ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - पञ्चत्रिंशोऽध्यायः

शंकरकवचकथनम् -


नारायण उवाच
मनोरमा प्राणनाथं क्षणं कृत्वा स्ववक्षसि ।
भविष्यं मनसा चक्रे यद्यत्स्वामिमुखाच्छ्रुतम् ॥ १ ॥
पुत्रांश्च पुरतः कृत्वा बान्धवांश्च स्वकिंकरान् ।
सस्मार सा हरिपदं मेने सत्यं भवेन्मुने ॥ २ ॥
योगेन भित्त्वा षट्चक्रं वायुं संस्थाप्य मूर्धनि ।
ब्रह्मरन्ध्रस्थकमले सहस्रदलसंयुते ॥ ३ ॥
स्वान्तमाकृष्य विषयाज्जलबुद्‌बुदसंनिभात् ।
संस्थाप्य बध्वा ज्ञानेन लोलं ब्रह्मणि निष्कले ॥ ४ ॥
त्रिविधं कर्म संन्यस्य निर्मूलमपुनर्भवम् ।
तत्र प्राणांश्च तत्याज न च प्राणाधिकं प्रियम् ॥ ५ ॥
स राजा तां मृतां दृष्ट्‍वा विललाप रुरोद च ।
संनाहं संपरित्यज्य कृत्वा वक्ष्यस्युवाच ताम् ॥ ६ ॥
राजोवाच
मनोरमे समुत्तिष्ठ न यास्यामि रणाजिरम् ।
सचेतना मां पश्येति विलपन्तं मुहुर्मुहुः ॥ ७ ॥
मनोरमे समुत्तिष्ठ मया सार्धं गृहं व्रज ।
न करिष्यामि समरं भृगुणा सह भामिनि ॥ ८ ॥
मनोरमे समुतिष्ठ श्रीशैलं व्रज सुन्दरि ।
तत्र क्रीडां करिष्यामि त्वया सार्धं यथा पुरा ॥ ९ ॥
मनोरमे समुत्तिष्ठ व्रज गोदावरीं प्रिये ।
जलक्रीडां करिष्यामि त्वया सार्धं यथा पुरा ॥ १० ॥
मनोरमे समुत्तिष्ठ नन्दनं व्रज सुन्दरि ।
पुष्पभद्रानदीतीरे विहरिष्यामि निर्जने ॥ ११ ॥
मनोरमे समुत्तिष्ठ मलयं व्रज सुन्दरि ।
त्वया सार्धं रमिष्येऽहं तत्र चन्दनकानने ॥ १२ ॥
शीतेन गन्धयुक्तेन वायुना सुरभीकृते ।
भमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रिते ॥ १ ३ ॥
चन्दनागुरुकस्तूरीकुंकुमालेपनं कुरु ।
चन्दनोक्षितसर्वाङ्‌गं पश्य मां सस्मिते सति ॥ १४ ॥
सुधातुल्य सुमधुरं वचनं रचय प्रिये ।
कुटिलभ्रूविकारं च कथं न कुरुषेऽधुना ॥ १५ ॥
नृपस्य रोदनं श्रुत्वा वाग्बभूवाशरीरिणी ।
स्थिरो भव महाराज कुरुषे रोदनं कथम् ॥ १६ ॥
त्वं महाज्ञानिनां श्रेष्ठो दत्तात्रेयप्रसादतः ।
जलबुद्‌बुदवत्सर्वं संसारं पश्य शोभनम् ॥ १७ ॥
कमलांशा च सा साध्वी जगाम कमलालयम् ।
त्वमेव गच्छ वैकुण्ठं रणं कृत्वा रणाजिरे ॥ १८ ॥
इत्येवं वचनं श्रुत्वा जहौ शोकं नराधिपः ।
ततश्चन्दनकाष्ठेन चितां दिव्यां चकार ह ॥ १९ ॥
संस्काराग्निं कारयित्वा पुत्रद्वारा ददाह ताम् ।
नानाविधानि रत्‍नानि ब्राह्मणेभ्यो ददौ मुदा ॥ २० ॥
नानाविधानि दानानि वस्त्राणि विविधानि च ।
मनोरमायाः पुण्येन ब्राह्मणेभ्यो ददौ मुदा ॥ २१ ॥
भुज्यतां भुज्यतां शश्वद्‌दीयतां दीयतामिति ।
शब्दो बभूव सर्वत्र कार्तवीर्याश्रमे मुने ॥ २२ ॥
कोषेषु स्वाधिकारेषु स्थितं यद्यद्धनं तदा ।
मनोरमायाः पुण्येन ब्राह्मणेभ्यो ददौ मुदा ॥ २३ ॥
राजा जगाम समर हृदयेन विदूयता ।
सार्धं सैन्यसमूहैश्च वाद्यभाण्डैरसंख्यकैः ॥ २४ ॥
ददर्शामङ्‌गलं राजा पुरो वर्त्मनि वर्त्मनि ।
ययौ तथाऽपि समरं नाऽऽजगाम गृहं पुनः ॥ २५ ॥
मुक्तकेशीं छिन्ननासां रुदतीं च दिगम्बराम् ।
कृष्णवस्त्रपरीधानामपरां विधवामपि ॥ २६ ॥
मुखदुष्टां योनिदुष्टां व्याधियुक्तां च कुट्टिनीम् ।
पतिपुत्रविहीनां च डाकिनीं पुंश्चली तथा ॥ २७ ॥
कुम्भकारं तैलकार व्याधं सर्पोपजीविनम् ।
कुचैलमतिरूक्षाङ्‌गं नग्नं काषायवासिनम् ॥ २८ ॥
वसाविक्रयिणं चैव कन्याविक्रयिणं तथा ।
चितादग्धं शवं भस्म निर्वाणाङ्‌गारमेव च ॥ २९ ॥
सर्पक्षतं नरं सर्पगोधां च शशकं विषम् ।
श्राद्धपाकं च पिण्डं च मोटकं च तिलांस्तथा ॥ ३० ॥
देवलं वृषवाहं च शूद्रश्राद्धान्नभोजिनम् ।
शूद्रान्नपाचकं शूद्रयाजकं ग्रामयाजकम् ॥ ३ १ ॥
कुशपुत्तलिकां चैव शवदाहनकारिणम् ।
शून्यकुम्भं भग्नकुम्भं तैलं लवणमस्थि च ॥ ३२ ॥
कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणम् ।
दक्षिणे च सृगालं च कुर्वन्तं भैरवं रवम् ॥ ३३ ॥
कपर्दकं च क्षौरं च च्छिन्नकेशं नखं मलम् ।
कलहं च विलापं च तथा तत्कारिणं जनम् ॥ ३४ ॥
अमङ्‌गलं वदन्तं च रुदन्तं शोककारिणम् ॥ ३५ ॥
मिथ्यासाक्ष्यप्रदातारं चौरं च नरघातिनम् ।
पुंश्चलीपतिपुत्रौ च पुंश्चल्योदनभोजिनम् ॥ ३६ ॥
देवतोगुरुविप्राणां वस्तुवित्तापहारिणम् ।
दत्तापहारिणं दस्युं हिंसकं सूचकं खलम् ॥ ३७ ॥
पितृमातृविरक्तं च द्विजाश्वत्थविधातिनम् ।
सत्यघ्नं च कृतघ्नं च स्थाप्यस्याप्यपहारिणम् ॥ ३८ ॥
विप्रमित्रद्रोहमेव क्षतं विश्वासघातकम् ।
गुरुदेवद्विजानां च निन्दकं स्वाङ्‌गघातकम् ॥ ३९ ॥
जीवानां घातकं चैव स्वाङ्‌गहीनं च निर्दयम् ।
व्रतोपवासहीनं च दीक्षाहीनं नपुंसकम् ॥ ४० ॥
गलितव्याधिगात्रं च काणं बधिरमेव च ।
पुल्कसं छिन्नलिङ्‌गं च सुरामत्तं सुरां तथा ॥ ४१ ॥
क्षिप्तं वमन्तं रुधिरं महिषं गर्दभं तथा ।
मूत्रं पुरीषं श्लेष्माणं लक्षिणं नृकपालिनम् ॥ ४२ ॥
चण्डवातं रक्तवृष्टिं वाद्यं वै वृक्षपातनम् ।
वृकं च सूकरं गृध्रं श्येनं कंकं च भल्लुकम् ॥ ४३ ॥
पाशं च शुष्ककाष्ठं च वायसं गन्धकं तथा ॥ ४४ ॥
प्रतिग्राहिब्राह्मणं च तन्त्रमन्त्रोपजीविनम् ।
वैद्यं च रक्तपुष्पं चाप्यौषधं तुषमेव च ॥ ४५ ॥
कुवार्ता मृतवार्तां च विप्रशापं च दारुणम् ।
दुर्गन्धिवातं दुःशब्दं राजाऽपश्यत्स वर्त्मनि ॥ ४६ ॥
मनश्च कुत्सितं प्राणाः क्षुभिताश्च निरन्तरम् ।
वामाङ्‌गस्पन्दनं देहजाड्यं राज्ञो बभूव ह ॥ ४७ ॥
तथाऽपि राजा निःशंको ददर्श समराङ्‌गणम् ।
सर्वसैन्यसमायुक्तः प्रविवेश रणाजिरम् ॥ ४८ ॥
अवरुह्य रथात्तूर्णं दृष्ट्‍वा च पुरतो भृगुम् ।
ननाम दण्डवद्‌भूमौ राजेन्द्रैः सह भक्तितः ॥ ४९ ॥
आशिषं युयुजे रामः स्वर्गं याहीति वाच्छितम् ।
तेषां सह्यं तद्‌बभूवुर्दुर्लङ्‌घ्या ब्राह्मणाशिषः ॥ ५० ॥
भृगुं प्रणम्य राजेन्द्रो राजेन्द्रैः सह तत्क्षणात् ।
आरुरोह रथं तूर्णं नानायुधसमन्वितम् ॥ ५१ ॥
नानाप्रकारवाद्यं च दुन्दुभिं मुरजादिकम् ।
वादयामास सहसा ब्राह्मणेभ्यो ददौ धनम् ॥ ५२ ॥
उवाच रामो राजेन्द्रं राजेन्द्राणां च संसदि ।
हितं सत्यं नीतिसारं वाक्यं वेदविदां वरः ॥ ५३ ॥
परशुराम उवाच
शृणु राजेन्द्र धर्मिष्ठ चन्द्रवंशसमुद्‌भव ।
विष्णोरंशस्य शिष्यस्त्वं दत्तात्रेयस्य धीमतः ॥ ५४ ॥
स्वयं विद्वांश्च वेदांश्च श्रुत्वा वेदविदो मुखात् ।
कथं दुर्बुद्धिरधुना सज्जनानां विहिंसना ॥ ५५ ॥
त्वं पूर्वमहनो लोभान्निरीहं ब्राह्मणं कथम् ।
ब्राह्मणी शोकसंतप्ता भर्त्रा सार्धं गता सती ॥ ५६ ॥
किं भविष्यति ते भूप परत्रैवामयोर्वधात् ।
सर्वं मिथ्यैव संसारं पद्मपत्रे यथा जलम् ॥ ५७ ॥
सत्कीर्तिश्चाथ दुष्कीर्तिः कथामात्रावशेषिता ।
विडम्बना वा किमतो दुष्कीर्तेश्च सतामहो ॥ ५८ ॥
क्व गता कपिला त्वं क्व क्व विवादो मुनिः कुतः ।
यत्कृतं विदुषा राज्ञा न कृतं हालिकेन तत् ॥ ५९ ॥
त्वामुषोषितमीशं हि दृष्ट्‍वा तातो हि धार्मिकः ।
पारणा कारयामास दत्तं तस्य फलं त्वया ॥ ६० ॥
अधीतं विधिवद्‌दत्तं ब्राह्मणेभ्यो दिने दिने ।
जगत्ते यशसा पूर्णमयशो वार्धके कथम् ॥ ६१ ॥
दाता बलिष्ठो धर्मिष्ठो यशस्वी पुण्यवान्सुधीः ।
कार्तवीर्यार्जुनसमो न भूतो न भविष्यति ॥ ६२ ॥
पुरातना वदन्तीति वन्दिनो धरणीतले ।
यो विख्यातः पुराणेषु तस्य दुष्कीर्तिरीदृशी ॥ ६३ ॥
दुर्वाक्यं दुःसहं राजंस्तीक्ष्णास्त्रादपि जीविनाम् ।
संकटेऽपि सतां वक्त्राद्‌दुरुक्तिर्न विनिर्गता ॥ ६४ ॥
न ददामि दुरुक्तिं ते प्रकृतं कथयाम्यहम् ।
उत्तरं देहि राजेन्द्र मह्यं राजेन्द्रसंसदि ॥ ६५ ॥
सूर्यचन्द्रमनूनां च वंशजाः सन्ति संसदि ।
सत्यं वद सभायां च शृण्वन्तु पितरः सुराः ॥ ६६ ॥
शृण्वन्तु सर्वे राजेन्द्राः सदसद्वक्तुमीश्वराः ।
पश्यन्तो हि समं सन्तः पाक्षिकं न वदन्ति च ॥ ६७ ॥
इत्युक्त्वा रैणुकेयश्च विरराम रणस्थले ।
राजा बृहस्पतिसमः प्रवक्तुमुपचक्रमे ॥ ६८ ॥
कार्तवीर्यार्जुन उवाच
श्रृणु राम हरेरंशो हरिभक्तो जितेन्द्रियः ।
श्रुतो धर्मी मुखाद्येषां त्वं च तेषां गुरोर्गुरुः ॥ ६९ ॥
कर्मणा ब्राह्मणो जातः करोति ब्रह्मभावनाम् ।
स्वधर्मनिरतः शुद्धस्तस्माद्‌ब्राह्मण उच्यते ॥ ७० ॥
अन्तर्बहिश्च मननात्कुरुते कर्मनित्यशः ।
मौनी शश्वद्वदेत्काले यो वै स मुनिरुच्यते ॥ ७१ ॥
स्वर्णे लोष्टे गृहेऽरण्ये पंके सुस्निग्धचन्दने ।
समताभावना यस्य स योगी परिकीर्तितः ॥ ७२ ॥
सर्वजीवेषु यो विष्णुं भावयेत्समताधिया ।
हरौ करोति भक्तिं च हरिभक्तः स च स्मृतः ॥ ७३ ॥
तपो धनं ब्राह्मणानां तपः कल्पतरुर्यथा ।
तपस्या कामधेनुश्च सततं तपसि स्पृहा ॥ ७४ ॥
ऐश्वर्ये क्षत्रियाणां च वाणिज्ये च तथा विशाम् ।
शूद्राणां विप्रसेवैव स्पृहा वेदेष्वनिन्दिता ॥ ७५ ॥
क्षत्रियाणां च तपसि स्पृहाऽतीवाप्रशंसिता ।
ब्राह्मणानां विवादे च स्पृहाऽतीव विनिन्दिता ॥ ७६ ॥
रागी राजसिकं कार्यं कुरुते कर्मरागतः ।
रागान्धो यो राजसिकस्तेन राजा प्रकीर्तितः ॥ ७७ ॥
रागतः कामधेनुश्च मया वै याचिता मुने ।
को दोष एव मे जातः क्षत्रियस्यानुरागिणः ॥ ७८ ॥
कुतः कस्य मुनेरस्ति कामधेनुस्त्वया विना ।
स्पृहा रणे वा भोगे वा युष्माकं च व्यतिक्रमः ॥ ७९ ॥
त्रिंशदक्षौहिणीं सेनां राजेन्द्राणां त्रिकोटिकाम् ।
निहत्याऽऽयान्तमेकं मां न हन्तुं सहनं मुने ॥ ८० ॥
आत्मानं हन्तुमायान्तमपि वेदाङ्‌गपारगम् ।
न दोषो हनने तस्य न तेन ब्रह्महाऽभवम् ॥ ८१ ॥
प्रायश्चित्तं हिंसकानां न वेदेषु निरूपितम् ।
वधः समुचितस्तेषामित्याह कमलोद्‌भवः ॥ ८२ ॥
पित्रा ते निहता भूपा महाबलपराक्रमाः ।
इदानीं राजपुत्राश्च शिशवोऽत्र समागताः ॥ ८३ ॥
त्रिःसप्तकृत्वो निर्भूपां कृत्स्नां कर्तुं महीमिति ।
त्वया कृता प्रतिज्ञा या तस्यास्त्वं पालनं कुरु ॥ ८४ ॥
क्षत्रियाणां रणो धर्मो रणे मृत्युर्न गर्हितः ।
रणे स्पृहा ब्राह्मणानां लोके वेदे बिडम्बना ॥ ८५ ॥
तपोधनानां विप्राणां वाग्बलानां युगे युगे ।
शान्तिः स्वस्त्ययनं कर्म विप्रधर्मो न संगरः ॥ ८६ ॥
क्षत्रियाणां बलं युद्धं व्यापारश्च बलं विशाम् ।
भिक्षाबलं भिक्षुकाणां शूद्राणां विप्रसेवनम् ॥ ८७ ॥
हरौ भक्तिर्हरेर्दास्यं वैष्णवानां बलं हरिः ।
हिंसा बलं खलानां च तपस्या च तपस्विनाम् ॥ ८८ ॥
बलं वेषश्च वेश्यानां योषितां यौवनं बलम् ।
बलं प्रतापो भूपानां बालानां रोदनं बलम् ॥ ८९ ॥
सतां सत्यं बलं मिथ्या बलमेवासतां सदा ।
अनुगानामनुगमः स्वल्पस्वानां च संचयः ॥ ९० ॥
विद्या बलं पण्डितानां धैर्यं साहसिनां बलम् ।
शश्वत्कुकर्मशीलानां गाम्भीर्यं साहसं बलम् ॥ ९१ ॥
धनं बलं च धनिनां शुचीनां च विशेषतः ।
बलं विवेकः शान्तानां गुणिनां बलमेकता ॥ ९२ ॥
गुणो बलं च गुणिनां चौराणां चौर्यमेव च ।
प्रियवाक्यं च कापट्यमधर्मः पुंश्चलीबलम् ॥ ९३ ॥
हिंसा च हिंस्रजन्तूनां सतीनां पतिसेवनम् ।
वरशापौ सुराणां च शिष्याणां गुरुसेवनम् ॥ ९४ ॥
बलं धर्मो गृहस्थानां भृत्यानां राजसेवनम् ।
बलं स्तवः स्तावकानां ब्रह्म च ब्रह्मचारिणाम् ॥ ९५ ॥
यतीनां च सदाचारो न्यासः संन्यासिनां बलम् ।
पापं बलं पातकिनामशक्तानां हरिर्बलम् ॥ ९६ ॥
पुण्यं बलं पुण्यवतां प्रजानां नृपतिर्बलम् ।
फलं बलं च वृक्षाणां जलजानां जलं बलम् ॥ ९७ ॥
जलं बलं च सस्यानां मत्स्यानां च जलं बलम् ।
शान्तिर्बलं च भूपानां विप्राणां च विशेषतः ॥ ९८ ॥
विप्रः शान्तो रणोद्योगी नैव दृष्टो न च श्रुतः ।
स्थिते नारायणे देवे बभूवाद्य विपर्ययः ॥ ९९ ॥
इत्येवमुक्त्वा राजेन्द्रो विरराम रणाजिरे ।
तस्य तद्वचनं श्रुत्वा सद्यस्तूष्णीं बभूव ह ॥ १०० ॥
रामस्य भ्रातरः सर्वे तीक्ष्णशस्त्रासिपाणयः ।
आरेभिरे रणं कर्तुं महावीरास्तदाज्ञया ॥ १०१ ॥
रणोन्मुखांश्च तान्तुष्ट्या मत्स्यराजो महाबलः ।
समारेभे रणं कर्तुं मङ्‌गलो मङ्‌गलालयः ॥ १०२ ॥
शरजालेन राजेन्द्रो वारयामास तानपि ।
चिच्छिदुः शरजालं च जमदग्निसुतास्तदा ॥ १०३ ॥
राजा चिक्षेप दिव्यास्त्रं शतसूर्यप्रभं मुने ।
माहेश्वरेण मुनयश्चिच्छिदुश्चैव लीलया ॥ १०४ ॥
दिव्यास्त्रेणैव मुनयश्चिच्छिदुः सशरं धनुः ।
रथं च सारथिं चैव राज्ञः संनाहमेव च ॥ १०५ ॥
न्यस्तशस्त्रं नृपं दृष्ट्‍वा मुनयो हर्षविह्वलाः ।
दधार शूलिनः शूल मत्स्यराजजिघांसया ॥ १०६ ॥
शूलनिःक्षेपसमये वाग्बभूवाशरीरिणी ।
शूलं त्यजत विप्रेन्द्राः शिवस्यायर्थमेव च ॥ १०७ ॥
शिवस्य कवचं दिव्यं दत्तं दुर्वाससा पुरा ।
मत्स्यराजगलेऽस्त्येतत्सर्वावयवरक्षणम् ॥ १०८ ॥
प्राणानां च प्रदातारं कवचं याचतं नृपम् ।
तदा निक्षिप्तशूलं च जघान नृपतीश्वरम् ॥ १०९ ॥
तच्छूलं तं नृपं प्राप्य शतखण्डं गतं मुने ।
श्रुत्वैवाऽऽकाशवाणीं च शृङ्‌गी संन्यासवेषकृत् ॥ ११० ॥
ययाचे कवचं भूपं जमदग्निसुतो महान् ।
राजा ददौ च कवचं ब्रह्माण्डविजयं परम् ॥ १११ ॥
गृहीत्वा कवचं तच्च शूलेनैव जघान ह ।
पपात मत्स्यराजश्च शतचन्द्रसमाननः ।
महाबलिष्ठो गुणवांश्चन्द्रवंशसमुद्‌भवः ॥ ११२ ॥
नारद उवाच
शिवस्य कवचं ब्रूहि मत्स्यराजेन यद्धृतम् ।
नारायण महाभाग श्रोतुं कौतूहलं मम ॥ ११३ ॥
नारायण उवाच
कवचं शृणु विप्रेन्द्र शंकरस्य महात्मनः ।
ब्रह्माण्डविजयं नाम सर्वावयवरक्षणम् ॥ ११४ ॥
पुरा दुर्वाससा दत्तं मत्स्यराजाय धीमते ।
दत्त्वा षडक्षरं मन्त्रं सर्वपापप्रणाशनम् ॥ ११५ ॥
स्थिते च कवचे देहे नास्ति मृत्युश्च जीविनाम् ।
अस्त्रे शस्त्रे जले वह्नौ सिद्धिश्चेन्नास्ति संशयः ॥ ११६ ॥
यद्धृत्वा पठनाद्‌बाणः शिवत्वं प्राप लीलया ।
बभृव शिवतुल्यश्च यद्धृत्वा नन्दिकेश्वरः ॥ ११७ ॥
वीरश्रेष्ठो वीरभद्रो साम्बोऽभूद्धारणाद्यतः ।
त्रैलोक्यविजयी राजा हिरण्यकशिपुः स्वयम् ॥ ११८ ॥
हिरण्याक्षश्च विजयी चाभवद्धारणाद्धि सः ।
यद्धृत्वा पठनात्सिद्धो दुर्वासा विश्वपूजितः ॥ ११९ ॥
जैगीषव्यो महायोगी पठनाद्धारणाद्यतः ।
यद्धृत्वा वामदेवश्च देवलः पवनः स्वयम् ।
अगस्त्यश्च पुलस्त्यश्चाप्यभवद्विश्वपूजितः ॥ १२० ॥
ॐ नमः शिवायेति च मस्तकं मे सदाऽवतु ।
ॐ नमः शिवायेति च स्वाहा भालं सदाऽवतु ॥ १२१ ॥
ॐ ह्रीं श्रीं क्लीं शिवायेति स्वाहा नेत्रे सदाऽवतु ।
ॐ ह्रीं क्लीं हूं शिवायेति नमो मे पातु नासिकाम् ॥ १२२ ॥
ॐनमः शिवाय शान्ताय स्वाहा कण्ठं सदाऽवतु ।
ॐ ह्रीं श्रीं हूं संहारकर्त्रे स्वाहा कर्णौ सदाऽवतु ॥ १२३ ॥
ॐ ह्रीं श्रीं पञ्चवक्त्राय स्वाहा दन्तं सदाऽवतु ।
ॐ ह्रीं महेशाय स्वाहा चाधरं पातु मे सदा ॥ १२४ ॥
ॐ ह्रीं श्रीं क्लीं त्रिनेत्राय स्वाहा केशान्सदाऽवतु ।
ॐ ह्रीं ऐं महादेवाय स्वाहा वक्षः सदाऽवतु ॥ १२५ ॥
ॐ हीं श्रीं क्लीं मे रुद्राय स्वाहा नाभिं सदाऽवतु ।
ॐ ह्रीं मैं श्रीमीश्वराय स्वाहा पृष्ठं सदाऽवतु ॥ १२६ ॥
ॐ ह्रीं क्लीं मृत्युंजयाय स्वाहा भ्रुवौ सदाऽवतु ।
ॐ ह्रीं श्रींक्लीमीशानाय स्वाहा पार्श्वं सदाऽवतु ॥ १२७ ॥
ॐह्रीमीश्वराय स्वाहा चोदरं पातु मे सदा ।
ॐ श्रीं ह्रीं मृत्युंजयाय स्वाहा बाहू सदाऽवतु ॥ १२८ ॥
ॐ ह्रीं श्रीं क्लीमीश्वराय स्वाहा पातु करौ मम ।
ॐ महेश्वराय रुद्राय नितम्बं पातु मे सदा ॥ १२९ ॥
ॐ ह्रीं श्रीं भूतनाथाय स्वाहा पादौ सदाऽवतु ।
ॐ सर्वेश्वराय शर्वाय स्वाहा पादौ सदाऽवतु ॥ १३० ॥
प्राच्यां मां पातु भूतेश आग्नेय्यां पातु शंकरः ।
दक्षिणे पातु मां रुद्रो नर्ऋत्यां स्थाणुरेव च ॥ १३१ ॥
पश्चिमे खण्डपरशुर्वायव्यां चन्द्रशेखरः ।
उत्तरे गिरिशः पातु चैशान्यामीश्वरः स्वयम् ॥ १ ३२ ॥
ऊर्ध्वे मृडः सदा पातु चाधो मृत्युंजयः स्वयम् ।
जले स्थले चान्तरिक्षे स्वप्ने जागरणे सदा ॥ १३ ३ ॥
पिनाकी पातु मां प्रीत्या भक्तं वै भक्तवत्सलः ।
इति ते कथितं वत्स कवचं परमाद्‌भुतम् ॥ १ ३४ ॥
दशलक्षजपेनैव सिद्धिर्भवति निश्चितम् ।
यदि स्यात्सिद्धकवचो रुद्रतुल्यो भवेद्ध्रुवम् ॥ १३५ ॥
तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ।
कवचं काण्वशाखोक्तमतिगोप्यं सुदुर्लभम् ॥ १३६ ॥
अश्वमेधसहस्राणि राजसूयशतानि च ।
सर्वाणि कवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ १३७ ॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
सर्वज्ञः सर्वसिद्धेशो मनोयायी भवेद्ध्रुवम् ॥ १३८ ॥
इदं कवचमज्ञात्वा भजेद्यः शंकरप्रभुम् ।
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ १३९ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे शंकरकवचकथनं
नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥


GO TOP