाण्डाल बहिर्दृष्टा ह्यस्माभिर्बालघातिनी ।
वध्यतां वध्यतामेष शीघ्रं नीत्वा बहिःस्थले ॥ ६५ ॥
चाण्डालः प्राह तां दृष्ट्वा ज्ञातेयं लोकविश्रुता ।
न दृष्टपूर्वा केनापि लोकडिम्भान्यनेकधा ॥ ६६ ॥
भक्षितान्यनया भूरि भवद्‌भिः पुण्यमार्जितम् ।
ख्यातिर्वः शाश्वती लोके गच्छध्वं च यथासुखम् ॥ ६७ ॥
द्विजस्त्रीबालगोघाती स्वर्णस्तेयी च यो नरः ।
अग्निदो वर्त्मघाती च मद्यपो गुरुतल्पगः ॥ ६८ ॥
महाजनविरोधी च तस्य पुण्यप्रदो वधः ।
द्विजस्यापि स्त्रियो वापि न दोषो विद्यते वधे ॥ ६९ ॥
अस्या वधश्च मे योग्य इत्युक्त्वा गाडबन्धनैः ।
बद्ध्वा केशेष्वथाकृष्य रज्जुभिस्तामताडयत् ॥ ७० ॥
हरिश्चन्द्रमथोवाच वाचा परुषया तदा ।
रे दास वध्यतामेषा दुष्टात्मा मा विचारय ॥ ७१ ॥
तद्वाक्यं भूपतिः श्रुत्वा वज्रपातोपमं तदा ।
वेपमानोऽथ चाण्डालं प्राह स्त्रीवधशङ्‌कितः ॥ ७२ ॥
न शक्तोऽहमिदं कर्तुं प्रेष्यं देहि ममापरम् ।
असाध्यमपि यत्कर्म तत्करिष्ये त्वयोदितम् ॥ ७३ ॥
श्रुत्वा तदुक्तं वचनं श्वपचो वाक्यमब्रवीत् ।
मा भैषीस्त्वं गृहाणासिं वधोऽस्याः पुण्यदो मतः ॥ ७४ ॥
बालानामेव भयदा नेयं रक्ष्या कदाचन ।
तच्छ्रुत्वा वचनं तस्य राजा वचनमब्रवीत् ॥ ७५ ॥
स्त्रियो रक्ष्याः प्रयत्‍नेन न हन्तव्याः कदाचन ।
स्त्रीवधे कीर्तितः पापं मुनिभिर्धर्मतत्परैः ॥ ७६ ॥
पुरुषो यः स्त्रियं हन्याज्ज्ञानतोऽज्ञानतोऽपि वा ।
नरके पच्यते सोऽथ महारौरवपूर्वके ॥ ७७ ॥
चाण्डाल उवाच -
मा वदासिं गृहाणैनं तीक्ष्णं विद्युत्समप्रभम् ।
यत्रैकस्मिन्वधं नीते बहूनां तु सुखं भवेत् ॥ ७८ ॥
तस्य हिंसा कृतं नूनं बहुपुण्यप्रदा भवेत् ।
भक्षितान्यनया भूरि लोके डिम्भानि दुष्टया ॥ ७९ ॥
तत्क्षिप्रं वध्यतामेषा लोकः स्वस्थो भविष्यति ।
राजोवाच -
चाण्डालाधिपते तीव्रं व्रतं स्त्रीवधवर्जनम् ॥ ८० ॥
आजन्मतस्ततो यत्‍नं न कुर्यां स्त्रीवधे तव ।
चाण्डाल उवाच -
स्वामिकार्यं विना दुष्ट किं कार्यं विद्यतेऽपरम् ॥ ८१ ॥
गृहीत्वा वेतनं मेऽद्य कस्मात्कार्यं विलुम्पसि ।
यः स्वामिवेतनं गृह्य स्वामिकार्यं विलुम्पति ॥ ८२ ॥
नरकान्निष्कृतिस्तस्य नास्ति कल्पायुतैरपि ।
राजोवाच -
चाण्डालनाथ मे देहि प्राप्यमन्यत्सुदारुणम् ॥ ८३ ॥
स्वशत्रुं ब्रूहि तं क्षिप्रं घातयिष्याम्यसंशयम् ।
घातयित्वा तु तं शत्रुं तव दास्यामि मेदिनीम् ॥ ८४ ॥
देव देवोरगैः सिद्धैर्गन्धर्वैरपि संयुतम् ।
देवेन्द्रमपि जेष्यामि निहत्य निशितैः शरैः ॥ ८५ ॥
एतच्छ्रुत्वा ततो वाक्यं हरिश्चन्द्रस्य भूपतेः ।
चाण्डालः कुपितः प्राह वेपमानं महीपतिम् ॥ ८६ ॥
चाण्डाल उवाच -
(नैतद्वाक्यं सुघटितं यद्वाक्यं दासकीर्तितम्)
चाण्डालदासतां कृत्वा सुराणां भाषसे वचः ।
दास किं बहुना नूनं शृणु मे गदतो वचः ॥ ८७ ॥
निर्लज्ज तव चेदस्ति किञ्चित्पापभयं हृदि ।
किमर्थं दासतां यातश्चाण्डालस्य तु वेश्मनि ॥ ८८ ॥
गृहाणैनं ततः खड्गमस्याश्छिन्धि शिरोऽम्बुजम् ।
एवमुक्त्वाथ चाण्डालो राज्ञे खड्गं न्यवेदयत् ॥ ८९ ॥


-





इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥
अध्याय पंचविसावा समाप्त

GO TOP