श्रीमद्‌देवीभागवत महापुराण
सप्तमः स्कन्धः
चतुर्विंशोऽध्यायः


हरिश्चन्द्रचिन्तावर्णनम्

शौनक उवाच -
ततः किमकरोद्‌राजा चाण्दालस्य गृहे गतः ।
तद्‌ ब्रूहि सूतवर्य त्वं पृच्छतः सत्वरं हि मे ॥ १ ॥
सूत उवाच -
विश्वामित्रे गते विप्रे श्वपचो हृष्टमानसः ।
विश्वामित्राय तद्‌ द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम् ॥ २ ॥
असत्यो यास्यसीत्युक्त्वा दण्डेनाताडयत्तदा ।
दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम् ॥ ३ ॥
इष्टबन्धुवियोगार्तमानीय निजपक्कणे ।
निगडे स्थापयित्वा तं स्वयं सुष्वाप विज्वरः ॥ ४ ॥
निगडस्थस्ततो राजा वसंश्चाण्डालपक्कणे ।
अन्नपाने परित्यज्य सदा वै तदशोचयत् ॥ ५ ॥
तन्वी दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः ।
मां स्मरन्त्यसुखाविष्टा मोक्षयिष्यति नौ नृपः ॥ ६ ॥
उपात्तवित्तो विप्राय दत्त्वा वित्तं प्रतिश्रुतम् ।
रोदमानं सुतं वीक्ष्य मां च सम्बोधयिष्यति ॥ ७ ॥
तातपार्श्वं व्रजामीति रुदन्तं बालकं पुनः ।
तात तातेति भाषन्तं तथा सम्बोधयिष्यति ॥ ८ ॥
न सा मां मृगशावाक्षी वेत्ति चाण्डालतां गतम् ।
राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः ॥ ९ ॥
ततश्चाण्डालता चेयमहो दुःखपरम्परा ।
एवं स निवसन्नित्यं स्मरंश्च दयितां सुतम् ॥ १० ॥
निनाय दिवसान् राजा चतुरो विधिपीडितः ।
अथाह्नि पञ्चमे तेन निगडान्मोचितो नृपः ॥ ११ ॥
चाण्डालेनानुशिष्टश्च मृतचैलापहारणे ।
क्रुद्धेन परुषैर्वाक्यैर्निर्भत्स्य च पुनः पुनः ॥ १२ ॥
काश्याश्च दक्षिणे भागे श्मशानं विद्यते महत् ।
तद्‌रक्षस्व यथान्यायं न त्याज्यं तत्त्वया क्वचित् ॥ १३ ॥
इमं च जर्जरं दण्डं गृहीत्वा याहि मा चिरम् ।
वीरबाहोरयं दण्ड इति घोषस्व सर्वतः ॥ १४ ॥
सूत उवाच -
कस्मिंश्चिदथ काले तु मृतचैलापहारकः ।
हरिश्चन्द्रोऽभवद्‌राजा श्मशाने दद्‌वशानुगः ॥ १५ ॥
चाण्डालेनानुशिष्टस्तु मृतचैलापहारिणा ।
राजा तेन समादिष्टो जगाम शवमन्दिरम् ॥ १६ ॥
पुर्यास्तु दक्षिणे देशे विद्यमानं भयानकम् ।
शवमाल्यसमाकीर्णं दुर्गन्धं बहुधूमकम् ॥ १७ ॥
श्मशानं घोरसन्नादं शिवाशतसमाकुलम् ।
गृद्ध्रगोमायुसंकीर्णं श्ववृन्दपरिवारितम् ॥ १८ ॥
अस्थिसङ्घातसङ्कीर्णं महादुर्गन्धसंकुलम् ।
अर्धदग्धशवास्यानि विकसद्दन्तपंक्तिभिः ॥ १९ ॥
हसन्तीवाग्निमध्यस्थकायस्यैवं व्यवस्थितिः ।
नानामृतसुहृन्नादं महाकोलाहलाकुलम् ॥ २० ॥
हा पुत्र मित्र हा बन्धो भ्रातर्वत्स प्रियाद्य मे ।
हाप्यते भागिनेयार्ह हा मातुल पितामह ॥ २१ ॥
मातामह पितः पौत्र क्व गतोऽस्येहि बान्धव ।
इति शब्दैः समाकीर्णं भैरवैः सर्वदेहिनाम् ॥ २२ ॥
ज्वलन्मांसवसामेदच्छूमिति ध्वनिसङ्कुलम् ।
अग्नेश्चटचटाशब्दो भैरवो यत्र जायते ॥ २३ ॥
कल्पान्तसदृशाकारं श्मशानं तत्सुदारुणम् ।
स राजा तत्र सम्प्राप्तो दुःखादेवमशोचत ॥ २४ ॥
हा भृत्या मन्त्रिणो यूयं क्व तद्‍राज्यं कुलोचितम् ।
हा प्रिय पुत्र मे बाल मां त्यक्त्वा मन्दभाग्यकम् ॥ २५ ॥
ब्राह्मणस्य च कोपेन गता यूयं क्व दूरतः ।
विना धर्मं मनुष्याणां जायते न शुभं क्वचित् ॥ २६ ॥
यत्‍नतो धारयेत्तस्मात्पुरुषो धर्ममेव हि ।
इत्येवं चिन्तयंस्तत्र चाण्डालोक्तं पुनः पुनः ॥ २७ ॥
मलेन दिग्धसर्वाङ्गः शवानां दर्शने व्रजन् ।
लकुटाकारकल्पश्च धावंश्चापि ततस्ततः ॥ २८ ॥
अस्मिञ्छव इदं मौल्यं शतं प्राप्स्यामि चाग्रतः ।
इदं मम इदं राज्ञ इदं चाण्डालकस्य च ॥ २९ ॥
इत्येवं चिन्तयन् राजा व्यवस्थां दुस्तरां गतः ।
जीर्णैकपटसुग्रन्थिकृतकन्थापरिग्रहः ॥ ३० ॥
चिताभस्मरजोलिप्तमुखबाहूदराङ्‌घ्रिकः ।
नानामेदोवसामज्जालिप्तपाण्यङ्गुलिः श्वसन् ॥ ३१ ॥
नानाशवौदनकृतक्षुन्निवृत्तिपरायणः ।
तदीयमाल्यसंश्लेषकृतमस्तकमण्डलः ॥ ३२ ॥
न रात्रौ न दिवा शेते हाहेति प्रवदन्मुहुः ।
एवं द्वादश मासास्तु नीता वर्षशतोपमाः ॥ ३३ ॥


-





इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे हरिश्चन्द्रचिन्तावर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
अध्याय चोविसावा समाप्त

GO TOP